७.१२५.१संजय उवाच
७.१२५.२सैन्धवे निहते राजन्पुत्रस्तव सुयोधनः
अश्रुक्लिन्नमुखो दीनो निरुत्साहो द्विषज्जये
अमन्यतार्जुनसमो योधो भुवि न विद्यते
७.१२५.३न द्रोणो न च राधेयो नाश्वत्थामा कृपो न च
क्रुद्धस्य प्रमुखे स्थातुं पर्याप्ता इति मारिष
७.१२५.४निर्जित्य हि रणे पार्थः सर्वान्मम महारथान्
अवधीत्सैन्धवं संख्ये नैनं कश्चिदवारयत्
७.१२५.५सर्वथा हतमेवैतत्कौरवाणां महद्बलम्
न ह्यस्य विद्यते त्राता साक्षादपि पुरंदरः
७.१२५.६यमुपाश्रित्य संग्रामे कृतः शस्त्रसमुद्यमः
स कर्णो निर्जितः संख्ये हतश्चैव जयद्रथः
७.१२५.७परुषाणि सभामध्ये प्रोक्तवान्यः स्म पाण्डवान्
स कर्णो निर्जितः संख्ये सैन्धवश्च निपातितः
७.१२५.८यस्य वीर्यं समाश्रित्य शमं याचन्तमच्युतम्
तृणवत्तमहं मन्ये स कर्णो निर्जितो युधि
७.१२५.९एवं क्लान्तमना राजन्नुपायाद्द्रोणमीक्षितुम्
आगस्कृत्सर्वलोकस्य पुत्रस्ते भरतर्षभ
७.१२५.१०ततस्तत्सर्वमाचख्यौ कुरूणां वैशसं महत्
परान्विजयतश्चापि धार्तराष्ट्रान्निमज्जतः
७.१२५.११दुर्योधन उवाच
७.१२५.१२पश्य मूर्धावसिक्तानामाचार्य कदनं कृतम्
कृत्वा प्रमुखतः शूरं भीष्मं मम पितामहम्
७.१२५.१३तं निहत्य प्रलुब्धोऽयं शिखण्डी पूर्णमानसः
पाञ्चालैः सहितः सर्वैः सेनाग्रमभिकर्षति
७.१२५.१४अपरश्चापि दुर्धर्षः शिष्यस्ते सव्यसाचिना
अक्षौहिणीः सप्त हत्वा हतो राजा जयद्रथः
७.१२५.१५अस्मद्विजयकामानां सुहृदामुपकारिणाम्
गन्तास्मि कथमानृण्यं गतानां यमसादनम्
७.१२५.१६ये मदर्थं परीप्सन्ति वसुधां वसुधाधिपाः
ते हित्वा वसुधैश्वर्यं वसुधामधिशेरते
७.१२५.१७सोऽहं कापुरुषः कृत्वा मित्राणां क्षयमीदृशम्
नाश्वमेधसहस्रेण पातुमात्मानमुत्सहे
७.१२५.१८मम लुब्धस्य पापस्य तथा धर्मापचायिनः
व्यायच्छन्तो जिगीषन्तः प्राप्ता वैवस्वतक्षयम्
७.१२५.१९कथं पतितवृत्तस्य पृथिवी सुहृदां द्रुहः
विवरं नाशकद्दातुं मम पार्थिवसंसदि
७.१२५.२०सोऽहं रुधिरसिक्ताङ्गं राज्ञां मध्ये पितामहम्
शयानं नाशकं त्रातुं भीष्ममायोधने हतम्
७.१२५.२१तं मामनार्यपुरुषं मित्रद्रुहमधार्मिकम्
किं स वक्ष्यति दुर्धर्षः समेत्य परलोकजित्
७.१२५.२२जलसंधं महेष्वासं पश्य सात्यकिना हतम्
मदर्थमुद्यतं शूरं प्राणांस्त्यक्त्वा महारथम्
७.१२५.२३काम्बोजं निहतं दृष्ट्वा तथालम्बुसमेव च
अन्यान्बहूंश्च सुहृदो जीवितार्थोऽद्य को मम
७.१२५.२४व्यायच्छन्तो हताः शूरा मदर्थे येऽपराङ्मुखाः
यतमानाः परं शक्त्या विजेतुमहितान्मम
७.१२५.२५तेषां गत्वाहमानृण्यमद्य शक्त्या परंतप
तर्पयिष्यामि तानेव जलेन यमुनामनु
७.१२५.२६सत्यं ते प्रतिजानामि सर्वशस्त्रभृतां वर
इष्टापूर्तेन च शपे वीर्येण च सुतैरपि
७.१२५.२७निहत्य तान्रणे सर्वान्पाञ्चालान्पाण्डवैः सह
शान्तिं लब्धास्मि तेषां वा रणे गन्ता सलोकताम्
७.१२५.२८न हीदानीं सहाया मे परीप्सन्त्यनुपस्कृताः
श्रेयो हि पाण्डून्मन्यन्ते न तथास्मान्महाभुज
७.१२५.२९स्वयं हि मृत्युर्विहितः सत्यसंधेन संयुगे
भवानुपेक्षां कुरुते सुशिष्यत्वाद्धनंजये
७.१२५.३०अतो विनिहताः सर्वे येऽस्मज्जयचिकीर्षवः
कर्णमेव तु पश्यामि संप्रत्यस्मज्जयैषिणम्
७.१२५.३१यो हि मित्रमविज्ञाय याथातथ्येन मन्दधीः
मित्रार्थे योजयत्येनं तस्य सोऽर्थोऽवसीदति
७.१२५.३२तादृग्रूपमिदं कार्यं कृतं मम सुहृद्ब्रुवैः
मोहाल्लुब्धस्य पापस्य जिह्माचारैस्ततस्ततः
७.१२५.३३हतो जयद्रथश्चैव सौमदत्तिश्च वीर्यवान्
अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः
७.१२५.३४सोऽहमद्य गमिष्यामि यत्र ते पुरुषर्षभाः
हता मदर्थं संग्रामे युध्यमानाः किरीटिना
७.१२५.३५न हि मे जीवितेनार्थस्तानृते पुरुषर्षभान्
आचार्यः पाण्डुपुत्राणामनुजानातु नो भवान्