७. द्रोणपर्व
७.४७.१संजय उवाच

७.४७.२स कर्णं कर्णिना कर्णे पुनर्विव्याध फाल्गुनिः
शरैः पञ्चाशता चैनमविध्यत्कोपयन्भृशम्

७.४७.३प्रतिविव्याध राधेयस्तावद्भिरथ तं पुनः
स तैराचितसर्वाङ्गो बह्वशोभत भारत

७.४७.४कर्णं चाप्यकरोत्क्रुद्धो रुधिरोत्पीडवाहिनम्
कर्णोऽपि विबभौ शूरः शरैश्चित्रोऽसृगाप्लुतः

७.४७.५तावुभौ शरचित्राङ्गौ रुधिरेण समुक्षितौ
बभूवतुर्महात्मानौ पुष्पिताविव किंशुकौ

७.४७.६अथ कर्णस्य सचिवान्षट्शूरांश्चित्रयोधिनः
साश्वसूतध्वजरथान्सौभद्रो निजघान ह

७.४७.७अथेतरान्महेष्वासान्दशभिर्दशभिः शरैः
प्रत्यविध्यदसंभ्रान्तस्तदद्भुतमिवाभवत्

७.४७.८मागधस्य पुनः पुत्रं हत्वा षड्भिरजिह्मगैः
साश्वं ससूतं तरुणमश्वकेतुमपातयत्

७.४७.९मार्तिकावतकं भोजं ततः कुञ्जरकेतनम्
क्षुरप्रेण समुन्मथ्य ननाद विसृजञ्शरान्

७.४७.१०तस्य दौःशासनिर्विद्ध्वा चतुर्भिश्चतुरो हयान्
सूतमेकेन विव्याध दशभिश्चार्जुनात्मजम्

७.४७.११ततो दौःशासनिं कार्ष्णिर्विद्ध्वा सप्तभिराशुगैः
संरम्भाद्रक्तनयनो वाक्यमुच्चैरथाब्रवीत्

७.४७.१२पिता तवाहवं त्यक्त्वा गतः कापुरुषो यथा
दिष्ट्या त्वमपि जानीषे योद्धुं न त्वद्य मोक्ष्यसे

७.४७.१३एतावदुक्त्वा वचनं कर्मारपरिमार्जितम्
नाराचं विससर्जास्मै तं द्रौणिस्त्रिभिराच्छिनत्

७.४७.१४तस्यार्जुनिर्ध्वजं छित्त्वा शल्यं त्रिभिरताडयत्
तं शल्यो नवभिर्बाणैर्गार्ध्रपत्रैरताडयत्

७.४७.१५तस्यार्जुनिर्ध्वजं छित्त्वा उभौ च पार्ष्णिसारथी
तं विव्याधायसैः षड्भिः सोऽपक्रामद्रथान्तरम्

७.४७.१६शत्रुंजयं चन्द्रकेतुं मेघवेगं सुवर्चसम्
सूर्यभासं च पञ्चैतान्हत्वा विव्याध सौबलम्

७.४७.१७तं सौबलस्त्रिभिर्विद्ध्वा दुर्योधनमथाब्रवीत्
सर्व एनं प्रमथ्नीमः पुरैकैकं हिनस्ति नः

७.४७.१८अथाब्रवीत्तदा द्रोणं कर्णो वैकर्तनो वृषा
पुरा सर्वान्प्रमथ्नाति ब्रूह्यस्य वधमाशु नः

७.४७.१९ततो द्रोणो महेष्वासः सर्वांस्तान्प्रत्यभाषत
अस्ति वोऽस्यान्तरं कश्चित्कुमारस्य प्रपश्यति

७.४७.२०अन्वस्य पितरं ह्यद्य चरतः सर्वतोदिशम्
शीघ्रतां नरसिंहस्य पाण्डवेयस्य पश्यत

७.४७.२१धनुर्मण्डलमेवास्य रथमार्गेषु दृश्यते
संदधानस्य विशिखाञ्शीघ्रं चैव विमुञ्चतः

