७.४८.१संजय उवाच
७.४८.२विष्णोः स्वसानन्दिकरः स विष्ण्वायुधभूषितः
रराजातिरथः संख्ये जनार्दन इवापरः
७.४८.३मारुतोद्धूतकेशान्तमुद्यतारिवरायुधम्
वपुः समीक्ष्य पृथ्वीशा दुःसमीक्ष्यं सुरैरपि
७.४८.४तच्चक्रं भृशमुद्विग्नाः संचिच्छिदुरनेकधा
महारथस्ततः कार्ष्णिः संजग्राह महागदाम्
७.४८.५विधनुःस्यन्दनासिस्तैर्विचक्रश्चारिभिः कृतः
अभिमन्युर्गदापाणिरश्वत्थामानमाद्रवत्
७.४८.६स गदामुद्यतां दृष्ट्वा ज्वलन्तीमशनीमिव
अपाक्रामद्रथोपस्थाद्विक्रमांस्त्रीन्नरर्षभः
७.४८.७तस्याश्वान्गदया हत्वा तथोभौ पार्ष्णिसारथी
शराचिताङ्गः सौभद्रः श्वाविद्वत्प्रत्यदृश्यत
७.४८.८ततः सुबलदायादं कालकेयमपोथयत्
जघान चास्यानुचरान्गान्धारान्सप्तसप्ततिम्
७.४८.९पुनर्ब्रह्मवसातीयाञ्जघान रथिनो दश
केकयानां रथान्सप्त हत्वा च दश कुञ्जरान्
दौःशासनिरथं साश्वं गदया समपोथयत्
७.४८.१०ततो दौःशासनिः क्रुद्धो गदामुद्यम्य मारिष
अभिदुद्राव सौभद्रं तिष्ठ तिष्ठेति चाब्रवीत्
७.४८.११तावुद्यतगदौ वीरावन्योन्यवधकाङ्क्षिणौ
भ्रातृव्यौ संप्रजह्राते पुरेव त्र्यम्बकान्तकौ
७.४८.१२तावन्योन्यं गदाग्राभ्यां संहत्य पतितौ क्षितौ
इन्द्रध्वजाविवोत्सृष्टौ रणमध्ये परंतपौ
७.४८.१३दौःशासनिरथोत्थाय कुरूणां कीर्तिवर्धनः
प्रोत्तिष्ठमानं सौभद्रं गदया मूर्ध्न्यताडयत्
७.४८.१४गदावेगेन महता व्यायामेन च मोहितः
विचेता न्यपतद्भूमौ सौभद्रः परवीरहा
एवं विनिहतो राजन्नेको बहुभिराहवे
७.४८.१५क्षोभयित्वा चमूं सर्वां नलिनीमिव कुञ्जरः
अशोभत हतो वीरो व्याधैर्वनगजो यथा
७.४८.१६तं तथा पतितं शूरं तावकाः पर्यवारयन्
दावं दग्ध्वा यथा शान्तं पावकं शिशिरात्यये
७.४८.१७विमृद्य तरुशृङ्गाणि संनिवृत्तमिवानिलम्
अस्तं गतमिवादित्यं तप्त्वा भारतवाहिनीम्
७.४८.१८उपप्लुतं यथा सोमं संशुष्कमिव सागरम्
पूर्णचन्द्राभवदनं काकपक्षवृताक्षकम्
७.४८.१९तं भूमौ पतितं दृष्ट्वा तावकास्ते महारथाः
मुदा परमया युक्ताश्चुक्रुशुः सिंहवन्मुहुः
७.४८.२०आसीत्परमको हर्षस्तावकानां विशां पते
इतरेषां तु वीराणां नेत्रेभ्यः प्रापतज्जलम्
७.४८.२१अभिक्रोशन्ति भूतानि अन्तरिक्षे विशां पते
दृष्ट्वा निपतितं वीरं च्युतं चन्द्रमिवाम्बरात्
७.४८.२२द्रोणकर्णमुखैः षड्भिर्धार्तराष्ट्रैर्महारथैः
एकोऽयं निहतः शेते नैष धर्मो मतो हि नः
७.४८.२३तस्मिंस्तु निहते वीरे बह्वशोभत मेदिनी
द्यौर्यथा पूर्णचन्द्रेण नक्षत्रगणमालिनी
७.४८.२४रुक्मपुङ्खैश्च संपूर्णा रुधिरौघपरिप्लुता
उत्तमाङ्गैश्च वीराणां भ्राजमानैः सकुण्डलैः
७.४८.२५विचित्रैश्च परिस्तोमैः पताकाभिश्च संवृता
चामरैश्च कुथाभिश्च प्रविद्धैश्चाम्बरोत्तमैः
७.४८.२६रथाश्वनरनागानामलंकारैश्च सुप्रभैः
खड्गैश्च निशितैः पीतैर्निर्मुक्तैर्भुजगैरिव
७.४८.२७चापैश्च विशिखैश्छिन्नैः शक्त्यृष्टिप्रासकम्पनैः
विविधैरायुधैश्चान्यैः संवृता भूरशोभत
७.४८.२८वाजिभिश्चापि निर्जीवैः स्वपद्भिः शोणितोक्षितैः
सारोहैर्विषमा भूमिः सौभद्रेण निपातितैः
७.४८.२९साङ्कुशैः समहामात्रैः सवर्मायुधकेतुभिः
पर्वतैरिव विध्वस्तैर्विशिखोन्मथितैर्गजैः
७.४८.३०पृथिव्यामनुकीर्णैश्च व्यश्वसारथियोधिभिः
