७. द्रोणपर्व
७.३४.१संजय उवाच

७.३४.२तदनीकमनाधृष्यं भारद्वाजेन रक्षितम्
पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः

७.३४.३सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः
कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः

७.३४.४आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान्
चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः

७.३४.५युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः
उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः

७.३४.६द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान्
केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः

७.३४.७एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः
समभ्यधावन्सहसा भारद्वाजं युयुत्सवः

७.३४.८समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान्
असंभ्रान्तः शरौघेण महता समवारयत्

७.३४.९महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम्
द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः

७.३४.१०पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः
न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः

७.३४.११तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम्
यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह

७.३४.१२तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः
बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम्

७.३४.१३अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः
अविषह्यं गुरुं भारं सौभद्रे समवासृजत्

७.३४.१४वासुदेवादनवरं फल्गुनाच्चामितौजसम्
अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः

७.३४.१५एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु
चक्रव्यूहस्य न वयं विद्म भेदं कथंचन

७.३४.१६त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा
चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते

७.३४.१७अभिमन्यो वरं तात याचतां दातुमर्हसि
पितॄणां मातुलानां च सैन्यानां चैव सर्वशः

७.३४.१८धनंजयो हि नस्तात गर्हयेदेत्य संयुगात्
क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय

७.३४.१९अभिमन्युरुवाच

७.३४.२०द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि
पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च

७.३४.२१उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने
नोत्सहे तु विनिर्गन्तुमहं कस्यांचिदापदि

७.३४.२२युधिष्ठिर उवाच

७.३४.२३भिन्ध्यनीकं युधा श्रेष्ठ द्वारं संजनयस्व नः
वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि

७.३४.२४धनंजयसमं युद्धे त्वां वयं तात संयुगे
प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः

७.३४.२५भीम उवाच

७.३४.२६अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः
पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः

७.३४.२७सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः
वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान्

७.३४.२८अभिमन्युरुवाच

७.३४.२९अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम्
पतंग इव संक्रुद्धो ज्वलितं जातवेदसम्

७.३४.३०तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः
मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे

७.३४.३१शिशुनैकेन संग्रामे काल्यमानानि संघशः
अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया

७.३४.३२युधिष्ठिर उवाच

७.३४.३३एवं ते भाषमाणस्य बलं सौभद्र वर्धताम्
यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम्

७.३४.३४रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः
साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः

७.३४.३५संजय उवाच

७.३४.३६तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत्
सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय