७. द्रोणपर्व
७.५.१संजय उवाच

७.५.२रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम्
हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत्

७.५.३सनाथमिदमत्यर्थं भवता पालितं बलम्
मन्ये किं तु समर्थं यद्धितं तत्संप्रधार्यताम्

७.५.४कर्ण उवाच

७.५.५ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप
यथा चार्थपतिः कृत्यं पश्यते न तथेतरः

७.५.६ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर
नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम

७.५.७दुर्योधन उवाच

७.५.८भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च
श्रुतेन च सुसंपन्नः सर्वैर्योधगुणैस्तथा

७.५.९तेनातियशसा कर्ण घ्नता शत्रुगणान्मम
सुयुद्धेन दशाहानि पालिताः स्मो महात्मना

७.५.१०तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम्
कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम्

७.५.११न ऋते नायकं सेना मुहूर्तमपि तिष्ठति
आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले

७.५.१२यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा
द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम्

७.५.१३स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु
पश्य सेनापतिं युक्तमनु शांतनवादिह

७.५.१४यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे
तं वयं सहिताः सर्वे प्रकरिष्याम मारिष

७.५.१५कर्ण उवाच

७.५.१६सर्व एव महात्मान इमे पुरुषसत्तमाः
सेनापतित्वमर्हन्ति नात्र कार्या विचारणा

७.५.१७कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः
युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः

७.५.१८युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः
एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः

७.५.१९अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि
शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत

७.५.२०अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः
युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः

७.५.२१को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे
सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात्

७.५.२२न च स ह्यस्ति ते योधः सर्वराजसु भारत
यो द्रोणं समरे यान्तं नानुयास्यति संयुगे

७.५.२३एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि
एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते

७.५.२४एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु
जिगीषन्तोऽसुरान्संख्ये कार्त्तिकेयमिवामराः

७.५.२५संजय उवाच

७.५.२६कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा
सेनामध्यगतं द्रोणमिदं वचनमब्रवीत्

७.५.२७वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया
वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात्

७.५.२८तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि
युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते

७.५.२९स भवान्पातु नः सर्वान्विबुधानिव वासवः
भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम

७.५.३०रुद्राणामिव कापाली वसूनामिव पावकः
कुबेर इव यक्षाणां मरुतामिव वासवः

७.५.३१वसिष्ठ इव विप्राणां तेजसामिव भास्करः
पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट्

७.५.३२नक्षत्राणामिव शशी दितिजानामिवोशनाः
श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव

७.५.३३अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ
ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव

७.५.३४प्रयातु नो भवानग्रे देवानामिव पावकिः
अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम्

७.५.३५उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः
अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते

७.५.३६ध्रुवं युधिष्ठिरं संख्ये सानुबन्धं सबान्धवम्
जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि

७.५.३७एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः
सिंहनादेन महता हर्षयन्तस्तवात्मजम्

७.५.३८सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम्
दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः

७.५.३९द्रोण उवाच

७.५.४०वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम्
त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च

७.५.४१ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः
चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान्

७.५.४२संजय उवाच

७.५.४३स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः
द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा

७.५.४४अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः
सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः

७.५.४५ततो वादित्रघोषेण सह पुंसां महास्वनैः
प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा

७.५.४६ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च
संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम्

७.५.४७जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा
सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान्