७.३५.१संजय उवाच
७.३५.२सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः
अचोदयत यन्तारं द्रोणानीकाय भारत
७.३५.३तेन संचोद्यमानस्तु याहि याहीति सारथिः
प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः
७.३५.४अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः
संप्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि
७.३५.५आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः
अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः
७.३५.६ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत्
सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा
७.३५.७ऐरावतगतं शक्रं सहामरगणैरहम्
योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः
न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम्
७.३५.८अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज
पितरं चार्जुनं संख्ये न भीर्मामुपयास्यति
७.३५.९ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः
याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम्
७.३५.१०ततः संचोदयामास हयानस्य त्रिहायनान्
नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान्
७.३५.११ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः
द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः
७.३५.१२तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः
अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः
७.३५.१३स कर्णिकारप्रवरोच्छ्रितध्वजः; सुवर्णवर्मार्जुनिरर्जुनाद्वरः
युयुत्सया द्रोणमुखान्महारथा;न्समासदत्सिंहशिशुर्यथा गजान्
७.३५.१४ते विंशतिपदे यत्ताः संप्रहारं प्रचक्रिरे
आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव
७.३५.१५शूराणां युध्यमानानां निघ्नतामितरेतरम्
संग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः
७.३५.१६प्रवर्तमाने संग्रामे तस्मिन्नतिभयंकरे
द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः
७.३५.१७तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम्
हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः
७.३५.१८नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः
हुंकारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः
७.३५.१९घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति
असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः
७.३५.२०बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि
संनादयन्तो वसुधामभिदुद्रुवुरार्जुनिम्
७.३५.२१तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम्
क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः
७.३५.२२ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः
अभिपेतुस्तमेवाजौ शलभा इव पावकम्
७.३५.२३ततस्तेषां शरीरैश्च शरीरावयवैश्च सः
संतस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे
७.३५.२४बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान्
सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान्
७.३५.२५सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान्
सभिण्डिपालपरिघान्सशक्तिवरकम्पनान्
७.३५.२६सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान्
समुद्गरक्षेपणीयान्सपाशपरिघोपलान्
७.३५.२७सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान्
संचिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः
७.३५.२८तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः
पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष
७.३५.२९सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः
संदष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु
७.३५.३०चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः
विनालनलिनाकारैर्दिवाकरशशिप्रभैः
७.३५.३१हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः
द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः
७.३५.३२गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्
वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान्
७.३५.३३विजङ्घकूबराक्षांश्च विनेमीननरानपि
विचक्रोपस्करोपस्थान्भग्नोपकरणानपि
७.३५.३४प्रशातितोपकरणान्हतयोधान्सहस्रशः
शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत
७.३५.३५पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान्
तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान्
७.३५.३६घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान्
शरैर्निशितधाराग्रैः शात्रवाणामशातयत्
७.३५.३७वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान्
स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः
७.३५.३८स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः
विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान्
७.३५.३९निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान्
हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान्
७.३५.४०निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान्
निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत
७.३५.४१एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम्
तथा विमथितं तेन त्र्यङ्गं तव बलं महत्
व्यहनत्स पदात्योघांस्त्वदीयानेव भारत
७.३५.४२एवमेकेन तां सेनां सौभद्रेण शितैः शरैः
भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम्
७.३५.४३त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश
संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः
७.३५.४४पलायनकृतोत्साहा निरुत्साहा द्विषज्जये
गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः
७.३५.४५हतान्पुत्रांस्तथा पितॄन्सुहृत्संबन्धिबान्धवान्
प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान्