७.४०.१संजय उवाच
७.४०.२सोऽभिगर्जन्धनुष्पाणिर्ज्यां विकर्षन्पुनः पुनः
तयोर्महात्मनोस्तूर्णं रथान्तरमवापतत्
७.४०.३सोऽविध्यद्दशभिर्बाणैरभिमन्युं दुरासदम्
सच्छत्रध्वजयन्तारं साश्वमाशु स्मयन्निव
७.४०.४पितृपैतामहं कर्म कुर्वाणमतिमानुषम्
दृष्ट्वार्दितं शरैः कार्ष्णिं त्वदीया हृषिताभवन्
७.४०.५तस्याभिमन्युरायम्य स्मयन्नेकेन पत्रिणा
शिरः प्रच्यावयामास स रथात्प्रापतद्भुवि
७.४०.६कर्णिकारमिवोद्धूतं वातेन मथितं नगात्
भ्रातरं निहतं दृष्ट्वा राजन्कर्णो व्यथां ययौ
७.४०.७विमुखीकृत्य कर्णं तु सौभद्रः कङ्कपत्रिभिः
अन्यानपि महेष्वासांस्तूर्णमेवाभिदुद्रुवे
७.४०.८ततस्तद्विततं जालं हस्त्यश्वरथपत्तिमत्
झषः क्रुद्ध इवाभिन्ददभिमन्युर्महायशाः
७.४०.९कर्णस्तु बहुभिर्बाणैरर्द्यमानोऽभिमन्युना
अपायाज्जवनैरश्वैस्ततोऽनीकमभिद्यत
७.४०.१०शलभैरिव चाकाशे धाराभिरिव चावृते
अभिमन्योः शरै राजन्न प्राज्ञायत किंचन
७.४०.११तावकानां तु योधानां वध्यतां निशितैः शरैः
अन्यत्र सैन्धवाद्राजन्न स्म कश्चिदतिष्ठत
७.४०.१२सौभद्रस्तु ततः शङ्खं प्रध्माप्य पुरुषर्षभः
शीघ्रमभ्यपतत्सेनां भारतीं भरतर्षभ
७.४०.१३स कक्षेऽग्निरिवोत्सृष्टो निर्दहंस्तरसा रिपून्
मध्ये भारतसैन्यानामार्जुनिः पर्यवर्तत
७.४०.१४रथनागाश्वमनुजानर्दयन्निशितैः शरैः
स प्रविश्याकरोद्भूमिं कबन्धगणसंकुलाम्
७.४०.१५सौभद्रचापप्रभवैर्निकृत्ताः परमेषुभिः
स्वानेवाभिमुखान्घ्नन्तः प्राद्रवञ्जीवितार्थिनः
७.४०.१६ते घोरा रौद्रकर्माणो विपाठाः पृथवः शिताः
निघ्नन्तो रथनागाश्वाञ्जग्मुराशु वसुंधराम्
७.४०.१७सायुधाः साङ्गुलित्राणाः सखड्गाः साङ्गदा रणे
दृश्यन्ते बाहवश्छिन्ना हेमाभरणभूषिताः
७.४०.१८शराश्चापानि खड्गाश्च शरीराणि शिरांसि च
सकुण्डलानि स्रग्वीणि भूमावासन्सहस्रशः
७.४०.१९अपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः
अक्षैर्विमथितैश्चक्रैर्भग्नैश्च बहुधा रथैः
शक्तिचापायुधैश्चापि पतितैश्च महाध्वजैः
७.४०.२०निहतैः क्षत्रियैरश्वैर्वारणैश्च विशां पते
अगम्यकल्पा पृथिवी क्षणेनासीत्सुदारुणा
७.४०.२१वध्यतां राजपुत्राणां क्रन्दतामितरेतरम्
प्रादुरासीन्महाशब्दो भीरूणां भयवर्धनः
स शब्दो भरतश्रेष्ठ दिशः सर्वा व्यनादयत्
७.४०.२२सौभद्रश्चाद्रवत्सेनां निघ्नन्नश्वरथद्विपान्
व्यचरत्स दिशः सर्वाः प्रदिशश्चाहितान्रुजन्
७.४०.२३तं तदा नानुपश्याम सैन्येन रजसावृतम्
आददानं गजाश्वानां नृणां चायूंषि भारत
७.४०.२४क्षणेन भूयोऽपश्याम सूर्यं मध्यंदिने यथा
अभिमन्युं महाराज प्रतपन्तं द्विषद्गणान्
७.४०.२५स वासवसमः संख्ये वासवस्यात्मजात्मजः
अभिमन्युर्महाराज सैन्यमध्ये व्यरोचत