७.४७.२२आरुजन्निव मे प्राणान्मोहयन्नपि सायकैः
प्रहर्षयति मा भूयः सौभद्रः परवीरहा

७.४७.२३अति मा नन्दयत्येष सौभद्रो विचरन्रणे
अन्तरं यस्य संरब्धा न पश्यन्ति महारथाः

७.४७.२४अस्यतो लघुहस्तस्य दिशः सर्वा महेषुभिः
न विशेषं प्रपश्यामि रणे गाण्डीवधन्वनः

७.४७.२५अथ कर्णः पुनर्द्रोणमाहार्जुनिशरार्दितः
स्थातव्यमिति तिष्ठामि पीड्यमानोऽभिमन्युना

७.४७.२६तेजस्विनः कुमारस्य शराः परमदारुणाः
क्षिण्वन्ति हृदयं मेऽद्य घोराः पावकतेजसः

७.४७.२७तमाचार्योऽब्रवीत्कर्णं शनकैः प्रहसन्निव
अभेद्यमस्य कवचं युवा चाशुपराक्रमः

७.४७.२८उपदिष्टा मया अस्य पितुः कवचधारणा
तामेष निखिलां वेत्ति ध्रुवं परपुरंजयः

७.४७.२९शक्यं त्वस्य धनुश्छेत्तुं ज्यां च बाणैः समाहितैः
अभीशवो हयाश्चैव तथोभौ पार्ष्णिसारथी

७.४७.३०एतत्कुरु महेष्वास राधेय यदि शक्यते
अथैनं विमुखीकृत्य पश्चात्प्रहरणं कुरु

७.४७.३१सधनुष्को न शक्योऽयमपि जेतुं सुरासुरैः
विरथं विधनुष्कं च कुरुष्वैनं यदीच्छसि

७.४७.३२तदाचार्यवचः श्रुत्वा कर्णो वैकर्तनस्त्वरन्
अस्यतो लघुहस्तस्य पृषत्कैर्धनुराच्छिनत्

७.४७.३३अश्वानस्यावधीद्भोजो गौतमः पार्ष्णिसारथी
शेषास्तु छिन्नधन्वानं शरवर्षैरवाकिरन्

७.४७.३४त्वरमाणास्त्वराकाले विरथं षण्महारथाः
शरवर्षैरकरुणा बालमेकमवाकिरन्

७.४७.३५स छिन्नधन्वा विरथः स्वधर्ममनुपालयन्
खड्गचर्मधरः श्रीमानुत्पपात विहायसम्

७.४७.३६मार्गैः स कैशिकाद्यैश्च लाघवेन बलेन च
आर्जुनिर्व्यचरद्व्योम्नि भृशं वै पक्षिराडिव

७.४७.३७मय्येव निपतत्येष सासिरित्यूर्ध्वदृष्टयः
विव्यधुस्तं महेष्वासाः समरे छिद्रदर्शिनः

७.४७.३८तस्य द्रोणोऽच्छिनन्मुष्टौ खड्गं मणिमयत्सरुम्
राधेयो निशितैर्बाणैर्व्यधमच्चर्म चोत्तमम्

७.४७.३९व्यसिचर्मेषुपूर्णाङ्गः सोऽन्तरिक्षात्पुनः क्षितिम्
आस्थितश्चक्रमुद्यम्य द्रोणं क्रुद्धोऽभ्यधावत

७.४७.४०स चक्ररेणूज्ज्वलशोभिताङ्गो; बभावतीवोन्नतचक्रपाणिः
रणेऽभिमन्युः क्षणदासुभद्रः; स वासुभद्रानुकृतिं प्रकुर्वन्

७.४७.४१स्रुतरुधिरकृतैकरागवक्त्रो; भ्रुकुटिपुटाकुटिलोऽतिसिंहनादः
प्रभुरमितबलो रणेऽभिमन्यु;र्नृपवरमध्यगतो भृशं व्यराजत्