७. द्रोणपर्व
७.१६७.१संजय उवाच

७.१६७.२प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्

७.१६७.३चचाल पृथिवी चापि चुक्षुभे च महोदधिः
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः

७.१६७.४शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत
अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे

७.१६७.५तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत्
संपतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्

७.१६७.६देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते
कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत्

७.१६७.७व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः
तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम्

७.१६७.८धृतराष्ट्र उवाच

७.१६७.९निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे
भृशं शोकाभितप्तेन पितुर्वधममृष्यता

७.१६७.१०कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व संजय

७.१६७.११संजय उवाच

७.१६७.१२प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः
पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत

७.१६७.१३आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे
निहते वज्रहस्तेन यथा वृत्रे महासुरे

७.१६७.१४नाशंसन्त जयं युद्धे दीनात्मानो धनंजय
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा

७.१६७.१५केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः

७.१६७.१६भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः
युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः

७.१६७.१७गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश

७.१६७.१८विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः
संछिन्ना नेमिषु गता मृदिताश्च हयद्विपैः

७.१६७.१९क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात्
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः

७.१६७.२०पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्
जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि

७.१६७.२१अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्
पुनरावर्तितं केन यदि जानासि शंस मे

७.१६७.२२हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम्
रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान्

७.१६७.२३एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे
मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान्

७.१६७.२४य एष तुमुलः शब्दः श्रूयते लोमहर्षणः
सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम

७.१६७.२५मन्ये वज्रधरस्यैष निनादो भैरवस्वनः
द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः

७.१६७.२६प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः
धनंजय गुरुं श्रुत्वा तत्र नादं सुभीषणम्

७.१६७.२७क एष कौरवान्दीर्णानवस्थाप्य महारथः
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा

७.१६७.२८अर्जुन उवाच

७.१६७.२९उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः
धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः

७.१६७.३०यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते
धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह

७.१६७.३१ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्
व्याख्यास्याम्युग्रकर्माणं कुरूणामभयंकरम्

७.१६७.३२यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति

७.१६७.३३जातमात्रेण वीरेण येनोच्चैःश्रवसा इव
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः

७.१६७.३४तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव

७.१६७.३५योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः

७.१६७.३६गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्
तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः

७.१६७.३७उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः

७.१६७.३८सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि

७.१६७.३९स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्
आचार्य उक्तो भवता हतः कुञ्जर इत्युत

७.१६७.४०ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः
आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः

७.१६७.४१स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः

७.१६७.४२न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्
रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम्

७.१६७.४३ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्

७.१६७.४४सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे

७.१६७.४५विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि
अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः

७.१६७.४६यदा गतं वयो भूयः शिष्टमल्पतरं च नः
तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान्

७.१६७.४७पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः
सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः

७.१६७.४८धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः

७.१६७.४९स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः
अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः

७.१६७.५०अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः

७.१६७.५१तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः
कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः

७.१६७.५२पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः
त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः

७.१६७.५३स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः
तस्मादवाक्शिरा राजन्प्राप्तोऽस्मि नरकं विभो

७.१६७.५४ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम्
घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम्