६.८३.१संजय उवाच
६.८३.२परिणाम्य निशां तां तु सुखसुप्ता जनेश्वराः
कुरवः पाण्डवाश्चैव पुनर्युद्धाय निर्ययुः
६.८३.३ततः शब्दो महानासीत्सेनयोरुभयोरपि
निर्गच्छमानयोः संख्ये सागरप्रतिमो महान्
६.८३.४ततो दुर्योधनो राजा चित्रसेनो विविंशतिः
भीष्मश्च रथिनां श्रेष्ठो भारद्वाजश्च वै द्विजः
६.८३.५एकीभूताः सुसंयत्ताः कौरवाणां महाचमूः
व्यूहाय विदधू राजन्पाण्डवान्प्रति दंशिताः
६.८३.६भीष्मः कृत्वा महाव्यूहं पिता तव विशां पते
सागरप्रतिमं घोरं वाहनोर्मितरङ्गिणम्
६.८३.७अग्रतः सर्वसैन्यानां भीष्मः शांतनवो ययौ
मालवैर्दाक्षिणात्यैश्च आवन्त्यैश्च समन्वितः
६.८३.८ततोऽनन्तरमेवासीद्भारद्वाजः प्रतापवान्
पुलिन्दैः पारदैश्चैव तथा क्षुद्रकमालवैः
६.८३.९द्रोणादनन्तरं यत्तो भगदत्तः प्रतापवान्
मागधैश्च कलिङ्गैश्च पिशाचैश्च विशां पते
६.८३.१०प्राग्ज्योतिषादनु नृपः कौसल्योऽथ बृहद्बलः
मेकलैस्त्रैपुरैश्चैव चिच्छिलैश्च समन्वितः
६.८३.११बृहद्बलात्ततः शूरस्त्रिगर्तः प्रस्थलाधिपः
काम्बोजैर्बहुभिः सार्धं यवनैश्च सहस्रशः
६.८३.१२द्रौणिस्तु रभसः शूरस्त्रिगर्तादनु भारत
प्रययौ सिंहनादेन नादयानो धरातलम्
६.८३.१३तथा सर्वेण सैन्येन राजा दुर्योधनस्तदा
द्रौणेरनन्तरं प्रायात्सोदर्यैः परिवारितः
६.८३.१४दुर्योधनादनु कृपस्ततः शारद्वतो ययौ
एवमेष महाव्यूहः प्रययौ सागरोपमः
६.८३.१५रेजुस्तत्र पताकाश्च श्वेतच्छत्राणि चाभिभो
अङ्गदान्यथ चित्राणि महार्हाणि धनूंषि च
६.८३.१६तं तु दृष्ट्वा महाव्यूहं तावकानां महारथः
युधिष्ठिरोऽब्रवीत्तूर्णं पार्षतं पृतनापतिम्
६.८३.१७पश्य व्यूहं महेष्वास निर्मितं सागरोपमम्
प्रतिव्यूहं त्वमपि हि कुरु पार्षत माचिरम्
६.८३.१८ततः स पार्षतः शूरो व्यूहं चक्रे सुदारुणम्
शृङ्गाटकं महाराज परव्यूहविनाशनम्
६.८३.१९शृङ्गेभ्यो भीमसेनश्च सात्यकिश्च महारथः
रथैरनेकसाहस्रैस्तथा हयपदातिभिः
६.८३.२०नाभ्यामभून्नरश्रेष्ठः श्वेताश्वो वानरध्वजः
मध्ये युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ
६.८३.२१अथेतरे महेष्वासाः सहसैन्या नराधिपाः
व्यूहं तं पूरयामासुर्व्यूहशास्त्रविशारदाः
६.८३.२२अभिमन्युस्ततः पश्चाद्विराटश्च महारथः
द्रौपदेयाश्च संहृष्टा राक्षसश्च घटोत्कचः
६.८३.२३एवमेतं महाव्यूहं व्यूह्य भारत पाण्डवाः
अतिष्ठन्समरे शूरा योद्धुकामा जयैषिणः
६.८३.२४भेरीशब्दाश्च तुमुला विमिश्राः शङ्खनिस्वनैः
क्ष्वेडितास्फोटितोत्क्रुष्टैः सुभीमाः सर्वतोदिशम्
६.८३.२५ततः शूराः समासाद्य समरे ते परस्परम्
नेत्रैरनिमिषै राजन्नवैक्षन्त प्रकोपिताः
६.८३.२६मनोभिस्ते मनुष्येन्द्र पूर्वं योधाः परस्परम्
युद्धाय समवर्तन्त समाहूयेतरेतरम्
६.८३.२७ततः प्रववृते युद्धं घोररूपं भयावहम्
तावकानां परेषां च निघ्नतामितरेतरम्
६.८३.२८नाराचा निशिताः संख्ये संपतन्ति स्म भारत
व्यात्तानना भयकरा उरगा इव संघशः
६.८३.२९निष्पेतुर्विमलाः शक्त्यस्तैलधौताः सुतेजनाः
अम्बुदेभ्यो यथा राजन्भ्राजमानाः शतह्रदाः
६.८३.३०गदाश्च विमलैः पट्टैः पिनद्धाः स्वर्णभूषिताः
पतन्त्यस्तत्र दृश्यन्ते गिरिशृङ्गोपमाः शुभाः
निस्त्रिंशाश्च व्यराजन्त विमलाम्बरसंनिभाः
६.८३.३१आर्षभाणि च चर्माणि शतचन्द्राणि भारत
अशोभन्त रणे राजन्पतमानानि सर्वशः
६.८३.३२तेऽन्योन्यं समरे सेने युध्यमाने नराधिप
अशोभेतां यथा दैत्यदेवसेने समुद्यते
अभ्यद्रवन्त समरे तेऽन्योन्यं वै समन्ततः
६.८३.३३रथास्तु रथिभिस्तूर्णं प्रेषिताः परमाहवे
युगैर्युगानि संश्लिष्य युयुधुः पार्थिवर्षभाः
६.८३.३४दन्तिनां युध्यमानानां संघर्षात्पावकोऽभवत्
दन्तेषु भरतश्रेष्ठ सधूमः सर्वतोदिशम्
६.८३.३५प्रासैरभिहताः केचिद्गजयोधाः समन्ततः
पतमानाः स्म दृश्यन्ते गिरिशृङ्गान्नगा इव
६.८३.३६पादाताश्चाप्यदृश्यन्त निघ्नन्तो हि परस्परम्
चित्ररूपधराः शूरा नखरप्रासयोधिनः
६.८३.३७अन्योन्यं ते समासाद्य कुरुपाण्डवसैनिकाः
शस्त्रैर्नानाविधैर्घोरै रणे निन्युर्यमक्षयम्
६.८३.३८ततः शांतनवो भीष्मो रथघोषेण नादयन्
अभ्यागमद्रणे पाण्डून्धनुःशब्देन मोहयन्
६.८३.३९पाण्डवानां रथाश्चापि नदन्तो भैरवस्वनम्
अभ्यद्रवन्त संयत्ता धृष्टद्युम्नपुरोगमाः
६.८३.४०ततः प्रववृते युद्धं तव तेषां च भारत
नराश्वरथनागानां व्यतिषक्तं परस्परम्