७.१४०.१संजय उवाच
७.१४०.२वर्तमाने तथा रौद्रे रात्रियुद्धे विशां पते
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः
७.१४०.३अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्च ससोमकान्
अभ्यद्रवत गच्छध्वं द्रोणमेव जिघांसया
७.१४०.४राज्ञस्ते वचनाद्राजन्पाञ्चालाः सोमकास्तथा
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान्
७.१४०.५तान्वयं प्रतिगर्जन्तः प्रत्युद्यातास्त्वमर्षिताः
यथाशक्ति यथोत्साहं यथासत्त्वं च संयुगे
७.१४०.६कृतवर्मा च हार्दिक्यो युधिष्ठिरमुपाद्रवत्
द्रोणं प्रति जिघांसन्तं मत्तो मत्तमिव द्विपम्
७.१४०.७शैनेयं शरवर्षाणि विकिरन्तं समन्ततः
अभ्ययात्कौरवो राजन्भूरिः संग्राममूर्धनि
७.१४०.८सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम्
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम्
७.१४०.९भीमसेनमथायान्तं व्यादितास्यमिवान्तकम्
स्वयं दुर्योधनो युद्धे प्रतीपं मृत्युमाव्रजत्
७.१४०.१०नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम्
शकुनिः सौबलो राजन्वारयामास सत्वरः
७.१४०.११शिखण्डिनमथायान्तं रथेन रथिनां वरम्
कृपो शारद्वतो राजन्वारयामास संयुगे
७.१४०.१२प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः
दुःशासनो महाराज यत्तो यत्तमवारयत्
७.१४०.१३भैमसेनिमथायान्तं मायाशतविशारदम्
अश्वत्थामा पितुर्मानं कुर्वाणः प्रत्यषेधयत्
७.१४०.१४द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम्
वारयामास समरे द्रोणप्रेप्सुं महारथम्
७.१४०.१५विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति
मद्रराजः सुसंक्रुद्धो वारयामास भारत
७.१४०.१६शतानीकमथायान्तं नाकुलिं रभसं रणे
चित्रसेनो रुरोधाशु शरैर्द्रोणवधेप्सया
७.१४०.१७अर्जुनं च युधां श्रेष्ठं प्राद्रवन्तं महारथम्
अलम्बुसो महाराज राक्षसेन्द्रो न्यवारयत्
७.१४०.१८तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत्
७.१४०.१९तथान्यान्पाण्डुपुत्राणां समायातान्महारथान्
तावका रथिनो राजन्वारयामासुरोजसा
७.१४०.२०गजारोहा गजैस्तूर्णं संनिपत्य महामृधे
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः
७.१४०.२१निशीथे तुरगा राजन्नाद्रवन्तः परस्परम्
समदृश्यन्त वेगेन पक्षवन्त इवाद्रयः
७.१४०.२२सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः
समागच्छन्महाराज विनदन्तः पृथक्पृथक्
७.१४०.२३नरास्तु बहवस्तत्र समाजग्मुः परस्परम्
गदाभिर्मुसलैश्चैव नानाशस्त्रैश्च संघशः
७.१४०.२४कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम्
वारयामास संक्रुद्धो वेलेवोद्वृत्तमर्णवम्
७.१४०.२५युधिष्ठिरस्तु हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या तिष्ठ तिष्ठेति चाब्रवीत्
७.१४०.२६कृतवर्मा तु संक्रुद्धो धर्मपुत्रस्य मारिष
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः
७.१४०.२७अथान्यद्धनुरादाय धर्मपुत्रो युधिष्ठिरः
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत्
७.१४०.२८माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः
७.१४०.२९तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्शिलाशितान्
७.१४०.३०ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम्
प्राविशन्धरणीमुग्रा वल्मीकमिव पन्नगाः
७.१४०.३१अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम्
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः
७.१४०.३२तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम्
चिक्षेप भरतश्रेष्ठ रथे न्यस्य महद्धनुः
७.१४०.३३सा हेमचित्रा महती पाण्डवेन प्रवेरिता
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम्
७.१४०.३४एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः
हार्दिक्यं छादयामास शरैः संनतपर्वभिः
७.१४०.३५ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी
व्यश्वसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम्
७.१४०.३६ततस्तु पाण्डवो ज्येष्ठः खड्गचर्म समाददे
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे
७.१४०.३७तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम्
प्रेषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः
७.१४०.३८तमापतन्तं सहसा धर्मराजभुजच्युतम्
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव
७.१४०.३९ततः शरशतेनाजौ धर्मपुत्रमवाकिरत्
कवचं चास्य संक्रुद्धः शरैस्तीक्ष्णैरदारयत्
७.१४०.४०हार्दिक्यशरसंछिन्नं कवचं तन्महात्मनः
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात्
७.१४०.४१स छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः
७.१४०.४२कृतवर्मा तु निर्जित्य धर्मपुत्रं युधिष्ठिरम्
पुनर्द्रोणस्य जुगुपे चक्रमेव महाबलः