६. भीष्मपर्व
६.८२.१संजय उवाच

६.८२.२विरथं तं समासाद्य चित्रसेनं मनस्विनम्
रथमारोपयामास विकर्णस्तनयस्तव

६.८२.३तस्मिंस्तथा वर्तमाने तुमुले संकुले भृशम्
भीष्मः शांतनवस्तूर्णं युधिष्ठिरमुपाद्रवत्

६.८२.४ततः सरथनागाश्वाः समकम्पन्त सृञ्जयाः
मृत्योरास्यमनुप्राप्तं मेनिरे च युधिष्ठिरम्

६.८२.५युधिष्ठिरोऽपि कौरव्यो यमाभ्यां सहितः प्रभुः
महेष्वासं नरव्याघ्रं भीष्मं शांतनवं ययौ

६.८२.६ततः शरसहस्राणि प्रमुञ्चन्पाण्डवो युधि
भीष्मं संछादयामास यथा मेघो दिवाकरम्

६.८२.७तेन सम्यक्प्रणीतानि शरजालानि भारत
प्रतिजग्राह गाङ्गेयः शतशोऽथ सहस्रशः

६.८२.८तथैव शरजालानि भीष्मेणास्तानि मारिष
आकाशे समदृश्यन्त खगमानां व्रजा इव

६.८२.९निमेषार्धाच्च कौन्तेयं भीष्मः शांतनवो युधि
अदृश्यं समरे चक्रे शरजालेन भागशः

६.८२.१०ततो युधिष्ठिरो राजा कौरव्यस्य महात्मनः
नाराचं प्रेषयामास क्रुद्ध आशीविषोपमम्

६.८२.११असंप्राप्तं ततस्तं तु क्षुरप्रेण महारथः
चिच्छेद समरे राजन्भीष्मस्तस्य धनुश्च्युतम्

६.८२.१२तं तु छित्त्वा रणे भीष्मो नाराचं कालसंमितम्
निजघ्ने कौरवेन्द्रस्य हयान्काञ्चनभूषणान्

६.८२.१३हताश्वं तु रथं त्यक्त्वा धर्मपुत्रो युधिष्ठिरः
आरुरोह रथं तूर्णं नकुलस्य महात्मनः

६.८२.१४यमावपि सुसंक्रुद्धः समासाद्य रणे तदा
शरैः संछादयामास भीष्मः परपुरंजयः

६.८२.१५तौ तु दृष्ट्वा महाराज भीष्मबाणप्रपीडितौ
जगामाथ परां चिन्तां भीष्मस्य वधकाङ्क्षया

६.८२.१६ततो युधिष्ठिरो वश्यान्राज्ञस्तान्समचोदयत्
भीष्मं शांतनवं सर्वे निहतेति सुहृद्गणान्

६.८२.१७ततस्ते पार्थिवाः सर्वे श्रुत्वा पार्थस्य भाषितम्
महता रथवंशेन परिवव्रुः पितामहम्

६.८२.१८स समन्तात्परिवृतः पिता देवव्रतस्तव
चिक्रीड धनुषा राजन्पातयानो महारथान्

६.८२.१९तं चरन्तं रणे पार्था ददृशुः कौरवं युधि
मृगमध्यं प्रविश्येव यथा सिंहशिशुं वने

६.८२.२०तर्जयानं रणे शूरांस्त्रासयानं च सायकैः
दृष्ट्वा त्रेसुर्महाराज सिंहं मृगगणा इव

६.८२.२१रणे भरतसिंहस्य ददृशुः क्षत्रिया गतिम्
अग्नेर्वायुसहायस्य यथा कक्षं दिधक्षतः

६.८२.२२शिरांसि रथिनां भीष्मः पातयामास संयुगे
तालेभ्य इव पक्वानि फलानि कुशलो नरः

६.८२.२३पतद्भिश्च महाराज शिरोभिर्धरणीतले
बभूव तुमुलः शब्दः पततामश्मनामिव

६.८२.२४तस्मिंस्तु तुमुले युद्धे वर्तमाने सुदारुणे
सर्वेषामेव सैन्यानामासीद्व्यतिकरो महान्

६.८२.२५भिन्नेषु तेषु व्यूहेषु क्षत्रिया इतरेतरम्
एकमेकं समाहूय युद्धायैवोपतस्थिरे

६.८२.२६शिखण्डी तु समासाद्य भरतानां पितामहम्
अभिदुद्राव वेगेन तिष्ठ तिष्ठेति चाब्रवीत्

६.८२.२७अनादृत्य ततो भीष्मस्तं शिखण्डिनमाहवे
प्रययौ सृञ्जयान्क्रुद्धः स्त्रीत्वं चिन्त्य शिखण्डिनः

६.८२.२८सृञ्जयास्तु ततो हृष्टा दृष्ट्वा भीष्मं महारथम्
सिंहनादान्बहुविधांश्चक्रुः शङ्खविमिश्रितान्

६.८२.२९ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम्
अपरां दिशमास्थाय स्थिते सवितरि प्रभो

