७.११५.१धृतराष्ट्र उवाच
७.११५.२अहन्यहनि मे दीप्तं यशः पतति संजय
हता मे बहवो योधा मन्ये कालस्य पर्ययम्
७.११५.३धनंजयस्तु संक्रुद्धः प्रविष्टो मामकं बलम्
रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि
७.११५.४ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च
७.११५.५तदा प्रभृति मा शोको दहत्यग्निरिवाशयम्
ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान्
७.११५.६अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः
चक्षुर्विषयमापन्नः कथं मुच्येत जीवितः
७.११५.७अनुमानाच्च पश्यामि नास्ति संजय सैन्धवः
युद्धं तु तद्यथा वृत्तं तन्ममाचक्ष्व पृच्छतः
७.११५.८यच्च विक्षोभ्य महतीं सेनां संलोड्य चासकृत्
एकः प्रविष्टः संक्रुद्धो नलिनीमिव कुञ्जरः
७.११५.९तस्य वृष्णिप्रवीरस्य ब्रूहि युद्धं यथातथम्
धनंजयार्थे यत्तस्य कुशलो ह्यसि संजय
७.११५.१०संजय उवाच
७.११५.११तथा तु वैकर्तनपीडितं तं; भीमं प्रयान्तं पुरुषप्रवीरम्
समीक्ष्य राजन्नरवीरमध्ये; शिनिप्रवीरोऽनुययौ रथेन
७.११५.१२नदन्यथा वज्रधरस्तपान्ते; ज्वलन्यथा जलदान्ते च सूर्यः
निघ्नन्नमित्रान्धनुषा दृढेन; संकम्पयंस्तव पुत्रस्य सेनाम्
७.११५.१३तं यान्तमश्वै रजतप्रकाशै;रायोधने नरवीरं चरन्तम्
नाशक्नुवन्वारयितुं त्वदीयाः; सर्वे रथा भारत माधवाग्र्यम्
७.११५.१४अमर्षपूर्णस्त्वनिवृत्तयोधी; शरासनी काञ्चनवर्मधारी
अलम्बुसः सात्यकिं माधवाग्र्य;मवारयद्राजवरोऽभिपत्य
७.११५.१५तयोरभूद्भारत संप्रहार;स्तथागतो नैव बभूव कश्चित्
प्रैक्षन्त एवाहवशोभिनौ तौ; योधास्त्वदीयाश्च परे च सर्वे
७.११५.१६अविध्यदेनं दशभिः पृषत्कै;रलम्बुसो राजवरः प्रसह्य
अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि
७.११५.१७पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः
विव्याध देहावरणं विदार्य; ते सात्यकेराविविशुः शरीरम्
७.११५.१८तैः कायमस्याग्न्यनिलप्रभावै;र्विदार्य बाणैरपरैर्ज्वलद्भिः
आजघ्निवांस्तान्रजतप्रकाशा;नश्वांश्चतुर्भिश्चतुरः प्रसह्य
७.११५.१९तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेश्चक्रधरप्रभावः
अलम्बुसस्योत्तमवेगवद्भि;र्हयांश्चतुर्भिर्निजघान बाणैः
७.११५.२०अथास्य सूतस्य शिरो निकृत्य; भल्लेन कालानलसंनिभेन
सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात्
७.११५.२१निहत्य तं पार्थिवपुत्रपौत्रं; संख्ये मधूनामृषभः प्रमाथी
ततोऽन्वयादर्जुनमेव वीरः; सैन्यानि राजंस्तव संनिवार्य
७.११५.२२अन्वागतं वृष्णिवरं समीक्ष्य; तथारिमध्ये परिवर्तमानम्
घ्नन्तं कुरूणामिषुभिर्बलानि; पुनः पुनर्वायुरिवाभ्रपूगान्
७.११५.२३ततोऽवहन्सैन्धवाः साधु दान्ता; गोक्षीरकुन्देन्दुहिमप्रकाशाः
सुवर्णजालावतताः सदश्वा; यतो यतः कामयते नृसिंहः
७.११५.२४अथात्मजास्ते सहिताभिपेतु;रन्ये च योधास्त्वरितास्त्वदीयाः
कृत्वा मुखं भारत योधमुख्यं; दुःशासनं त्वत्सुतमाजमीढ
७.११५.२५ते सर्वतः संपरिवार्य संख्ये; शैनेयमाजघ्नुरनीकसाहाः
स चापि तान्प्रवरः सात्वतानां; न्यवारयद्बाणजालेन वीरः
७.११५.२६निवार्य तांस्तूर्णममित्रघाती; नप्ता शिनेः पत्रिभिरग्निकल्पैः
दुःशासनस्यापि जघान वाहा;नुद्यम्य बाणासनमाजमीढ