७. द्रोणपर्व
७.४१.१धृतराष्ट्र उवाच

७.४१.२बालमत्यन्तसुखिनमवार्यबलदर्पितम्
युद्धेषु कुशलं वीरं कुलपुत्रं तनुत्यजम्

७.४१.३गाहमानमनीकानि सदश्वैस्तं त्रिहायनैः
अपि यौधिष्ठिरात्सैन्यात्कश्चिदन्वपतद्रथी

७.४१.४संजय उवाच

७.४१.५युधिष्ठिरो भीमसेनः शिखण्डी सात्यकिर्यमौ
धृष्टद्युम्नो विराटश्च द्रुपदश्च सकेकयः
धृष्टकेतुश्च संरब्धो मत्स्याश्चान्वपतन्रणे

७.४१.६अभ्यद्रवन्परीप्सन्तो व्यूढानीकाः प्रहारिणः
तान्दृष्ट्वा द्रवतः शूरांस्त्वदीया विमुखाभवन्

७.४१.७ततस्तद्विमुखं दृष्ट्वा तव सूनोर्महद्बलम्
जामाता तव तेजस्वी विष्टम्भयिषुराद्रवत्

७.४१.८सैन्धवस्य महाराज पुत्रो राजा जयद्रथः
स पुत्रगृद्धिनः पार्थान्सहसैन्यानवारयत्

७.४१.९उग्रधन्वा महेष्वासो दिव्यमस्त्रमुदीरयन्
वार्धक्षत्रिरुपासेधत्प्रवणादिव कुञ्जरान्

७.४१.१०धृतराष्ट्र उवाच

७.४१.११अतिभारमहं मन्ये सैन्धवे संजयाहितम्
यदेकः पाण्डवान्क्रुद्धान्पुत्रगृद्धीनवारयत्

७.४१.१२अत्यद्भुतमिदं मन्ये बलं शौर्यं च सैन्धवे
तदस्य ब्रूहि मे वीर्यं कर्म चाग्र्यं महात्मनः

७.४१.१३किं दत्तं हुतमिष्टं वा सुतप्तमथ वा तपः
सिन्धुराजेन येनैकः क्रुद्धान्पार्थानवारयत्

७.४१.१४संजय उवाच

७.४१.१५द्रौपदीहरणे यत्तद्भीमसेनेन निर्जितः
मानात्स तप्तवान्राजा वरार्थी सुमहत्तपः

७.४१.१६इन्द्रियाणीन्द्रियार्थेभ्यः प्रियेभ्यः संनिवर्त्य सः
क्षुत्पिपासातपसहः कृशो धमनिसंततः
देवमाराधयच्छर्वं गृणन्ब्रह्म सनातनम्

७.४१.१७भक्तानुकम्पी भगवांस्तस्य चक्रे ततो दयाम्
स्वप्नान्तेऽप्यथ चैवाह हरः सिन्धुपतेः सुतम्
वरं वृणीष्व प्रीतोऽस्मि जयद्रथ किमिच्छसि

७.४१.१८एवमुक्तस्तु शर्वेण सिन्धुराजो जयद्रथः
उवाच प्रणतो रुद्रं प्राञ्जलिर्नियतात्मवान्

७.४१.१९पाण्डवेयानहं संख्ये भीमवीर्यपराक्रमान्
एको रणे धारयेयं समस्तानिति भारत

७.४१.२०एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत्
ददामि ते वरं सौम्य विना पार्थं धनंजयम्

७.४१.२१धारयिष्यसि संग्रामे चतुरः पाण्डुनन्दनान्
एवमस्त्विति देवेशमुक्त्वाबुध्यत पार्थिवः

७.४१.२२स तेन वरदानेन दिव्येनास्त्रबलेन च
एकः संधारयामास पाण्डवानामनीकिनीम्

७.४१.२३तस्य ज्यातलघोषेण क्षत्रियान्भयमाविशत्
परांस्तु तव सैन्यस्य हर्षः परमकोऽभवत्

७.४१.२४दृष्ट्वा तु क्षत्रिया भारं सैन्धवे सर्वमर्पितम्
उत्क्रुश्याभ्यद्रवन्राजन्येन यौधिष्ठिरं बलम्