७. द्रोणपर्व
७.९.१वैशंपायन उवाच

७.९.२एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम्
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ

७.९.३तं विसंज्ञं निपतितं सिषिचुः परिचारकाः
जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना

७.९.४पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः

७.९.५उत्थाप्य चैनं शनकै राजानं पृथिवीतलात्
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः

७.९.६आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः

७.९.७स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्

७.९.८यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः
आयादजातशत्रुर्वै कस्तं द्रोणादवारयत्

७.९.९प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम्
आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम्
वाशितासंगमे यद्वदजय्यं प्रतियूथपैः

७.९.१०अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः
यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसंगरः

७.९.११चक्षुर्हणं जये सक्तमिष्वासवररक्षितम्
दान्तं बहुमतं लोके के शूराः पर्यवारयन्

७.९.१२के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम्
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः

७.९.१३तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत्
तं भीमसेनमायान्तं के शूराः पर्यवारयन्

७.९.१४यदायाज्जलदप्रख्यो रथः परमवीर्यवान्
पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन्

७.९.१५ववर्ष शरवर्षाणि वर्षाणि मघवानिव
इषुसंबाधमाकाशं कुर्वन्कपिवरध्वजः
अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च

७.९.१६चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः
रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः

७.९.१७रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः
मर्मातिगो बाणधारस्तुमुलः शोणितोदकः

७.९.१८संप्लावयन्महीं सर्वां मानवैरास्तरंस्तदा
गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः

७.९.१९युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः
गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा

७.९.२०कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम्
यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात्

७.९.२१कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनंजयः
वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः
को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति

७.९.२२यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम्
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात्

७.९.२३के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्
अमानुषाणां जेतारं युद्धेष्वपि धनंजयम्

७.९.२४न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम्

७.९.२५विष्वक्सेनो यस्य यन्ता योद्धा चैव धनंजयः
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि

७.९.२६सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः
मेधावी निपुणो धीमान्युधि सत्यपराक्रमः

७.९.२७आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान्
यदायान्नकुलो धीमान्के शूराः पर्यवारयन्

७.९.२८आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात्
शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि

७.९.२९आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम्
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन्

७.९.३०यः स सौवीरराजस्य प्रमथ्य महतीं चमूम्
आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम्

७.९.३१सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम्
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे

७.९.३२बलिनं सत्यकर्माणमदीनमपराजितम्
वासुदेवसमं युद्धे वासुदेवादनन्तरम्

७.९.३३युक्तं धनंजयप्रेष्ये शूरमाचार्यकर्मणि
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत्

७.९.३४वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम्
रामेण सममस्त्रेषु यशसा विक्रमेण च

७.९.३५सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम्
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे

७.९.३६तमेवंगुणसंपन्नं दुर्वारमपि दैवतैः
समासाद्य महेष्वासं के वीराः पर्यवारयन्

७.९.३७पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम्
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे

७.९.३८युक्तं धनंजयहिते ममानर्थाय चोत्तमम्
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम्

७.९.३९महारथसमाख्यातं द्रोणायोद्यन्तमाहवे
त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन्

७.९.४०एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः
धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत्

७.९.४१योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम्
अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत्

७.९.४२स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान्
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि

७.९.४३देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन्

७.९.४४यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनंजयात्
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा

७.९.४५वासुदेवसमं वीर्ये धनंजयसमं बले
तेजसादित्यसदृशं बृहस्पतिसमं मतौ

७.९.४६अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम्
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन्

७.९.४७तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा
यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम्

७.९.४८द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः
यद्द्रोणमाद्रवन्संख्ये के वीरास्तानवारयन्

७.९.४९ये ते द्वादशवर्षाणि क्रीडामुत्सृज्य बालकाः
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम्

७.९.५०क्षत्रंजयः क्षत्रदेवः क्षत्रधर्मा च मानिनः
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन्

७.९.५१शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः
चेकितानं महेष्वासं कस्तं द्रोणादवारयत्

७.९.५२वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्

७.९.५३भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः
इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः

७.९.५४मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्

७.९.५५यं योधयन्तो राजानो नाजयन्वारणावते
षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम्

७.९.५६धनुष्मतां वरं शूरं सत्यसंधं महाबलम्
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत्

७.९.५७यः पुत्रं काशिराजस्य वाराणस्यां महारथम्
समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात्

७.९.५८धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च

७.९.५९निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः
द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन्

७.९.६०उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम्
शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन्

७.९.६१य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्
महता रथवंशेन मुख्यारिघ्नो महारथः

७.९.६२दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान्
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः

७.९.६३पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन्
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे

७.९.६४न पूर्वे नापरे चक्रुरिदं केचन मानवाः
इति संचुक्रुशुर्देवाः कृते कर्मणि दुष्करे

७.९.६५पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु
जातं वापि जनिष्यं वा द्वितीयं वापि संप्रति

७.९.६६अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः

७.९.६७तस्य नप्तारमायान्तं शैब्यं कः समवारयत्
द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम्

७.९.६८विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्

७.९.६९सद्यो वृकोदराज्जातो महाबलपराक्रमः
मायावी राक्षसो घोरो यस्मान्मम महद्भयम्

७.९.७०पार्थानां जयकामं तं पुत्राणां मम कण्टकम्
घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत्

७.९.७१एते चान्ये च बहवो येषामर्थाय संजय
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि

७.९.७२येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः
हितार्थी चापि पार्थानां कथं तेषां पराजयः

७.९.७३लोकानां गुरुरत्यन्तं लोकनाथः सनातनः
नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः

७.९.७४यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः