७. द्रोणपर्व
७.१५७.१धृतराष्ट्र उवाच

७.१५७.२एकवीरवधे मोघा शक्तिः सूतात्मजे यदा
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान्

७.१५७.३तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः
एकवीरवधे कस्मान्न युद्धे जयमादधत्

७.१५७.४आहूतो न निवर्तेयमिति तस्य महाव्रतम्
स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः

७.१५७.५ततो द्वैरथमानीय फल्गुनं शक्रदत्तया
न जघान वृषा कस्मात्तन्ममाचक्ष्व संजय

७.१५७.६नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः
शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन्

७.१५७.७या ह्यस्य परमा शक्तिर्जयस्य च परायणम्
सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे

७.१५७.८कुणेर्यथा हस्तगतं ह्रियेद्बिल्वं बलीयसा
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे

७.१५७.९यथा वराहस्य शुनश्च युध्यतो;स्तयोरभावे श्वपचस्य लाभः
मन्ये विद्वन्वासुदेवस्य तद्व;द्युद्धे लाभः कर्णहैडिम्बयोर्वै

७.१५७.१०घटोत्कचो यदि हन्याद्धि कर्णं; परो लाभः स भवेत्पाण्डवानाम्
वैकर्तनो वा यदि तं निहन्या;त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात्

७.१५७.११इति प्राज्ञः प्रज्ञयैतद्विचार्य; घटोत्कचं सूतपुत्रेण युद्धे
अयोधयद्वासुदेवो नृसिंहः; प्रियं कुर्वन्पाण्डवानां हितं च

७.१५७.१२संजय उवाच

७.१५७.१३एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप
नियोजयामास तदा द्वैरथे राक्षसेश्वरम्

७.१५७.१४घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव

७.१५७.१५तदैव कृतकार्या हि वयं स्याम कुरूद्वह
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात्

७.१५७.१६साश्वध्वजरथः संख्ये धृतराष्ट्र पतेद्भुवि
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम्

७.१५७.१७तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः

७.१५७.१८सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम्
हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः

७.१५७.१९धृतराष्ट्र उवाच

७.१५७.२०विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति

७.१५७.२१तवापि समतिक्रान्तमेतद्गावल्गणे कथम्
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः

७.१५७.२२संजय उवाच

७.१५७.२३दुर्योधनस्य शकुनेर्मम दुःशासनस्य च
रात्रौ रात्रौ भवत्येषा नित्यमेव समर्थना

७.१५७.२४श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम्
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः

७.१५७.२५अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः
स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम्

७.१५७.२६कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः

७.१५७.२७कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः

७.१५७.२८तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज
कृष्णं निकृन्धि पाण्डूनां मूलं सर्वत्र सर्वदा

७.१५७.२९हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम्
कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः

७.१५७.३०यदि हि स निहतः शयीत भूमौ; यदुकुलपाण्डवनन्दनो महात्मा
ननु तव वसुधा नरेन्द्र सर्वा; सगिरिसमुद्रवना वशं व्रजेत

७.१५७.३१सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे
अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत

७.१५७.३२अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे

७.१५७.३३अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो

७.१५७.३४ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः
पप्रच्छ रथशार्दूल कर्णं प्रति महारथम्

७.१५७.३५अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा

७.१५७.३६वासुदेव उवाच

७.१५७.३७दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः

७.१५७.३८कर्ण कर्ण महेष्वास रणेऽमितपराक्रम
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर

७.१५७.३९ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात्
स हि तेषामतियशा देवानामिव वासवः

७.१५७.४०तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः

७.१५७.४१तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव
हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः

७.१५७.४२अहमेव तु राधेयं मोहयामि युधां वर
यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने

७.१५७.४३फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः
न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर

७.१५७.४४घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव
मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम्

७.१५७.४५न पिता न च मे माता न यूयं भ्रातरस्तथा
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे

७.१५७.४६त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम्
नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम्

७.१५७.४७अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत्
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम्

७.१५७.४८अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम्

७.१५७.४९संजय उवाच

७.१५७.५०इति सात्यकये प्राह तदा देवकिनन्दनः
धनंजयहिते युक्तस्तत्प्रिये सततं रतः