७. द्रोणपर्व
७.१०.१धृतराष्ट्र उवाच

७.१०.२शृणु दिव्यानि कर्माणि वासुदेवस्य संजय
कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित्

७.१०.३संवर्धता गोपकुले बालेनैव महात्मना
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु संजय

७.१०.४उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे
जघान हयराजं यो यमुनावनवासिनम्

७.१०.५दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम्
वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह

७.१०.६प्रलम्बं नरकं जम्भं पीठं चापि महासुरम्
मुरुं चाचलसंकाशमवधीत्पुष्करेक्षणः

७.१०.७तथा कंसो महातेजा जरासंधेन पालितः
विक्रमेणैव कृष्णेन सगणः शातितो रणे

७.१०.८सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान्

७.१०.९बलदेवद्वितीयेन कृष्णेनामित्रघातिना
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट्

७.१०.१०दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः
आराधितः सदारेण स चास्मै प्रददौ वरान्

७.१०.११तथा गान्धारराजस्य सुतां वीरः स्वयंवरे
निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः

७.१०.१२अमृष्यमाणा राजानो यस्य जात्या हया इव
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः

७.१०.१३जरासंधं महाबाहुमुपायेन जनार्दनः
परेण घातयामास पृथगक्षौहिणीपतिम्

७.१०.१४चेदिराजं च विक्रान्तं राजसेनापतिं बली
अर्घे विवदमानं च जघान पशुवत्तदा

७.१०.१५सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम्
समुद्रकुक्षौ विक्रम्य पातयामास माधवः

७.१०.१६अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान्
वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे

७.१०.१७आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान्
काश्मीरकानौरसकान्पिशाचांश्च समन्दरान्

७.१०.१८काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च संजय
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान्

७.१०.१९नानादिग्भ्यश्च संप्राप्तान्व्रातानश्वशकान्प्रति
जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान्

७.१०.२०प्रविश्य मकरावासं यादोभिरभिसंवृतम्
जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा

७.१०.२१युधि पञ्चजनं हत्वा पातालतलवासिनम्
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान्

७.१०.२२खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम्
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः

७.१०.२३वैनतेयं समारुह्य त्रासयित्वामरावतीम्
महेन्द्रभवनाद्वीरः पारिजातमुपानयत्

७.१०.२४तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम्
राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम

७.१०.२५यच्च तन्महदाश्चर्यं सभायां मम संजय
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति

७.१०.२६यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम्
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत्

७.१०.२७नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः
कर्मणः शक्यते गन्तुं हृषीकेशस्य संजय

७.१०.२८तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः
आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः

७.१०.२९उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान्
पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः

७.१०.३०एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः
कथंचित्पाण्डवानीकं श्रयेयुः समरे स्थिताः

७.१०.३१आहूता वृष्णिवीरेण केशवेन महात्मना
ततः संशयितं सर्वं भवेदिति मतिर्मम

७.१०.३२नागायुतबलो वीरः कैलासशिखरोपमः
वनमाली हली रामस्तत्र यत्र जनार्दनः

७.१०.३३यमाहुः सर्वपितरं वासुदेवं द्विजातयः
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय संजय

७.१०.३४स यदा तात संनह्येत्पाण्डवार्थाय केशवः
न तदा प्रत्यनीकेषु भविता तस्य कश्चन

७.१०.३५यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान्
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम्

७.१०.३६ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे
कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम्

७.१०.३७यस्य यन्ता हृषीकेशो योद्धा यस्य धनंजयः
रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः

७.१०.३८न केनचिदुपायेन कुरूणां दृश्यते जयः
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत

७.१०.३९अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती

७.१०.४०प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः
मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम्

७.१०.४१मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम्

७.१०.४२पूर्वदेवौ महात्मानौ नरनारायणावुभौ
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि

७.१०.४३मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ
नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः

७.१०.४४युगस्येव विपर्यासो लोकानामिव मोहनम्
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः

७.१०.४५न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च
न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते

७.१०.४६लोकसंभावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ
भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि संजय

७.१०.४७यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे
अद्य तामनुजानीमो भीष्मद्रोणवधेन च

७.१०.४८तथा च मत्कृते प्राप्तः कुरूणामेष संक्षयः
पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि

७.१०.४९अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः
यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ

७.१०.५०प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति
क्रूरः सर्वविनाशाय कालः समतिवर्तते

७.१०.५१अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः
अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम

७.१०.५२तस्मादपरिहार्येऽर्थे संप्राप्ते कृच्छ्र उत्तमे
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे