७. द्रोणपर्व
७.१५२.१संजय उवाच

७.१५२.२तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे
हर्षमाहारयां चक्रुः कुरवः सर्व एव ते

७.१५२.३तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः
अप्लवाः प्लवमासाद्य तर्तुकामा इवार्णवम्

७.१५२.४पुनर्जातमिवात्मानं मन्वानाः पार्थिवास्तदा
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन्

७.१५२.५तस्मिंस्त्वमानुषे युद्धे वर्तमाने भयावहे
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने

७.१५२.६उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः
तथैव तावका राजन्घूर्णमानास्ततस्ततः

७.१५२.७चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः
तत्कर्म दृष्ट्वा संभ्रान्ता हैडिम्बस्य रणाजिरे

७.१५२.८सर्वमाविग्नमभवद्धाहाभूतमचेतनम्
तव सैन्यं महाराज निराशं कर्णजीविते

७.१५२.९दुर्योधनस्तु संप्रेक्ष्य कर्णमार्तिं परां गतम्
अलायुधं राक्षसेन्द्रमाहूयेदमथाब्रवीत्

७.१५२.१०एष वैकर्तनः कर्णो हैडिम्बेन समागतः
कुरुते कर्म सुमहद्यदस्यौपयिकं मृधे

७.१५२.११पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना

७.१५२.१२तवैष भागः समरे राजमध्ये मया कृतः
तवैवानुमते वीर तं विक्रम्य निबर्हय

७.१५२.१३पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः
मायाबलमुपाश्रित्य कर्शयत्यरिकर्शनः

७.१५२.१४एवमुक्तः स राज्ञा तु राक्षसस्तीव्रविक्रमः
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत्

७.१५२.१५ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो
प्रत्यमित्रमुपायान्तं मर्दयामास मार्गणैः

७.१५२.१६तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः
मत्तयोर्वाशिताहेतोर्द्विपयोरिव कानने

७.१५२.१७रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा

७.१५२.१८तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम्
अलायुधेन समरे सिंहेनेव गवां पतिम्

७.१५२.१९रथेनादित्यवपुषा भीमः प्रहरतां वरः
किरञ्शरौघान्प्रययावलायुधरथं प्रति

७.१५२.२०तमायान्तमभिप्रेक्ष्य स तदालायुधः प्रभो
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत्

७.१५२.२१तं भीमः सहसाभ्येत्य राक्षसान्तकरः प्रभो
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत्

७.१५२.२२तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः
अभ्यवर्षत कौन्तेयं पुनः पुनररिंदमः

७.१५२.२३तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन्
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः

७.१५२.२४स ताड्यमानो बलिभिर्भीमसेनो महाबलः
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः

७.१५२.२५ते वध्यमाना भीमेन राक्षसाः खरयोनयः
विनेदुस्तुमुलान्नादान्दुद्रुवुश्च दिशो दश

७.१५२.२६तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो महाबलम्
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत्

७.१५२.२७तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः
अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत्

७.१५२.२८स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः
गदां चिक्षेप वेगेन वज्रपातोपमां तदा

७.१५२.२९तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः
गदया ताडयामास सा गदा भीममाव्रजत्

७.१५२.३०स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत्
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः

७.१५२.३१ते चापि राक्षसाः सर्वे सैनिका भीमरूपिणः
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान्

७.१५२.३२पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः
न शान्तिं लेभिरे तत्र रक्षसैर्भृशपीडिताः

७.१५२.३३तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवे
अब्रवीत्पुरुषश्रेष्ठो धनंजयमिदं वचः

७.१५२.३४पश्य भीमं महाबाहो राक्षसेन्द्रवशं गतम्
पदवीमस्य गच्छ त्वं मा विचारय पाण्डव

७.१५२.३५धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ
सहिता द्रौपदेयाश्च कर्णं यान्तु महारथाः

७.१५२.३६नकुलः सहदेवश्च युयुधानश्च वीर्यवान्
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव

७.१५२.३७त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम्
वारयस्व नरव्याघ्र महद्धि भयमागतम्

७.१५२.३८एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चेतरान्रणे

७.१५२.३९अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान्

७.१५२.४०हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः
जघान मिषतः संख्ये भीमसेनस्य भारत

७.१५२.४१सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः
तस्मै गुर्वीं गदां घोरां स विनद्योत्ससर्ज ह

७.१५२.४२ततस्तां भीमनिर्घोषामापतन्तीं महागदाम्
गदया राक्षसो घोरो निजघान ननाद च

७.१५२.४३तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम्
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत्

७.१५२.४४तयोः समभवद्युद्धं तुमुलं नररक्षसोः
गदानिपातसंह्रादैर्भुवं कम्पयतोर्भृशम्

७.१५२.४५गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम्
मुष्टिभिर्वज्रसंह्रादैरन्योन्यमभिजघ्नतुः

७.१५२.४६रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः
यथासन्नमुपादाय निजघ्नतुरमर्षणौ

७.१५२.४७तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम्
मत्ताविव महानागावकृष्येतां पुनः पुनः

७.१५२.४८तमपश्यद्धृषीकेशः पाण्डवानां हिते रतः
स भीमसेनरक्षार्थं हैडिम्बं प्रत्यचोदयत्