७. द्रोणपर्व
७.१०६.१धृतराष्ट्र उवाच

७.१०६.२यौ तौ कर्णश्च भीमश्च संप्रयुद्धौ महाबलौ
अर्जुनस्य रथोपान्ते कीदृशः सोऽभवद्रणः

७.१०६.३पूर्वं हि निर्जितः कर्णो भीमसेनेन संयुगे
कथं भूयस्तु राधेयो भीममागान्महारथः

७.१०६.४भीमो वा सूततनयं प्रत्युद्यातः कथं रणे
महारथसमाख्यातं पृथिव्यां प्रवरं रथम्

७.१०६.५भीष्मद्रोणावतिक्रम्य धर्मपुत्रो युधिष्ठिरः
नान्यतो भयमादत्त विना कर्णं धनुर्धरम्

७.१०६.६भयान्न शेते सततं चिन्तयन्वै महारथम्
तं कथं सूतपुत्रं हि भीमोऽयुध्यत संयुगे

७.१०६.७ब्रह्मण्यं वीर्यसंपन्नं समरेष्वनिवर्तिनम्
कथं कर्णं युधां श्रेष्ठं भीमोऽयुध्यत संयुगे

७.१०६.८यौ तौ समीयतुर्वीरावर्जुनस्य रथं प्रति
कथं नु तावयुध्येतां सूतपुत्रवृकोदरौ

७.१०६.९भ्रातृत्वं दर्शितं पूर्वं घृणी चापि स सूतजः
कथं भीमेन युयुधे कुन्त्या वाक्यमनुस्मरन्

७.१०६.१०भीमो वा सूतपुत्रेण स्मरन्वैरं पुरा कृतम्
सोऽयुध्यत कथं वीरः कर्णेन सह संयुगे

७.१०६.११आशास्ते च सदा सूत पुत्रो दुर्योधनो मम
कर्णो जेष्यति संग्रामे सहितान्पाण्डवानिति

७.१०६.१२जयाशा यत्र मन्दस्य पुत्रस्य मम संयुगे
स कथं भीमकर्माणं भीमसेनमयुध्यत

७.१०६.१३यं समाश्रित्य पुत्रैर्मे कृतं वैरं महारथैः
तं सूततनयं तात कथं भीमो ह्ययोधयत्

७.१०६.१४अनेकान्विप्रकारांश्च सूतपुत्रसमुद्भवान्
स्मरमाणः कथं भीमो युयुधे सूतसूनुना

७.१०६.१५योऽजयत्पृथिवीं सर्वां रथेनैकेन वीर्यवान्
तं सूततनयं युद्धे कथं भीमो ह्ययोधयत्

७.१०६.१६यो जातः कुण्डलाभ्यां च कवचेन सहैव च
तं सूतपुत्रं समरे भीमः कथमयोधयत्

७.१०६.१७यथा तयोर्युद्धमभूद्यश्चासीद्विजयी तयोः
तन्ममाचक्ष्व तत्त्वेन कुशलो ह्यसि संजय

७.१०६.१८संजय उवाच

७.१०६.१९भीमसेनस्तु राधेयमुत्सृज्य रथिनां वरम्
इयेष गन्तुं यत्रास्तां वीरौ कृष्णधनंजयौ

७.१०६.२०तं प्रयान्तमभिद्रुत्य राधेयः कङ्कपत्रिभिः
अभ्यवर्षन्महाराज मेघो वृष्ट्येव पर्वतम्

७.१०६.२१फुल्लता पङ्कजेनेव वक्त्रेणाभ्युत्स्मयन्बली
आजुहाव रणे यान्तं भीममाधिरथिस्तदा

७.१०६.२२भीमसेनस्तदाह्वानं कर्णान्नामर्षयद्युधि
अर्धमण्डलमावृत्य सूतपुत्रमयोधयत्

७.१०६.२३अवक्रगामिभिर्बाणैरभ्यवर्षन्महायसैः
द्वैरथे दंशितं यत्तं सर्वशस्त्रभृतां वरम्

७.१०६.२४विधित्सुः कलहस्यान्तं जिघांसुः कर्णमक्षिणोत्
तं च हत्वेतरान्सर्वान्हन्तुकामो महाबलः

७.१०६.२५तस्मै प्रासृजदुग्राणि विविधानि परंतपः
अमर्षी पाण्डवः क्रुद्धः शरवर्षाणि मारिष

७.१०६.२६तस्य तानीषुवर्षाणि मत्तद्विरदगामिनः
सूतपुत्रोऽस्त्रमायाभिरग्रसत्सुमहायशाः

७.१०६.२७स यथावन्महाराज विद्यया वै सुपूजितः
आचार्यवन्महेष्वासः कर्णः पर्यचरद्रणे

७.१०६.२८संरम्भेण तु युध्यन्तं भीमसेनं स्मयन्निव
अभ्यपद्यत राधेयस्तममर्षी वृकोदरम्

७.१०६.२९तन्नामृष्यत कौन्तेयः कर्णस्य स्मितमाहवे
युध्यमानेषु वीरेषु पश्यत्सु च समन्ततः

