७. द्रोणपर्व
७.१२१.१संजय उवाच

७.१२१.२स रणे व्यचरत्पार्थः प्रेक्षणीयो धनंजयः
युगपद्दिक्षु सर्वासु चित्राण्यस्त्राणि दर्शयन्

७.१२१.३मध्यंदिनगतं सूर्यं प्रतपन्तमिवाम्बरे
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम्

७.१२१.४प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः
संग्रामे समपश्याम हंसपङ्क्तीरिवाम्बरे

७.१२१.५विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वशः
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः

७.१२१.६स तान्रथवरान्राजन्नभ्यतिक्रामदर्जुनः
मोहयन्निव नाराचैर्जयद्रथवधेप्सया

७.१२१.७विसृजन्दिक्षु सर्वासु शरानसितसारथिः
स रणे व्यचरत्तूर्णं प्रेक्षणीयो धनंजयः

७.१२१.८भ्रमन्त इव शूरस्य शरव्राता महात्मनः
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः

७.१२१.९आददानं महेष्वासं संदधानं च पाण्डवम्
विसृजन्तं च कौन्तेयं नानुपश्यामहे तदा

७.१२१.१०तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम्

७.१२१.११सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना
न चक्षमे सुसंक्रुद्धस्तोत्त्रार्दित इव द्विपः

७.१२१.१२स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान्
आशीविषसमप्रख्यान्कर्मारपरिमार्जितान्
मुमोच निशितान्संख्ये सायकान्सव्यसाचिनि

७.१२१.१३त्रिभिस्तु विद्ध्वा गाण्डीवं नाराचैः षड्भिरर्जुनम्
अष्टाभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा

७.१२१.१४स विक्षिप्यार्जुनस्तीक्ष्णान्सैन्धवप्रेषिताञ्शरान्
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह
सारथेश्च शिरः कायाद्ध्वजं च समलंकृतम्

७.१२१.१५स छिन्नयष्टिः सुमहाञ्शीर्यमाणः शराहतः
वराहः सिन्धुराजस्य पपाताग्निशिखोपमः

७.१२१.१६एतस्मिन्नेव काले तु द्रुतं गच्छति भास्करे
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः

७.१२१.१७धनंजय शिरश्छिन्धि सैन्धवस्य दुरात्मनः
अस्तं महीधरश्रेष्ठं यियासति दिवाकरः
शृणुष्वैव च मे वाक्यं जयद्रथवधं प्रति

७.१२१.१८वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः
स कालेनेह महता सैन्धवं प्राप्तवान्सुतम्

७.१२१.१९जयद्रथममित्रघ्नं तं चोवाच ततो नृपम्
अन्तर्हिता तदा वाणी मेघदुन्दुभिनिस्वना

७.१२१.२०तवात्मजोऽयं मर्त्येषु कुलशीलदमादिभिः
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः

७.१२१.२१शत्रुभिर्युध्यमानस्य संग्रामे त्वस्य धन्विनः
शिरश्छेत्स्यति संक्रुद्धः शत्रुर्नालक्षितो भुवि

७.१२१.२२एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिंदम
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिपीडितः

७.१२१.२३संग्रामे युध्यमानस्य वहतो महतीं धुरम्
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः
तस्यापि शतधा मूर्धा फलिष्यति न संशयः

७.१२१.२४एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम्
वृद्धक्षत्रो वनं यातस्तपश्चेष्टं समास्थितः

७.१२१.२५सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम्
समन्तपञ्चकादस्माद्बहिर्वानरकेतन

७.१२१.२६तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा

७.१२१.२७सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज
उत्सङ्गे पातयस्वाशु वृद्धक्षत्रस्य भारत

७.१२१.२८अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले
तवापि शतधा मूर्धा फलिष्यति न संशयः

७.१२१.२९यथा चैतन्न जानीयात्स राजा पृथिवीपतिः
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः

७.१२१.३०न ह्यसाध्यमकार्यं वा विद्यते तव किंचन
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन

७.१२१.३१एतच्छ्रुत्वा तु वचनं सृक्किणी परिसंलिहन्
इन्द्राशनिसमस्पर्शं दिव्यमन्त्राभिमन्त्रितम्

७.१२१.३२सर्वभारसहं शश्वद्गन्धमाल्यार्चितं शरम्
विससर्जार्जुनस्तूर्णं सैन्धवस्य वधे वृतः

७.१२१.३३स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुगः
शकुन्तमिव वृक्षाग्रात्सैन्धवस्य शिरोऽहरत्

७.१२१.३४अहरत्तत्पुनश्चैव शरैरूर्ध्वं धनंजयः
दुर्हृदामप्रहर्षाय सुहृदां हर्षणाय च

७.१२१.३५शरैः कदम्बकीकृत्य काले तस्मिंश्च पाण्डवः
समन्तपञ्चकाद्बाह्यं शिरस्तद्व्यहरत्ततः

७.१२१.३६एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः
संध्यामुपास्ते तेजस्वी संबन्धी तव मारिष

७.१२१.३७उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम्
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत्

७.१२१.३८तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम्
वृद्धक्षत्रस्य नृपतेरलक्षितमरिंदम

७.१२१.३९कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य धीमतः
उत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्धरातलम्

७.१२१.४०ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतलम्
गते तस्यापि शतधा मूर्धागच्छदरिंदम

७.१२१.४१ततः सर्वाणि भूतानि विस्मयं जग्मुरुत्तमम्
वासुदेवश्च बीभत्सुं प्रशशंस महारथम्

७.१२१.४२ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम्
पुत्राणां तव नेत्रेभ्यो दुःखाद्बह्वपतज्जलम्

७.१२१.४३भीमसेनोऽपि संग्रामे बोधयन्निव पाण्डवम्
सिंहनादेन महता पूरयामास रोदसी

७.१२१.४४तं श्रुत्वा तु महानादं धर्मपुत्रो युधिष्ठिरः
सैन्धवं निहतं मेने फल्गुनेन महात्मना

७.१२१.४५ततो वादित्रघोषेण स्वान्योधानभिहर्षयन्
अभ्यवर्तत संग्रामे भारद्वाजं युयुत्सया

७.१२१.४६ततः प्रववृते राजन्नस्तं गच्छति भास्करे
द्रोणस्य सोमकैः सार्धं संग्रामो लोमहर्षणः

७.१२१.४७ते तु सर्वप्रयत्नेन भारद्वाजं जिघांसवः
सैन्धवे निहते राजन्नयुध्यन्त महारथाः

७.१२१.४८पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च
अयोधयंस्ततो द्रोणं जयोन्मत्तास्ततस्ततः

७.१२१.४९अर्जुनोऽपि रणे योधांस्तावकान्रथसत्तमान्
अयोधयन्महाराज हत्वा सैन्धवकं नृपम्

७.१२१.५०स देवशत्रूनिव देवराजः; किरीटमाली व्यधमत्समन्तात्
यथा तमांस्यभ्युदितस्तमोघ्नः; पूर्वां प्रतिज्ञां समवाप्य वीरः