६.८२.३०धृष्टद्युम्नोऽथ पाञ्चाल्यः सात्यकिश्च महारथः
पीडयन्तौ भृशं सैन्यं शक्तितोमरवृष्टिभिः
शस्त्रैश्च बहुभी राजञ्जघ्नतुस्तावकान्रणे

६.८२.३१ते हन्यमानाः समरे तावकाः पुरुषर्षभ
आर्यां युद्धे मतिं कृत्वा न त्यजन्ति स्म संयुगम्
यथोत्साहं च समरे जघ्नुर्लोकं महारथाः

६.८२.३२तत्राक्रन्दो महानासीत्तावकानां महात्मनाम्
वध्यतां समरे राजन्पार्षतेन महात्मना

६.८२.३३तं श्रुत्वा निनदं घोरं तावकानां महारथौ
विन्दानुविन्दावावन्त्यौ पार्षतं प्रत्युपस्थितौ

६.८२.३४तौ तस्य तुरगान्हत्वा त्वरमाणौ महारथौ
छादयामासतुरुभौ शरवर्षेण पार्षतम्

६.८२.३५अवप्लुत्याथ पाञ्चाल्यो रथात्तूर्णं महाबलः
आरुरोह रथं तूर्णं सात्यकेः सुमहात्मनः

६.८२.३६ततो युधिष्ठिरो राजा महत्या सेनया वृतः
आवन्त्यौ समरे क्रुद्धावभ्ययात्स परंतपौ

६.८२.३७तथैव तव पुत्रोऽपि सर्वोद्योगेन मारिष
विन्दानुविन्दावावन्त्यौ परिवार्योपतस्थिवान्

६.८२.३८अर्जुनश्चापि संक्रुद्धः क्षत्रियान्क्षत्रियर्षभ
अयोधयत संग्रामे वज्रपाणिरिवासुरान्

६.८२.३९द्रोणश्च समरे क्रुद्धः पुत्रस्य प्रियकृत्तव
व्यधमत्सर्वपाञ्चालांस्तूलराशिमिवानलः

६.८२.४०दुर्योधनपुरोगास्तु पुत्रास्तव विशां पते
परिवार्य रणे भीष्मं युयुधुः पाण्डवैः सह

६.८२.४१ततो दुर्योधनो राजा लोहितायति भास्करे
अब्रवीत्तावकान्सर्वांस्त्वरध्वमिति भारत

६.८२.४२युध्यतां तु तथा तेषां कुर्वतां कर्म दुष्करम्
अस्तं गिरिमथारूढे नप्रकाशति भास्करे

६.८२.४३प्रावर्तत नदी घोरा शोणितौघतरङ्गिणी
गोमायुगणसंकीर्णा क्षणेन रजनीमुखे

६.८२.४४शिवाभिरशिवाभिश्च रुवद्भिर्भैरवं रवम्
घोरमायोधनं जज्ञे भूतसंघसमाकुलम्

६.८२.४५राक्षसाश्च पिशाचाश्च तथान्ये पिशिताशनाः
समन्ततो व्यदृश्यन्त शतशोऽथ सहस्रशः

६.८२.४६अर्जुनोऽथ सुशर्मादीन्राज्ञस्तान्सपदानुगान्
विजित्य पृतनामध्ये ययौ स्वशिबिरं प्रति

६.८२.४७युधिष्ठिरोऽपि कौरव्यो भ्रातृभ्यां सहितस्तदा
ययौ स्वशिबिरं राजा निशायां सेनया वृतः

६.८२.४८भीमसेनोऽपि राजेन्द्र दुर्योधनमुखान्रथान्
अवजित्य ततः संख्ये ययौ स्वशिबिरं प्रति

६.८२.४९दुर्योधनोऽपि नृपतिः परिवार्य महारणे
भीष्मं शांतनवं तूर्णं प्रयातः शिबिरं प्रति

६.८२.५०द्रोणो द्रौणिः कृपः शल्यः कृतवर्मा च सात्वतः
परिवार्य चमूं सर्वां प्रययुः शिबिरं प्रति

६.८२.५१तथैव सात्यकी राजन्धृष्टद्युम्नश्च पार्षतः
परिवार्य रणे योधान्ययतुः शिबिरं प्रति

६.८२.५२एवमेते महाराज तावकाः पाण्डवैः सह
पर्यवर्तन्त सहिता निशाकाले परंतपाः

६.८२.५३ततः स्वशिबिरं गत्वा पाण्डवाः कुरवस्तथा
न्यविशन्त महाराज पूजयन्तः परस्परम्

६.८२.५४रक्षां कृत्वात्मनः शूरा न्यस्य गुल्मान्यथाविधि
अपनीय च शल्यांस्ते स्नात्वा च विविधैर्जलैः

६.८२.५५कृतस्वस्त्ययनाः सर्वे संस्तूयन्तश्च बन्दिभिः
गीतवादित्रशब्देन व्यक्रीडन्त यशस्विनः

६.८२.५६मुहूर्तमिव तत्सर्वमभवत्स्वर्गसंनिभम्
न हि युद्धकथां कांचित्तत्र चक्रुर्महारथाः

६.८२.५७ते प्रसुप्ते बले तत्र परिश्रान्तजने नृप
हस्त्यश्वबहुले राजन्प्रेक्षणीये बभूवतुः