७. द्रोणपर्व
७.१११.१संजय उवाच

७.१११.२तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान्
क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात्

७.१११.३आगस्कृतमिवात्मानं मेने चाधिरथिस्तदा
भीमसेनं ततः क्रुद्धः समाद्रवत संभ्रमात्

७.१११.४स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव
पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः

७.१११.५अवहासं तु तं पार्थो नामृष्यत वृकोदरः
ततो विव्याध राधेयं शतेन नतपर्वणाम्

७.१११.६पुनश्च विशिखैस्तीक्ष्णैर्विद्ध्वा पञ्चभिराशुगैः
धनुश्चिच्छेद भल्लेन सूतपुत्रस्य मारिष

७.१११.७अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः
इषुभिश्छादयामास भीमसेनं समन्ततः

७.१११.८तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम्
प्रजहास महाहासं कृते प्रतिकृतं पुनः

७.१११.९इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः
तत्पपात महाराज स्वर्णपृष्ठं महास्वनम्

७.१११.१०अवारोहद्रथात्तस्मादथ कर्णो महारथः
गदां गृहीत्वा समरे भीमसेनाय चाक्षिपत्

७.१११.११तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः
शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः

७.१११.१२ततो बाणसहस्राणि प्रेषयामास पाण्डवः
सूतपुत्रवधाकाङ्क्षी त्वरमाणः पराक्रमी

७.१११.१३तानिषूनिषुभिः कर्णो वारयित्वा महामृधे
कवचं भीमसेनस्य पातयामास सायकैः

७.१११.१४अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
पश्यतां सर्वभूतानां तदद्भुतमिवाभवत्

७.१११.१५ततो भीमो महाराज नवभिर्नतपर्वणाम्
रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष

७.१११.१६ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम्
अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः

७.१११.१७राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम्
भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत्
त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति

७.१११.१८ततस्तव सुता राजञ्श्रुत्वा भ्रातुर्वचो द्रुतम्
अभ्ययुः पाण्डवं युद्धे विसृजन्तः शिताञ्शरान्

७.१११.१९चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः
चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः

७.१११.२०आगच्छतस्तान्सहसा भीमो राजन्महारथः
साश्वसूतध्वजान्यत्तान्पातयामास संयुगे
ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः

७.१११.२१दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान्
अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत

७.१११.२२रथमन्यं समास्थाय विधिवत्कल्पितं पुनः
अभ्ययात्पाण्डवं युद्धे त्वरमाणः पराक्रमी

७.१११.२३तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः
व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ

७.१११.२४षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः
व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः

७.१११.२५रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ
शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ

७.१११.२६तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ
विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ

७.१११.२७व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम्
शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ

७.१११.२८वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः
तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ

७.१११.२९प्रच्छादयन्तौ समरे शरजालैः परस्परम्
रथाभ्यां नादयन्तौ च दिशः सर्वा विचेरतुः

७.१११.३०तौ रथाभ्यां महाराज मण्डलावर्तनादिषु
व्यरोचेतां महात्मानौ वृत्रवज्रधराविव

७.१११.३१सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः
व्यरोचत रणे भीमः सविद्युदिव तोयदः

७.१११.३२स चापघोषस्तनितः शरधाराम्बुदो महान्
भीममेघो महाराज कर्णपर्वतमभ्ययात्

७.१११.३३ततः शरसहस्रेण धनुर्मुक्तेन भारत
पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः

७.१११.३४तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम्
सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः

७.१११.३५स नन्दयन्रणे पार्थं केशवं च यशस्विनम्
सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत्

७.१११.३६विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः
पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह