७.११६.१संजय उवाच
७.११६.२तमुद्यतं महाबाहुं दुःशासनरथं प्रति
त्वरितं त्वरणीयेषु धनंजयहितैषिणम्
७.११६.३त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः
सेनासमुद्रमाविष्टमानर्तं पर्यवारयन्
७.११६.४अथैनं रथवंशेन सर्वतः संनिवार्य ते
अवाकिरञ्शरव्रातैः क्रुद्धाः परमधन्विनः
७.११६.५अजयद्राजपुत्रांस्तान्यतमानान्महारणे
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः
७.११६.६संप्राप्य भारतीमध्यं तलघोषसमाकुलम्
असिशक्तिगदापूर्णमप्लवं सलिलं यथा
७.११६.७तत्राद्भुतमपश्याम शैनेयचरितं रणे
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात्
७.११६.८उदीचीं दक्षिणां प्राचीं प्रतीचीं प्रसृतस्तथा
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा
७.११६.९तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः
त्रिगर्ताः संन्यवर्तन्त संतप्ताः स्वजनं प्रति
७.११६.१०तमन्ये शूरसेनानां शूराः संख्ये न्यवारयन्
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः
७.११६.११तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः
७.११६.१२तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम्
अथ पार्थं महाबाहुर्धनंजयमुपासदत्
७.११६.१३तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान्
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत्
७.११६.१४तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत्
असावायाति शैनेयस्तव पार्थ पदानुगः
७.११६.१५एष शिष्यः सखा चैव तव सत्यपराक्रमः
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः
७.११६.१६एष कौरवयोधानां कृत्वा घोरमुपद्रवम्
तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः
७.११६.१७एष द्रोणं तथा भोजं कृतवर्माणमेव च
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः
७.११६.१८धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान्
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः
७.११६.१९कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः
७.११६.२०बहूनेकरथेनाजौ योधयित्वा महारथान्
आचार्यप्रमुखान्पार्थ आयात्येष हि सात्यकिः
७.११६.२१स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम्
प्रेषितो धर्मपुत्रेण पर्थैषोऽभ्येति सात्यकिः
७.११६.२२यस्य नास्ति समो योधः कौरवेषु कथंचन
सोऽयमायाति कौन्तेय सात्यकिः सत्यविक्रमः
७.११६.२३कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव
निहत्य बहुलाः सेनाः पार्थैषोऽभ्येति सात्यकिः
७.११६.२४एष राजसहस्राणां वक्त्रैः पङ्कजसंनिभैः
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः
७.११६.२५एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे
निहत्य जलसंधं च क्षिप्रमायाति सात्यकिः
७.११६.२६रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम्
तृणवन्न्यस्य कौरव्यानेष आयाति सात्यकिः
७.११६.२७ततोऽप्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत्
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः
७.११६.२८न हि जानामि वृत्तान्तं धर्मराजस्य केशव
सात्वतेन विहीनः स यदि जीवति वा न वा
७.११६.२९एतेन हि महाबाहो रक्षितव्यः स पार्थिवः
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः
७.११६.३०राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः
प्रत्युद्यातश्च शैनेयमेष भूरिश्रवा रणे
७.११६.३१सोऽयं गुरुतरो भारः सैन्धवान्मे समाहितः
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः
७.११६.३२जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः
श्रान्तश्चैष महाबाहुरल्पप्राणश्च सांप्रतम्
७.११६.३३परिश्रान्ता हयाश्चास्य हययन्ता च माधव
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव
७.११६.३४अपीदानीं भवेदस्य क्षेममस्मिन्समागमे
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुंगवः
७.११६.३५अपि कौरवमुख्येन कृतास्त्रेण महात्मना
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत्
७.११६.३६व्यतिक्रममिमं मन्ये धर्मराजस्य केशव
आचार्याद्भयमुत्सृज्य यः प्रेषयति सात्यकिम्
७.११६.३७ग्रहणं धर्मराजस्य खगः श्येन इवामिषम्
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः