७. द्रोणपर्व
७.१०४.१धृतराष्ट्र उवाच

७.१०४.२तथा तु नर्दमानं तं भीमसेनं महाबलम्
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन्

७.१०४.३न हि पश्याम्यहं तं वै त्रिषु लोकेषु संजय
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे

७.१०४.४गदामुद्यच्छमानस्य कालस्येव महामृधे
न हि पश्याम्यहं तात यस्तिष्ठेत रणाजिरे

७.१०४.५रथं रथेन यो हन्यात्कुञ्जरं कुञ्जरेण च
कस्तस्य समरे स्थाता साक्षादपि शतक्रतुः

७.१०४.६क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः

७.१०४.७भीमसेनदवाग्नेस्तु मम पुत्रतृणोलपम्
प्रधक्ष्यतो रणमुखे के वीराः प्रमुखे स्थिताः

७.१०४.८काल्यमानान्हि मे पुत्रान्भीमेनावेक्ष्य संयुगे
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन्

७.१०४.९भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व संजय

७.१०४.१०संजय उवाच

७.१०४.११तथा तु नर्दमानं तं भीमसेनं महारथम्
तुमुलेनैव शब्देन कर्णोऽप्यभ्यपतद्बली

७.१०४.१२व्याक्षिपन्बलवच्चापमतिमात्रममर्षणः
कर्णस्तु युद्धमाकाङ्क्षन्दर्शयिष्यन्बलं बली

७.१०४.१३प्रावेपन्निव गात्राणि कर्णभीमसमागमे
रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम्

७.१०४.१४भीमसेनस्य निनदं घोरं श्रुत्वा रणाजिरे
खं च भूमिं च संबद्धां मेनिरे क्षत्रियर्षभाः

७.१०४.१५पुनर्घोरेण नादेन पाण्डवस्य महात्मनः
समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ

७.१०४.१६वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः
वाहनानि महाराज बभूवुर्विमनांसि च

७.१०४.१७प्रादुरासन्निमित्तानि घोराणि च बहूनि च
तस्मिंस्तु तुमुले राजन्भीमकर्णसमागमे

७.१०४.१८ततः कर्णस्तु विंशत्या शराणां भीममार्दयत्
विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः

७.१०४.१९प्रहस्य भीमसेनस्तु कर्णं प्रत्यर्पयद्रणे
सायकानां चतुःषष्ट्या क्षिप्रकारी महाबलः

७.१०४.२०तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत्
असंप्राप्तांस्तु तान्भीमः सायकैर्नतपर्वभिः
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम्

७.१०४.२१तं कर्णश्छादयामास शरव्रातैरनेकशः
संछाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः

७.१०४.२२चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः

७.१०४.२३अथान्यद्धनुरादाय सज्यं कृत्वा च सूतजः
विव्याध समरे भीमं भीमकर्मा महारथः

७.१०४.२४तस्य भीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः
निचखानोरसि तदा सूतपुत्रस्य वेगितः

७.१०४.२५तैः कर्णोऽभ्राजत शरैरुरोमध्यगतैस्तदा
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ

७.१०४.२६सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकराजयः

७.१०४.२७किंचिद्विचलितः कर्णः सुप्रहाराभिपीडितः
ससायकं धनुः कृत्वा भीमं विव्याध मारिष
चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः

७.१०४.२८स छाद्यमानः सहसा कर्णेन दृढधन्विना
धनुर्ज्यामच्छिनत्तूर्णमुत्स्मयन्पाण्डुनन्दनः

७.१०४.२९सारथिं चास्य भल्लेन प्राहिणोद्यमसादनम्
वाहांश्च चतुरः संख्ये व्यसूंश्चक्रे महारथः

७.१०४.३०हताश्वात्तु रथात्कर्णः समाप्लुत्य विशां पते
स्यन्दनं वृषसेनस्य समारोहन्महारथः

७.१०४.३१निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान्
ननाद सुमहानादं पर्जन्यनिनदोपमम्

७.१०४.३२तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः
कर्णं च निर्जितं मत्वा भीमसेनेन भारत

७.१०४.३३समन्ताच्छङ्खनिनदं पाण्डुसेनाकरोत्तदा
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यपि नानदन्
गाण्डीवं प्राक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत्

७.१०४.३४तमन्तर्धाय निनदं ध्वनिर्भीमस्य नर्दतः
अश्रूयत महाराज सर्वसैन्येषु भारत

७.१०४.३५ततो व्यायच्छतामस्त्रैः पृथक्पृथगरिंदमौ
मृदुपूर्वं च राधेयो दृढपूर्वं च पाण्डवः