७. द्रोणपर्व
७.१२४.१संजय उवाच

७.१२४.२ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः

७.१२४.३प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम्
अब्रवीद्वासुदेवं च पाण्डवं च धनंजयम्

७.१२४.४दिष्ट्या पश्यामि संग्रामे तीर्णभारौ महारथौ
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः

७.१२४.५कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता
दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे

७.१२४.६न तेषां दुष्करं किंचित्त्रिषु लोकेषु विद्यते
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन

७.१२४.७तव प्रसादाद्गोविन्द वयं जेष्यामहे रिपून्
यथा पूर्वं प्रसादात्ते दानवान्पाकशासनः

७.१२४.८पृथिवीविजयो वापि त्रैलोक्यविजयोऽपि वा
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि माधव

७.१२४.९न तेषां विद्यते पापं संग्रामे वा पराजयः
त्रिदशेश्वरनाथस्त्वं येषां तुष्टोऽसि माधव

७.१२४.१०त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि

७.१२४.११तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वर
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान्

७.१२४.१२त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः

७.१२४.१३त्वत्प्रसादाद्धृषीकेश जगत्स्थावरजङ्गमम्
स्ववर्त्मनि स्थितं वीर जपहोमेषु वर्तते

७.१२४.१४एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम्
त्वत्प्रसादात्प्रकाशत्वं जगत्प्राप्तं नरोत्तम

७.१२४.१५स्रष्टारं सर्वलोकानां परमात्मानमच्युतम्
ये प्रपन्ना हृषीकेशं न ते मुह्यन्ति कर्हिचित्

७.१२४.१६अनादिनिधनं देवं लोककर्तारमव्ययम्
त्वां भक्ता ये हृषीकेश दुर्गाण्यतितरन्ति ते

७.१२४.१७परं पुराणं पुरुषं पुराणानां परं च यत्
प्रपद्यतस्तं परमं परा भूतिर्विधीयते

७.१२४.१८योऽगात चतुरो वेदान्यश्च वेदेषु गीयते
तं प्रपद्य महात्मानं भूतिमाप्नोत्यनुत्तमाम्

७.१२४.१९धनंजयसखा यश्च धनंजयहितश्च यः
तं धनंजयगोप्तारं प्रपद्य सुखमेधते

७.१२४.२०इत्युक्तौ तौ महात्मानावुभौ केशवपाण्डवौ
तावब्रूतां तदा हृष्टौ राजानं पृथिवीपतिम्

७.१२४.२१तव कोपाग्निना दग्धः पापो राजा जयद्रथः
उदीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे

७.१२४.२२हन्यते निहतं चैव विनङ्क्ष्यति च भारत
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन

७.१२४.२३त्वां हि चक्षुर्हणं वीरं कोपयित्वा सुयोधनः
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः

७.१२४.२४तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः
शरतल्पगतः शेते भीष्मः कुरुपितामहः

७.१२४.२५दुर्लभो हि जयस्तेषां संग्रामे रिपुसूदन
याता मृत्युवशं ते वै येषां क्रुद्धोऽसि पाण्डव

७.१२४.२६राज्यं प्राणाः प्रियाः पुत्राः सौख्यानि विविधानि च
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद

७.१२४.२७विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान्
राजधर्मपरे नित्यं त्वयि क्रुद्धे युधिष्ठिर

७.१२४.२८ततो भीमो महाबाहुः सात्यकिश्च महारथः
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ
स्थितावास्तां महेष्वासौ पाञ्चाल्यैः परिवारितौ

७.१२४.२९तौ दृष्ट्व मुदितौ वीरौ प्राञ्जली चाग्रतः स्थितौ
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी

७.१२४.३०दिष्ट्या पश्यामि वां वीरौ विमुक्तौ सैन्यसागरात्
द्रोणग्राहाद्दुराधर्षाद्धार्दिक्यमकरालयात्
दिष्ट्या च निर्जिताः संख्ये पृथिव्यां सर्वपार्थिवाः

७.१२४.३१युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे
दिष्ट्या द्रोणो जितः संख्ये हार्दिक्यश्च महाबलः

७.१२४.३२सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि चानघौ
समरश्लाघिनौ वीरौ समरेष्वपलायिनौ
मम प्राणसमौ चैव दिष्ट्या पश्यामि वामहम्

७.१२४.३३इत्युक्त्वा पाण्डवो राजा युयुधानवृकोदरौ
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुमोच ह

७.१२४.३४ततः प्रमुदितं सर्वं बलमासीद्विशां पते
पाण्डवानां जयं दृष्ट्वा युद्धाय च मनो दधे