ह्रदैरिव प्रक्षुभितैर्हतनागै रथोत्तमैः
७.४८.३१पदातिसंघैश्च हतैर्विविधायुधभूषणैः
भीरूणां त्रासजननी घोररूपाभवन्मही
७.४८.३२तं दृष्ट्वा पतितं भूमौ चन्द्रार्कसदृशद्युतिम्
तावकानां परा प्रीतिः पाण्डूनां चाभवद्व्यथा
७.४८.३३अभिमन्यौ हते राजञ्शिशुकेऽप्राप्तयौवने
संप्राद्रवच्चमूः सर्वा धर्मराजस्य पश्यतः
७.४८.३४दीर्यमाणं बलं दृष्ट्वा सौभद्रे विनिपातिते
अजातशत्रुः स्वान्वीरानिदं वचनमब्रवीत्
७.४८.३५स्वर्गमेष गतः शूरो यो हतो नपराङ्मुखः
संस्तम्भयत मा भैष्ट विजेष्यामो रणे रिपून्
७.४८.३६इत्येवं स महातेजा दुःखितेभ्यो महाद्युतिः
धर्मराजो युधां श्रेष्ठो ब्रुवन्दुःखमपानुदत्
७.४८.३७युद्धे ह्याशीविषाकारान्राजपुत्रान्रणे बहून्
पूर्वं निहत्य संग्रामे पश्चादार्जुनिरन्वगात्
७.४८.३८हत्वा दशसहस्राणि कौसल्यं च महारथम्
कृष्णार्जुनसमः कार्ष्णिः शक्रसद्म गतो ध्रुवम्
७.४८.३९रथाश्वनरमातङ्गान्विनिहत्य सहस्रशः
अवितृप्तः स संग्रामादशोच्यः पुण्यकर्मकृत्
७.४८.४०वयं तु प्रवरं हत्वा तेषां तैः शरपीडिताः
निवेशायाभ्युपायाम सायाह्ने रुधिरोक्षिताः
७.४८.४१निरीक्षमाणास्तु वयं परे चायोधनं शनैः
अपयाता महाराज ग्लानिं प्राप्ता विचेतसः
७.४८.४२ततो निशाया दिवसस्य चाशिवः; शिवारुतः संधिरवर्तताद्भुतः
कुशेशयापीडनिभे दिवाकरे; विलम्बमानेऽस्तमुपेत्य पर्वतम्
७.४८.४३वरासिशक्त्यृष्टिवरूथचर्मणां; विभूषणानां च समाक्षिपन्प्रभाम्
दिवं च भूमिं च समानयन्निव; प्रियां तनुं भानुरुपैति पावकम्
७.४८.४४महाभ्रकूटाचलशृङ्गसंनिभै;र्गजैरनेकैरिव वज्रपातितैः
सवैजयन्त्यङ्कुशवर्मयन्तृभि;र्निपातितैर्निष्टनतीव गौश्चिता
७.४८.४५हतेश्वरैश्चूर्णितपत्त्युपस्करै;र्हताश्वसूतैर्विपताककेतुभिः
महारथैर्भूः शुशुभे विचूर्णितैः; पुरैरिवामित्रहतैर्नराधिप
७.४८.४६रथाश्ववृन्दैः सहसादिभिर्हतैः; प्रविद्धभाण्डाभरणैः पृथग्विधैः
निरस्तजिह्वादशनान्त्रलोचनै;र्धरा बभौ घोरविरूपदर्शना
७.४८.४७प्रविद्धवर्माभरणा वरायुधा; विपन्नहस्त्यश्वरथानुगा नराः
महार्हशय्यास्तरणोचिताः सदा; क्षितावनाथा इव शेरते हताः
७.४८.४८अतीव हृष्टाः श्वसृगालवायसा; बडाः सुपर्णाश्च वृकास्तरक्षवः
वयांस्यसृक्पान्यथ रक्षसां गणाः; पिशाचसंघाश्च सुदारुणा रणे
७.४८.४९त्वचो विनिर्भिद्य पिबन्वसामसृ;क्तथैव मज्जां पिशितानि चाश्नुवन्
वपां विलुम्पन्ति हसन्ति गान्ति च; प्रकर्षमाणाः कुणपान्यनेकशः
७.४८.५०शरीरसंघाटवहा असृग्जला; रथोडुपा कुञ्जरशैलसंकटा
मनुष्यशीर्षोपलमांसकर्दमा; प्रविद्धनानाविधशस्त्रमालिनी
७.४८.५१महाभया वैतरणीव दुस्तरा; प्रवर्तिता योधवरैस्तदा नदी
उवाह मध्येन रणाजिरं भृशं; भयावहा जीवमृतप्रवाहिनी
७.४८.५२पिबन्ति चाश्नन्ति च यत्र दुर्दृशाः; पिशाचसंघा विविधाः सुभैरवाः
सुनन्दिताः प्राणभृतां भयंकराः; समानभक्षाः श्वसृगालपक्षिणः
७.४८.५३तथा तदायोधनमुग्रदर्शनं; निशामुखे पितृपतिराष्ट्रसंनिभम्
निरीक्षमाणाः शनकैर्जहुर्नराः; समुत्थितारुण्डकुलोपसंकुलम्
७.४८.५४अपेतविध्वस्तमहार्हभूषणं; निपातितं शक्रसमं महारथम्
रणेऽभिमन्युं ददृशुस्तदा जना; व्यपोढहव्यं सदसीव पावकम्