७. द्रोणपर्व
७.१५३.१संजय उवाच

७.१५३.२संप्रेक्ष्य समरे भीमं रक्षसा ग्रस्तमन्तिकात्
वासुदेवोऽब्रवीद्वाक्यं घटोत्कचमिदं तदा

७.१५३.३पश्य भीमं महाबाहो रक्षसा ग्रस्तमन्तिकात्
पश्यतां सर्वसैन्यानां तव चैव महाद्युते

७.१५३.४स कर्णं त्वं समुत्सृज्य राक्षसेन्द्रमलायुधम्
जहि क्षिप्रं महाबाहो पश्चात्कर्णं वधिष्यसि

७.१५३.५स वार्ष्णेयवचः श्रुत्वा कर्णमुत्सृज्य वीर्यवान्
युयुधे राक्षसेन्द्रेण बकभ्रात्रा घटोत्कचः
तयोः सुतुमुलं युद्धं बभूव निशि रक्षसोः

७.१५३.६अलायुधस्य योधांस्तु राक्षसान्भीमदर्शनान्
वेगेनापततः शूरान्प्रगृहीतशरासनान्

७.१५३.७आत्तायुधः सुसंक्रुद्धो युयुधानो महारथः
नकुलः सहदेवश्च चिच्छिदुर्निशितैः शरैः

७.१५३.८सर्वांश्च समरे राजन्किरीटी क्षत्रियर्षभान्
परिचिक्षेप बीभत्सुः सर्वतः प्रक्षिपञ्शरान्

७.१५३.९कर्णश्च समरे राजन्व्यद्रावयत पार्थिवान्
धृष्टद्युम्नशिखण्ड्यादीन्पाञ्चालानां महारथान्

७.१५३.१०तान्वध्यमानान्दृष्ट्वा तु भीमो भीमपराक्रमः
अभ्ययात्त्वरितः कर्णं विशिखान्विकिरन्रणे

७.१५३.११ततस्तेऽप्याययुर्हत्वा राक्षसान्यत्र सूतजः
नकुलः सहदेवश्च सात्यकिश्च महारथः
ते कर्णं योधयामासुः पाञ्चाला द्रोणमेव च

७.१५३.१२अलायुधस्तु संक्रुद्धो घटोत्कचमरिंदमम्
परिघेणातिकायेन ताडयामास मूर्धनि

७.१५३.१३स तु तेन प्रहारेण भैमसेनिर्महाबलः
ईषन्मूर्छान्वितोऽऽत्मानं संस्तम्भयत वीर्यवान्

७.१५३.१४ततो दीप्ताग्निसंकाशां शतघण्टामलंकृताम्
चिक्षेप समरे तस्मै गदां काञ्चनभूषणाम्

७.१५३.१५सा हयान्सारथिं चैव रथं चास्य महास्वना
चूर्णयामास वेगेन विसृष्टा भीमकर्मणा

७.१५३.१६स भग्नहयचक्राक्षो विशीर्णध्वजकूबरः
उत्पपात रथात्तूर्णं मायामास्थाय राक्षसीम्

७.१५३.१७स समास्थाय मायां तु ववर्ष रुधिरं बहु
विद्युद्विभ्राजितं चासीत्तिमिराभ्राकुलं नभः

७.१५३.१८ततो वज्रनिपाताश्च साशनिस्तनयित्नवः
महांश्चटचटाशब्दस्तत्रासीद्धि महाहवे

७.१५३.१९तां प्रेक्ष्य विहितां मायां राक्षसो राक्षसेन तु
ऊर्ध्वमुत्पत्य हैडिम्बस्तां मायां माययावधीत्

७.१५३.२०सोऽभिवीक्ष्य हतां मायां मायावी माययैव हि
अश्मवर्षं सुतुमुलं विससर्ज घटोत्कचे

७.१५३.२१अश्मवर्षं स तद्घोरं शरवर्षेण वीर्यवान्
दिशो विध्वंसयामास तदद्भुतमिवाभवत्

७.१५३.२२ततो नानाप्रहरणैरन्योन्यमभिवर्षताम्
आयसैः परिघैः शूलैर्गदामुसलमुद्गरैः

७.१५३.२३पिनाकैः करवालैश्च तोमरप्रासकम्पनैः
नाराचैर्निशितैर्भल्लैः शरैश्चक्रैः परश्वधैः

७.१५३.२४अयोगुडैर्भिण्डिपालैर्गोशीर्षोलूखलैरपि
उत्पाट्य च महाशाखैर्विविधैर्जगतीरुहैः

७.१५३.२५शमीपीलुकरीरैश्च शम्याकैश्चैव भारत
इङ्गुदैर्बदरीभिश्च कोविदारैश्च पुष्पितैः

७.१५३.२६पलाशैररिमेदैश्च प्लक्षन्यग्रोधपिप्पलैः
महद्भिः समरे तस्मिन्नन्योन्यमभिजघ्नतुः

७.१५३.२७विविधैः पर्वताग्रैश्च नानाधातुभिराचितैः
तेषां शब्दो महानासीद्वज्राणां भिद्यतामिव

७.१५३.२८युद्धं तदभवद्घोरं भैम्यलायुधयोर्नृप
हरीन्द्रयोर्यथा राजन्वालिसुग्रीवयोः पुरा

७.१५३.२९तौ युद्ध्वा विविधैर्घोरैरायुधैर्विशिखैस्तथा
प्रगृह्य निशितौ खड्गावन्योन्यमभिजघ्नतुः

७.१५३.३०तावन्योन्यमभिद्रुत्य केशेषु सुमहाबलौ
भुजाभ्यां पर्यगृह्णीतां महाकायौ महाबलौ

७.१५३.३१तौ भिन्नगात्रौ प्रस्वेदं सुस्रुवाते जनाधिप
रुधिरं च महाकायावभिवृष्टाविवाचलौ

७.१५३.३२अथाभिपत्य वेगेन समुद्भ्राम्य च राक्षसम्
बलेनाक्षिप्य हैडिम्बश्चकर्तास्य शिरो महत्

७.१५३.३३सोऽपहृत्य शिरस्तस्य कुण्डलाभ्यां विभूषितम्
तदा सुतुमुलं नादं ननाद सुमहाबलः

७.१५३.३४हतं दृष्ट्वा महाकायं बकज्ञातिमरिंदमम्
पाञ्चालाः पाण्डवाश्चैव सिंहनादान्विनेदिरे

७.१५३.३५ततो भेरीसहस्राणि शङ्खानामयुतानि च
अवादयन्पाण्डवेयास्तस्मिन्रक्षसि पातिते

७.१५३.३६अतीव सा निशा तेषां बभूव विजयावहा
विद्योतमाना विबभौ समन्ताद्दीपमालिनी

७.१५३.३७अलायुधस्य तु शिरो भैमसेनिर्महाबलः
दुर्योधनस्य प्रमुखे चिक्षेप गतचेतनम्

७.१५३.३८अथ दुर्योधनो राजा दृष्ट्वा हतमलायुधम्
बभूव परमोद्विग्नः सह सैन्येन भारत

७.१५३.३९तेन ह्यस्य प्रतिज्ञातं भीमसेनमहं युधि
हन्तेति स्वयमागम्य स्मरता वैरमुत्तमम्

७.१५३.४०ध्रुवं स तेन हन्तव्य इत्यमन्यत पार्थिवः
जीवितं चिरकालाय भ्रातॄणां चाप्यमन्यत

७.१५३.४१स तं दृष्ट्वा विनिहतं भीमसेनात्मजेन वै
प्रतिज्ञां भीमसेनस्य पूर्णामेवाभ्यमन्यत