६. भीष्मपर्व
६.९०.१संजय उवाच

६.९०.२स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्
अभ्यधावत संक्रुद्धो भीमसेनमरिंदमम्

६.९०.३प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम्
महता शरवर्षेण पाण्डवं समवाकिरत्

६.९०.४अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवाहिनम्
भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः

६.९०.५तदन्तरं च संप्रेक्ष्य त्वरमाणो महारथः
संदधे निशितं बाणं गिरीणामपि दारणम्
तेनोरसि महाबाहुर्भीमसेनमताडयत्

६.९०.६स गाढविद्धो व्यथितः सृक्किणी परिसंलिहन्
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्

६.९०.७तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः

६.९०.८अभिमन्युमुखाश्चैव पाण्डवानां महारथाः
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः

६.९०.९संप्रेक्ष्य तानापततः संक्रुद्धाञ्जातसंभ्रमान्
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान्

६.९०.१०क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत
संशयं परमं प्राप्तं मज्जन्तं व्यसनार्णवे

६.९०.११एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः
भीमसेनं पुरस्कृत्य दुर्योधनमुपद्रुताः

६.९०.१२नानाविधानि शस्त्राणि विसृजन्तो जये रताः
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिमाम्

६.९०.१३तदाचार्यवचः श्रुत्वा सोमदत्तपुरोगमाः
तावकाः समवर्तन्त पाण्डवानामनीकिनीम्

६.९०.१४कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः
आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्

६.९०.१५ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे
पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवः

६.९०.१६एवमुक्त्वा महाबाहुर्महद्विस्फार्य कार्मुकम्
भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत्

६.९०.१७भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत्
पर्वतं वारिधाराभिः शरदीव बलाहकः

६.९०.१८तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः
त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः

६.९०.१९स गाढविद्धो व्यथितो वयोवृद्धश्च भारत
प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्

६.९०.२०गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम्
द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ

६.९०.२१तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ
भीमसेनो महाबाहुर्गदामादाय सत्वरः

६.९०.२२अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः
समुद्यम्य गदां गुर्वीं यमदण्डोपमां रणे

६.९०.२३तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्
कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्

६.९०.२४तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ
अभ्यधावत वेगेन त्वरमाणो वृकोदरः

६.९०.२५तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम्
समभ्यधावंस्त्वरिताः कौरवाणां महारथाः

६.९०.२६भारद्वाजमुखाः सर्वे भीमसेनजिघांसया
नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः

६.९०.२७तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्
अभिमन्युप्रभृतयः पाण्डवानां महारथाः
अभ्यधावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्

६.९०.२८अनूपाधिपतिः शूरो भीमस्य दयितः सखा
नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्ययात्
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन यः

६.९०.२९स विस्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा
यथा शक्रो महाराज पुरा विव्याध दानवम्

६.९०.३०विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्
येन लोकत्रयं क्रोधात्त्रासितं स्वेन तेजसा

६.९०.३१तथा नीलेन निर्भिन्नः सुमुखेन पतत्रिणा
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः

६.९०.३२स विस्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम्
दध्रे नीलविनाशाय मतिं मतिमतां वरः

६.९०.३३ततः संधाय विमलान्भल्लान्कर्मारपायितान्
जघान चतुरो वाहान्पातयामास च ध्वजम्

६.९०.३४सप्तमेन च भल्लेन नीलं विव्याध वक्षसि
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्

६.९०.३५मोहितं वीक्ष्य राजानं नीलमभ्रचयोपमम्
घटोत्कचोऽपि संक्रुद्धो भ्रातृभिः परिवारितः

६.९०.३६अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम्
तथेतरे अभ्यधावन्राक्षसा युद्धदुर्मदाः

६.९०.३७तमापतन्तं संप्रेक्ष्य राक्षसं घोरदर्शनम्
अभ्यधावत तेजस्वी भारद्वाजात्मजस्त्वरन्

६.९०.३८निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान्
येऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः

६.९०.३९विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः
अक्रुध्यत महाकायो भैमसेनिर्घटोत्कचः

६.९०.४०प्रादुश्चक्रे महामायां घोररूपां सुदारुणाम्
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः

६.९०.४१ततस्ते तावकाः सर्वे मायया विमुखीकृताः
अन्योन्यं समपश्यन्त निकृत्तान्मेदिनीतले
विचेष्टमानान्कृपणाञ्शोणितेन समुक्षितान्

६.९०.४२द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च
प्रायशश्च महेष्वासा ये प्रधानाश्च कौरवाः

६.९०.४३विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः
हयाश्च सहयारोहा विनिकृत्ताः सहस्रशः

६.९०.४४तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति
मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च

६.९०.४५युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे
घटोत्कचप्रयुक्तेति नातिष्ठन्त विमोहिताः
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः

६.९०.४६तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे
शङ्खदुन्दुभिघोषाश्च समन्तात्सस्वनुर्भृशम्

६.९०.४७एवं तव बलं सर्वं हैडिम्बेन दुरात्मना
सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः