७. द्रोणपर्व
७.१५५.१संजय उवाच

७.१५५.२हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम्
पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः

७.१५५.३वासुदेवस्तु हर्षेण महताभिपरिप्लुतः
ननाद सिंहवन्नादं व्यथयन्निव भारत
विनद्य च महानादं पर्यष्वजत फल्गुनम्

७.१५५.४स विनद्य महानादमभीशून्संनियम्य च
ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः

७.१५५.५ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत्
रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः

७.१५५.६प्रहृष्टमनसं ज्ञात्वा वासुदेवं महाबलम्
अब्रवीदर्जुनो राजन्नातिहृष्टमना इव

७.१५५.७अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन
शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै

७.१५५.८विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम्
वयं च भृशमाविग्ना हैडिम्बस्य निपातनात्

७.१५५.९नैतत्कारणमल्पं हि भविष्यति जनार्दन
तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर

७.१५५.१०यद्येतन्न रहस्यं ते वक्तुमर्हस्यरिंदम
धैर्यस्य वैकृतं ब्रूहि त्वमद्य मधुसूदन

७.१५५.११समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम्
तथैतल्लाघवं मन्ये तव कर्म जनार्दन

७.१५५.१२वासुदेव उवाच

७.१५५.१३अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय
अतीव मनसः सद्यः प्रसादकरमुत्तमम्

७.१५५.१४शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते
कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय

७.१५५.१५शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह
य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे

७.१५५.१६दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः
दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे

७.१५५.१७यदि हि स्यात्सकवचस्तथैव च सकुण्डलः
सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली

७.१५५.१८वासवो वा कुबेरो वा वरुणो वा जलेश्वरः
यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम्

७.१५५.१९गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम्
न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम्

७.१५५.२०त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः
विहीनकवचश्चायं कृतः परपुरंजयः

७.१५५.२१उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते
प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः

७.१५५.२२आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा
तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः

७.१५५.२३यदा प्रभृति कर्णाय शक्तिर्दत्ता महात्मना
वासवेन महाबाहो प्राप्ता यासौ घटोत्कचे

७.१५५.२४कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च
तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे

७.१५५.२५एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित्
ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ

७.१५५.२६ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः
रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः

७.१५५.२७युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः
केसरीव वने मर्दन्मत्तमातङ्गयूथपान्
विमदान्रथशार्दूलान्कुरुते रणमूर्धनि

७.१५५.२८मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम्
त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः
शरजालसहस्रांशुः शरदीव दिवाकरः

७.१५५.२९तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ
दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान्
सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया

७.१५५.३०एको हि योगोऽस्य भवेद्वधाय; छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम्
कृच्छ्रप्राप्तं रथचक्रे निमग्ने; हन्याः पूर्वं त्वं तु संज्ञां विचार्य

७.१५५.३१जरासंधश्चेदिराजो महात्मा; महाबलश्चैकलव्यो निषादः
एकैकशो निहताः सर्व एव; योगैस्तैस्तैस्त्वद्धितार्थं मयैव

७.१५५.३२अथापरे निहता राक्षसेन्द्रा; हिडिम्बकिर्मीरबकप्रधानाः
अलायुधः परसैन्यावमर्दी; घटोत्कचश्चोग्रकर्मा तरस्वी