६. भीष्मपर्व
६.७४.१संजय उवाच

६.७४.२ततो दुर्योधनो राजा मोहात्प्रत्यागतस्तदा
शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम्

६.७४.३एकीभूताः पुनश्चैव तव पुत्रा महारथाः
समेत्य समरे भीमं योधयामासुरुद्यताः

६.७४.४भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः
समारुह्य महाबाहुर्ययौ येन तवात्मजः

६.७४.५प्रगृह्य च महावेगं परासुकरणं दृढम्
चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान्

६.७४.६ततो दुर्योधनो राजा भीमसेनं महाबलम्
नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत्

६.७४.७सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना
क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम्

६.७४.८दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
स तथाभिहतो राजा नाचलद्गिरिराडिव

६.७४.९तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम्
दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः

६.७४.१०संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः
निश्चयं मनसा कृत्वा निग्रहीतुं प्रचक्रमुः

६.७४.११तानापतत एवाजौ भीमसेनो महाबलः
प्रत्युद्ययौ महाराज गजः प्रतिगजानिव

६.७४.१२भृशं क्रुद्धश्च तेजस्वी नाराचेन समर्पयत्
चित्रसेनं महाराज तव पुत्रं महायशाः

६.७४.१३तथेतरांस्तव सुतांस्ताडयामास भारत
शरैर्बहुविधैः संख्ये रुक्मपुङ्खैः सुवेगितैः

६.७४.१४ततः संस्थाप्य समरे स्वान्यनीकानि सर्वशः
अभिमन्युप्रभृतयस्ते द्वादश महारथाः

६.७४.१५प्रेषिता धर्मराजेन भीमसेनपदानुगाः
प्रत्युद्ययुर्महाराज तव पुत्रान्महाबलान्

६.७४.१६दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः
सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान्

६.७४.१७महाहवे दीप्यमानान्सुवर्णकवचोज्ज्वलान्
तत्यजुः समरे भीमं तव पुत्रा महाबलाः

६.७४.१८तान्नामृष्यत कौन्तेयो जीवमाना गता इति
अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत्

६.७४.१९अथाभिमन्युं समरे भीमसेनेन संगतम्
पार्षतेन च संप्रेक्ष्य तव सैन्ये महारथाः

६.७४.२०दुर्योधनप्रभृतयः प्रगृहीतशरासनाः
भृशमश्वैः प्रजवितैः प्रययुर्यत्र ते रथाः

६.७४.२१अपराह्णे ततो राजन्प्रावर्तत महान्रणः
तावकानां च बलिनां परेषां चैव भारत

६.७४.२२अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान्
अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत्

६.७४.२३हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः
आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम्

६.७४.२४स्थितावेकरथे तौ तु भ्रातरौ कुरुवर्धनौ
आर्जुनिः शरजालेन छादयामास भारत

६.७४.२५दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः
विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः

६.७४.२६दुःशासनस्तु समरे केकयान्पञ्च मारिष
योधयामास राजेन्द्र तदद्भुतमिवाभवत्

६.७४.२७द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन्
एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते

६.७४.२८पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे
सायकैर्निशितै राजन्नाजघान पृथक्पृथक्

६.७४.२९तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः
गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः

६.७४.३०भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम्
कालयामास बलवान्पालः पशुगणानिव

६.७४.३१ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते
दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः

६.७४.३२उत्तस्थुः समरे तत्र कबन्धानि समन्ततः
कुरूणां चापि सैन्येषु पाण्डवानां च भारत

६.७४.३३शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम्
रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम्

६.७४.३४छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः
पतितास्तत्र दृश्यन्ते शतशोऽथ सहस्रशः

६.७४.३५निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः
भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा

६.७४.३६तत्राद्भुतमपश्याम तव तेषां च भारत
न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति

६.७४.३७एवं युयुधिरे वीराः प्रार्थयाना महद्यशः
तावकाः पाण्डवैः सार्धं काङ्क्षमाणा जयं युधि