७.१०६.३०तं भीमसेनः संप्राप्तं वत्सदन्तैः स्तनान्तरे
विव्याध बलवान्क्रुद्धस्तोत्त्रैरिव महाद्विपम्

७.१०६.३१सूतं तु सूतपुत्रस्य सुपुङ्खैर्निशितैः शरैः
सुमुक्तैश्चित्रवर्माणं निर्बिभेद त्रिसप्तभिः

७.१०६.३२कर्णो जाम्बूनदैर्जालैः संछन्नान्वातरंहसः
विव्याध तुरगान्वीरः पञ्चभिः पञ्चभिः शरैः

७.१०६.३३ततो बाणमयं जालं भीमसेनरथं प्रति
कर्णेन विहितं राजन्निमेषार्धाददृश्यत

७.१०६.३४सरथः सध्वजस्तत्र ससूतः पाण्डवस्तदा
प्राच्छाद्यत महाराज कर्णचापच्युतैः शरैः

७.१०६.३५तस्य कर्णश्चतुःषष्ट्या व्यधमत्कवचं दृढम्
क्रुद्धश्चाप्यहनत्पार्श्वे नाराचैर्मर्मभेदिभिः

७.१०६.३६ततोऽचिन्त्य महावेगान्कर्णकार्मुकनिःसृतान्
समाश्लिष्यदसंभ्रान्तः सूतपुत्रं वृकोदरः

७.१०६.३७स कर्णचापप्रभवानिषूनाशीविषोपमान्
बिभ्रद्भीमो महाराज न जगाम व्यथां रणे

७.१०६.३८ततो द्वात्रिंशता भल्लैर्निशितैस्तिग्मतेजनैः
विव्याध समरे कर्णं भीमसेनः प्रतापवान्

७.१०६.३९अयत्नेनैव तं कर्णः शरैरुप समाकिरत्
भीमसेनं महाबाहुं सैन्धवस्य वधैषिणम्

७.१०६.४०मृदुपूर्वं च राधेयो भीममाजावयोधयत्
क्रोधपूर्वं तथा भीमः पूर्ववैरमनुस्मरन्

७.१०६.४१तं भीमसेनो नामृष्यदवमानममर्षणः
स तस्मै व्यसृजत्तूर्णं शरवर्षममित्रजित्

७.१०६.४२ते शराः प्रेषिता राजन्भीमसेनेन संयुगे
निपेतुः सर्वतो भीमाः कूजन्त इव पक्षिणः

७.१०६.४३हेमपुङ्खा महाराज भीमसेनधनुश्च्युताः
अभ्यद्रवंस्ते राधेयं वृकाः क्षुद्रमृगं यथा

७.१०६.४४कर्णस्तु रथिनां श्रेष्ठश्छाद्यमानः समन्ततः
राजन्व्यसृजदुग्राणि शरवर्षाणि संयुगे

७.१०६.४५तस्य तानशनिप्रख्यानिषून्समरशोभिनः
चिच्छेद बहुभिर्भल्लैरसंप्राप्तान्वृकोदरः

७.१०६.४६पुनश्च शरवर्षेण छादयामास भारत
कर्णो वैकर्तनो युद्धे भीमसेनं महारथम्

७.१०६.४७तत्र भारत भीमं तु दृष्टवन्तः स्म सायकैः
समाचिततनुं संख्ये श्वाविधं शललैरिव

७.१०६.४८हेमपुङ्खाञ्शिलाधौतान्कर्णचापच्युताञ्शरान्
दधार समरे वीरः स्वरश्मीनिव भास्करः

७.१०६.४९रुधिरोक्षितसर्वाङ्गो भीमसेनो व्यरोचत
तपनीयनिभैः पुष्पैः पलाश इव कानने

७.१०६.५०तत्तु भीमो महाराज कर्णस्य चरितं रणे
नामृष्यत महेष्वासः क्रोधादुद्वृत्य चक्षुषी

७.१०६.५१स कर्णं पञ्चविंशत्या नाराचानां समार्पयत्
महीधरमिव श्वेतं गूढपादैर्विषोल्बणैः

७.१०६.५२तं विव्याध पुनर्भीमः षड्भिरष्टाभिरेव च
मर्मस्वमरविक्रान्तः सूतपुत्रं महारणे

७.१०६.५३ततः कर्णस्य संक्रुद्धो भीमसेनः प्रतापवान्
चिच्छेद कार्मुकं तूर्णं सर्वोपकरणानि च

७.१०६.५४जघान चतुरश्चाश्वान्सूतं च त्वरितः शरैः
नाराचैरर्करश्म्याभैः कर्णं विव्याध चोरसि

७.१०६.५५ते जग्मुर्धरणीं सर्वे कर्णं निर्भिद्य मारिष
यथा हि जलदं भित्त्वा राजन्सूर्यस्य रश्मयः

७.१०६.५६स वैकल्यं महत्प्राप्य छिन्नधन्वा शरार्दितः
तथा पुरुषमानी स प्रत्यपायाद्रथान्तरम्