७.१३०.१धृतराष्ट्र उवाच
७.१३०.२तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा
७.१३०.३दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत
७.१३०.४निहते सैन्धवे वीरे भूरिश्रवसि चैव हि
यदभ्यगान्महातेजाः पाञ्चालानपराजितः
७.१३०.५किममन्यत दुर्धर्षः प्रविष्टे शत्रुतापने
दुर्योधनश्च किं कृत्यं प्राप्तकालममन्यत
७.१३०.६के च तं वरदं वीरमन्वयुर्द्विजसत्तमम्
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः
के पुरस्तादयुध्यन्त निघ्नतः शात्रवान्रणे
७.१३०.७मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान्
शिशिरे कम्पमाना वै कृशा गाव इवाभिभो
७.१३०.८प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान्
७.१३०.९सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु
संलोड्यमानेषु पृथग्विधेषु; के वस्तदानीं मतिमन्त आसन्
७.१३०.१०हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान्
७.१३०.११कथमेषां तदा तत्र पार्थानामपलायिनाम्
प्रकाशमभवद्रात्रौ कथं कुरुषु संजय
७.१३०.१२संजय उवाच
७.१३०.१३रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे
द्रोणमभ्यद्रवन्रात्रौ पाण्डवाः सहसैनिकाः
७.१३०.१४ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान्
प्रेषयन्मृत्युलोकाय सर्वानिषुभिराशुगैः
७.१३०.१५तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः
तान्सर्वान्प्रेषयामास परलोकाय भारत
७.१३०.१६प्रमथ्नन्तं तदा वीरं भारद्वाजं महारथम्
अभ्यवर्तत संक्रुद्धः शिबी राजन्प्रतापवान्
७.१३०.१७तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथम्
विव्याध दशभिर्द्रोणः सर्वपारशवैः शरैः
७.१३०.१८तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः
सारथिं चास्य भल्लेन स्मयमानो न्यपातयत्
७.१३०.१९तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः
अथास्य सशिरस्त्राणं शिरः कायादपाहरत्
७.१३०.२०कलिङ्गानां च सैन्येन कलिङ्गस्य सुतो रणे
पूर्वं पितृवधात्क्रुद्धो भीमसेनमुपाद्रवत्
७.१३०.२१स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः
विशोकं त्रिभिराजघ्ने ध्वजमेकेन पत्रिणा
७.१३०.२२कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः
रथाद्रथमभिद्रुत्य मुष्टिनाभिजघान ह
७.१३०.२३तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक्
७.१३०.२४तं कर्णो भ्रातरश्चास्य नामृष्यन्त महारथाः
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः
७.१३०.२५ततः शत्रुरथं त्यक्त्वा भीमो ध्रुवरथं गतः
ध्रुवं चास्यन्तमनिशं मुष्टिना समपोथयत्
स तथा पाण्डुपुत्रेण बलिना निहतोऽपतत्
७.१३०.२६तं निहत्य महाराज भीमसेनो महाबलः
जयरातरथं प्राप्य मुहुः सिंह इवानदत्
७.१३०.२७जयरातमथाक्षिप्य नदन्सव्येन पाणिना
तलेन नाशयामास कर्णस्यैवाग्रतः स्थितम्
७.१३०.२८कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत्
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः
७.१३०.२९कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः
तामन्तरिक्षे चिच्छेद शकुनिस्तैलपायिना
७.१३०.३०ततस्तव सुता राजन्भीमस्य रथमाव्रजन्
महता शरवर्षेण छादयन्तो वृकोदरम्
७.१३०.३१दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम्
दुर्मदस्तु ततो यानं दुष्कर्णस्यावपुप्लुवे
७.१३०.३२तावेकरथमारूढौ भ्रातरौ परतापनौ
संग्रामशिरसो मध्ये भीमं द्वावभ्यधावताम्
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम्
७.१३०.३३ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ
रथमेकं समारुह्य भीमं बाणैरविध्यताम्
७.१३०.३४ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः
७.१३०.३५दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम्
पादप्रहारेण धरां प्रावेशयदरिंदमः
७.१३०.३६ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ
मुष्टिनाहत्य संक्रुद्धो ममर्द चरणेन च
७.१३०.३७ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन्
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति
७.१३०.३८एवमुक्त्वापलायन्त सर्वे भारत पार्थिवाः
विसंज्ञावाहयन्वाहान्न च द्वौ सह धावतः
७.१३०.३९ततो बले भृशलुलिते निशामुखे; सुपूजितो नृपवृषभैर्वृकोदरः
महाबलः कमलविबुद्धलोचनो; युधिष्ठिरं नृपतिमपूजयद्बली
७.१३०.४०ततो यमौ द्रुपदविराटकेकया; युधिष्ठिरश्चापि परां मुदं ययुः
वृकोदरं भृशमभिपूजयंश्च ते; यथान्धके प्रतिनिहते हरं सुराः
७.१३०.४१ततः सुतास्तव वरुणात्मजोपमा; रुषान्विताः सह गुरुणा महात्मना
वृकोदरं सरथपदातिकुञ्जरा; युयुत्सवो भृशमभिपर्यवारयन्
७.१३०.४२ततोऽभवत्तिमिरघनैरिवावृतं; महाभये भयदमतीव दारुणम्
निशामुखे बडवृकगृध्रमोदनं; महात्मनां नृपवरयुद्धमद्भुतम्