७.११२.१संजय उवाच
७.११२.२भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिस्वनम्
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम्
७.११२.३अपक्रम्य स भीमस्य मुहूर्तं शरगोचरात्
तव चाधिरथिर्दृष्ट्वा स्यन्दनेभ्यश्च्युतान्सुतान्
७.११२.४भीमसेनेन निहतान्विमना दुःखितोऽभवत्
निःश्वसन्दीर्घमुष्णं च पुनः पाण्डवमभ्ययात्
७.११२.५स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः
बभौ कर्णः शरानस्यन्रश्मिवानिव भास्करः
७.११२.६रश्मिजालैरिवार्कस्य विततैर्भरतर्षभ
कर्णचापच्युतैर्बाणैः प्राच्छाद्यत वृकोदरः
७.११२.७कर्णचापच्युताश्चित्राः शरा बर्हिणवाससः
विविशुः सर्वतः पार्थं वासायेवाण्डजा द्रुमम्
७.११२.८कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव
७.११२.९चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात्
प्रभवन्तो व्यदृश्यन्त राजन्नाधिरथेः शराः
७.११२.१०खं पूरयन्महावेगान्खगमान्खगवाससः
सुवर्णविकृतांश्चित्रान्मुमोचाधिरथिः शरान्
७.११२.११तमन्तकमिवायस्तमापतन्तं वृकोदरः
त्यक्त्वा प्राणानभिक्रुध्य विव्याध नवभिः शरैः
७.११२.१२तस्य वेगमसंसह्यं दृष्ट्वा कर्णस्य पाण्डवः
महतश्च शरौघांस्तान्नैवाव्यथत वीर्यवान्
७.११२.१३ततो विधम्याधिरथेः शरजालानि पाण्डवः
विव्याध कर्णं विंशत्या पुनरन्यैः शितैः शरैः
७.११२.१४यथैव हि शरैः पार्थः सूतपुत्रेण छादितः
तथैव कर्णं समरे छादयामास पाण्डवः
७.११२.१५दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः
७.११२.१६भूरिश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः
उत्तमौजा युधामन्युः सात्यकिः केशवार्जुनौ
७.११२.१७कुरुपाण्डवानां प्रवरा दश राजन्महारथाः
साधु साध्विति वेगेन सिंहनादमथानदन्
७.११२.१८तस्मिंस्तु तुमुले शब्दे प्रवृत्ते लोमहर्षणे
अभ्यभाषत पुत्रांस्ते राजन्दुर्योधनस्त्वरन्
७.११२.१९राज्ञश्च राजपुत्रांश्च सोदर्यांश्च विशेषतः
कर्णं गच्छत भद्रं वः परीप्सन्तो वृकोदरात्
७.११२.२०पुरा निघ्नन्ति राधेयं भीमचापच्युताः शराः
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे
७.११२.२१दुर्योधनसमादिष्टाः सोदर्याः सप्त मारिष
भीमसेनमभिद्रुत्य संरब्धाः पर्यवारयन्
७.११२.२२ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः
७.११२.२३तेऽपीडयन्भीमसेनं क्रुद्धाः सप्त महारथाः
प्रजासंहरणे राजन्सोमं सप्त ग्रहा इव
७.११२.२४ततो वामेन कौन्तेयः पीडयित्वा शरासनम्
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम्
७.११२.२५मनुष्यसमतां ज्ञात्वा सप्त संधाय सायकान्
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः
७.११२.२६निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव
भीमसेनो महाराज पूर्ववैरमनुस्मरन्
७.११२.२७ते क्षिप्ता भीमसेनेन शरा भारत भारतान्
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः
७.११२.२८तेषां विदार्य चेतांसि शरा हेमविभूषिताः
व्यराजन्त महाराज सुपर्णा इव खेचराः
७.११२.२९शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः
७.११२.३०ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ
गिरिसानुरुहा भग्ना द्विपेनेव महाद्रुमाः
७.११२.३१शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः
७.११२.३२तान्निहत्य महाबाहू राधेयस्यैव पश्यतः
सिंहनादरवं घोरमसृजत्पाण्डुनन्दनः
७.११२.३३स रवस्तस्य शूरस्य धर्मराजस्य भारत
आचख्याविव तद्युद्धं विजयं चात्मनो महत्
७.११२.३४तं श्रुत्वा सुमहानादं भीमसेनस्य धन्विनः
बभूव परमा प्रीतिर्धर्मराजस्य संयुगे
७.११२.३५ततो हृष्टो महाराज वादित्राणां महास्वनैः
भीमसेनरवं पार्थः प्रतिजग्राह सर्वशः
७.११२.३६अभ्ययाच्चैव समरे द्रोणमस्त्रभृतां वरम्
हर्षेण महता युक्तः कृतसंज्ञे वृकोदरे
७.११२.३७एकत्रिंशन्महाराज पुत्रांस्तव महारथान्
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः
७.११२.३८तदिदं समनुप्राप्तं क्षत्तुर्हितकरं वचः
इति संचिन्त्य राजासौ नोत्तरं प्रत्यपद्यत
७.११२.३९यद्द्यूतकाले दुर्बुद्धिरब्रवीत्तनयस्तव
यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः
७.११२.४०प्रमुखे पाण्डुपुत्राणां तव चैव विशां पते
कौरवाणां च सर्वेषामाचार्यस्य च संनिधौ
७.११२.४१विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम्
७.११२.४२यत्स्म तां परुषाण्याहुः सभामानाय्य द्रौपदीम्
पाण्डवानुग्रधनुषः क्रोधयन्तस्तवात्मजाः
७.११२.४३तं भीमसेनः क्रोधाग्निं त्रयोदश समाः स्थितम्
विसृजंस्तव पुत्राणामन्तं गच्छति कौरव
७.११२.४४विलपंश्च बहु क्षत्ता शमं नालभत त्वयि
सपुत्रो भरतश्रेष्ठ तस्य भुङ्क्ष्व फलोदयम्
हतो विकर्णो राजेन्द्र चित्रसेनश्च वीर्यवान्
७.११२.४५प्रवरानात्मजानां ते सुतांश्चान्यान्महारथान्
यान्यांश्च ददृशे भीमश्चक्षुर्विषयमागतान्
पुत्रांस्तव महाबाहो त्वरया ताञ्जघान ह
७.११२.४६त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरूथिनीम्
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च