७. द्रोणपर्व
७.४४.१संजय उवाच

७.४४.२आददानस्तु शूराणामायूंष्यभवदार्जुनिः
अन्तकः सर्वभूतानां प्राणान्काल इवागते

७.४४.३स शक्र इव विक्रान्तः शक्रसूनोः सुतो बली
अभिमन्युस्तदानीकं लोडयन्बह्वशोभत

७.४४.४प्रविश्यैव तु राजेन्द्र क्षत्रियेन्द्रान्तकोपमः
सत्यश्रवसमादत्त व्याघ्रो मृगमिवोल्बणम्

७.४४.५सत्यश्रवसि चाक्षिप्ते त्वरमाणा महारथाः
प्रगृह्य विपुलं शस्त्रमभिमन्युमुपाद्रवन्

७.४४.६अहं पूर्वमहं पूर्वमिति क्षत्रियपुंगवाः
स्पर्धमानाः समाजग्मुर्जिघांसन्तोऽर्जुनात्मजम्

७.४४.७क्षत्रियाणामनीकानि प्रद्रुतान्यभिधावताम्
जग्रास तिमिरासाद्य क्षुद्रमत्स्यानिवार्णवे

७.४४.८ये केचन गतास्तस्य समीपमपलायिनः
न ते प्रतिन्यवर्तन्त समुद्रादिव सिन्धवः

७.४४.९महाग्राहगृहीतेव वातवेगभयार्दिता
समकम्पत सा सेना विभ्रष्टा नौरिवार्णवे

७.४४.१०अथ रुक्मरथो नाम मद्रेश्वरसुतो बली
त्रस्तामाश्वासयन्सेनामत्रस्तो वाक्यमब्रवीत्

७.४४.११अलं त्रासेन वः शूरा नैष कश्चिन्मयि स्थिते
अहमेनं ग्रहीष्यामि जीवग्राहं न संशयः

७.४४.१२एवमुक्त्वा तु सौभद्रमभिदुद्राव वीर्यवान्
सुकल्पितेनोह्यमानः स्यन्दनेन विराजता

७.४४.१३सोऽभिमन्युं त्रिभिर्बाणैर्विद्ध्वा वक्षस्यथानदत्
त्रिभिश्च दक्षिणे बाहौ सव्ये च निशितैस्त्रिभिः

७.४४.१४स तस्येष्वसनं छित्त्वा फाल्गुणिः सव्यदक्षिणौ
भुजौ शिरश्च स्वक्षिभ्रु क्षितौ क्षिप्रमपातयत्

७.४४.१५दृष्ट्वा रुक्मरथं रुग्णं पुत्रं शल्यस्य मानिनम्
जीवग्राहं जिघृक्षन्तं सौभद्रेण यशस्विना

७.४४.१६संग्रामदुर्मदा राजन्राजपुत्राः प्रहारिणः
वयस्याः शल्यपुत्रस्य सुवर्णविकृतध्वजाः

७.४४.१७तालमात्राणि चापानि विकर्षन्तो महारथाः
आर्जुनिं शरवर्षेण समन्तात्पर्यवारयन्

७.४४.१८शूरैः शिक्षाबलोपेतैस्तरुणैरत्यमर्षणैः
दृष्ट्वैकं समरे शूरं सौभद्रमपराजितम्

७.४४.१९छाद्यमानं शरव्रातैर्हृष्टो दुर्योधनोऽभवत्
वैवस्वतस्य भवनं गतमेनममन्यत

७.४४.२०सुवर्णपुङ्खैरिषुभिर्नानालिङ्गैस्त्रिभिस्त्रिभिः
अदृश्यमार्जुनिं चक्रुर्निमेषात्ते नृपात्मजाः

७.४४.२१ससूताश्वध्वजं तस्य स्यन्दनं तं च मारिष
आचितं समपश्याम श्वाविधं शललैरिव

७.४४.२२स गाढविद्धः क्रुद्धश्च तोत्त्रैर्गज इवार्दितः
गान्धर्वमस्त्रमायच्छद्रथमायां च योजयत्

७.४४.२३अर्जुनेन तपस्तप्त्वा गन्धर्वेभ्यो यदाहृतम्
तुम्बुरुप्रमुखेभ्यो वै तेनामोहयताहितान्

७.४४.२४एकः स शतधा राजन्दृश्यते स्म सहस्रधा
अलातचक्रवत्संख्ये क्षिप्रमस्त्राणि दर्शयन्

७.४४.२५रथचर्यास्त्रमायाभिर्मोहयित्वा परंतपः
बिभेद शतधा राजञ्शरीराणि महीक्षिताम्

७.४४.२६प्राणाः प्राणभृतां संख्ये प्रेषिता निशितैः शरैः
राजन्प्रापुरमुं लोकं शरीराण्यवनिं ययुः

७.४४.२७धनूंष्यश्वान्नियन्तॄंश्च ध्वजान्बाहूंश्च साङ्गदान्
शिरांसि च शितैर्भल्लैस्तेषां चिच्छेद फाल्गुनिः

७.४४.२८चूतारामो यथा भग्नः पञ्चवर्षफलोपगः
राजपुत्रशतं तद्वत्सौभद्रेणापतद्धतम्

७.४४.२९क्रुद्धाशीविषसंकाशान्सुकुमारान्सुखोचितान्
एकेन निहतान्दृष्ट्वा भीतो दुर्योधनोऽभवत्

७.४४.३०रथिनः कुञ्जरानश्वान्पदातींश्चावमर्दितान्
दृष्ट्वा दुर्योधनः क्षिप्रमुपायात्तममर्षितः

७.४४.३१तयोः क्षणमिवापूर्णः संग्रामः समपद्यत
अथाभवत्ते विमुखः पुत्रः शरशतार्दितः