६.७५.१संजय उवाच
६.७५.२ततो दुर्योधनो राजा लोहितायति भास्करे
संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत
६.७५.३तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम्
भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत्
६.७५.४अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्क्षितः
अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम्
६.७५.५अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः
द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि
६.७५.६यत्त्वं दुरोदरो भूत्वा पाण्डवानवमन्यसे
तस्य पापस्य गान्धारे पश्य व्यसनमागतम्
६.७५.७कर्णस्य मतमाज्ञाय सौबलस्य च यत्पुरा
अचिन्त्य पाण्डवान्कामाद्यथेष्टं कृतवानसि
६.७५.८याचमानं च यन्मोहाद्दाशार्हमवमन्यसे
उलूकस्य समादेशं यद्ददासि च हृष्टवत्
६.७५.९अद्य त्वा निहनिष्यामि सानुबन्धं सबान्धवम्
समीकरिष्ये तत्पापं यत्पुरा कृतवानसि
६.७५.१०एवमुक्त्वा धनुर्घोरं विकृष्योद्भ्राम्य चासकृत्
समादाय शरान्घोरान्महाशनिसमप्रभान्
६.७५.११षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने
ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान्
६.७५.१२ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे
चतुर्भिरश्वाञ्जवनाननयद्यमसादनम्
६.७५.१३द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः
छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात्
६.७५.१४त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम्
छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः
६.७५.१५रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः
पपात सहसा भूमिं विद्युज्जलधरादिव
६.७५.१६ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम्
ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः
६.७५.१७अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम्
आजघान रणे भीमः स्मयन्निव महारथः
६.७५.१८ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः
दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम्
६.७५.१९कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम्
आरोपयद्रथं राजन्दुर्योधनममर्षणम्
६.७५.२०स गाढविद्धो व्यथितो भीमसेनेन संयुगे
निषसाद रथोपस्थे राजा दुर्योधनस्तदा
६.७५.२१परिवार्य ततो भीमं हन्तुकामो जयद्रथः
रथैरनेकसाहस्रैर्भीमस्यावारयद्दिशः
६.७५.२२धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान्
केकया द्रौपदेयाश्च तव पुत्रानयोधयन्
६.७५.२३चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः
चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ
६.७५.२४अष्टावेते महेष्वासाः सुकुमारा यशस्विनः
अभिमन्युरथं राजन्समन्तात्पर्यवारयन्
६.७५.२५आजघान ततस्तूर्णमभिमन्युर्महामनाः
एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः
वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः
६.७५.२६अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम्
ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः
६.७५.२७स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः
अभिमन्युर्महाराज तावकान्समकम्पयत्
यथा देवासुरे युद्धे वज्रपाणिर्महासुरान्
६.७५.२८विकर्णस्य ततो भल्लान्प्रेषयामास भारत
चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान्
ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे
६.७५.२९पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान्
प्रेषयामास सौभद्रो विकर्णाय महाबलः
६.७५.३०ते विकर्णं समासाद्य कङ्कबर्हिणवाससः
भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः
६.७५.३१ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले
विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम्
६.७५.३२विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः
अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान्
६.७५.३३अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः
अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः
६.७५.३४दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः
ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः
६.७५.३५अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः
जघान षड्भिरासाद्य सारथिं चाभ्यपातयत्
६.७५.३६स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः
शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव
६.७५.३७सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः
विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना
६.७५.३८तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः
पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम्
६.७५.३९श्रुतकीर्तिस्तथा वीरो जयत्सेनं सुतं तव
अभ्ययात्समरे राजन्हन्तुकामो यशस्विनम्
६.७५.४०तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः
चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव
क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत
६.७५.४१तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम्
अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः
६.७५.४२शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम्
विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः
६.७५.४३अथान्येन सुतीक्ष्णेन सर्वावरणभेदिना
शतानीको जयत्सेनं विव्याध हृदये भृशम्
६.७५.४४तथा तस्मिन्वर्तमाने दुष्कर्णो भ्रातुरन्तिके
चिच्छेद समरे चापं नाकुलेः क्रोधमूर्छितः
६.७५.४५अथान्यद्धनुरादाय भारसाधनमुत्तमम्
समादत्त शितान्बाणाञ्शतानीको महाबलः
६.७५.४६तिष्ठ तिष्ठेति चामन्त्र्य दुष्कर्णं भ्रातुरग्रतः
मुमोच निशितान्बाणाञ्ज्वलितान्पन्नगानिव
६.७५.४७ततोऽस्य धनुरेकेन द्वाभ्यां सूतं च मारिष
चिच्छेद समरे तूर्णं तं च विव्याध सप्तभिः
६.७५.४८अश्वान्मनोजवांश्चास्य कल्माषान्वीतकल्मषः
जघान निशितैस्तूर्णं सर्वान्द्वादशभिः शरैः
६.७५.४९अथापरेण भल्लेन सुमुक्तेन निपातिना
दुष्कर्णं समरे क्रुद्धो विव्याध हृदये भृशम्
६.७५.५०दुष्कर्णं निहतं दृष्ट्वा पञ्च राजन्महारथाः
जिघांसन्तः शतानीकं सर्वतः पर्यवारयन्
६.७५.५१छाद्यमानं शरव्रातैः शतानीकं यशस्विनम्
अभ्यधावन्त संरब्धाः केकयाः पञ्च सोदराः
६.७५.५२तानभ्यापततः प्रेक्ष्य तव पुत्रा महारथाः
प्रत्युद्ययुर्महाराज गजा इव महागजान्
६.७५.५३दुर्मुखो दुर्जयश्चैव तथा दुर्मर्षणो युवा
शत्रुंजयः शत्रुसहः सर्वे क्रुद्धा यशस्विनः
प्रत्युद्याता महाराज केकयान्भ्रातरः समम्
६.७५.५४रथैर्नगरसंकाशैर्हयैर्युक्तैर्मनोजवैः
नानावर्णविचित्राभिः पताकाभिरलंकृतैः
६.७५.५५वरचापधरा वीरा विचित्रकवचध्वजाः
विविशुस्ते परं सैन्यं सिंहा इव वनाद्वनम्
६.७५.५६तेषां सुतुमुलं युद्धं व्यतिषक्तरथद्विपम्
अवर्तत महारौद्रं निघ्नतामितरेतरम्
अन्योन्यागस्कृतां राजन्यमराष्ट्रविवर्धनम्
६.७५.५७मुहूर्तास्तमिते सूर्ये चक्रुर्युद्धं सुदारुणम्
रथिनः सादिनश्चैव व्यकीर्यन्त सहस्रशः
६.७५.५८ततः शांतनवः क्रुद्धः शरैः संनतपर्वभिः
नाशयामास सेनां वै भीष्मस्तेषां महात्मनाम्
पाञ्चालानां च सैन्यानि शरैर्निन्ये यमक्षयम्
६.७५.५९एवं भित्त्वा महेष्वासः पाण्डवानामनीकिनीम्
कृत्वावहारं सैन्यानां ययौ स्वशिबिरं नृप
६.७५.६०धर्मराजोऽपि संप्रेक्ष्य धृष्टद्युम्नवृकोदरौ
मूर्ध्नि चैतावुपाघ्राय संहृष्टः शिबिरं ययौ