७. द्रोणपर्व
७.६.१संजय उवाच

७.६.२सेनापत्यं तु संप्राप्य भारद्वाजो महारथः
युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह

७.६.३सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः
दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः

७.६.४प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः
ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः

७.६.५कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः
दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन्

७.६.६तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः
ययुरश्वैर्महावेगैः शकाश्च यवनैः सह

७.६.७मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः
शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह

७.६.८सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः
तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः

७.६.९हर्षयन्सर्वसैन्यानि बलेषु बलमादधत्
ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम्

७.६.१०तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन्
हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः

७.६.११न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत
विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह

७.६.१२हृष्टाश्च बहवो योधास्तत्राजल्पन्त संगताः
न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः

७.६.१३कर्णो हि समरे शक्तो जेतुं देवान्सवासवान्
किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान्

७.६.१४भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना
तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम्

७.६.१५एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशां पते
राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः

७.६.१६अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत्
परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम्
प्रीयमाणेन विहितो धर्मराजेन भारत

७.६.१७व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ
वानरध्वजमुच्छ्रित्य विष्वक्सेनधनंजयौ

७.६.१८ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम्
आदित्यपथगः केतुः पार्थस्यामिततेजसः

७.६.१९दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः
यथा प्रज्वलितः सूर्यो युगान्ते वै वसुंधराम्

७.६.२०अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम्
वासुदेवश्च भूतानां चक्राणां च सुदर्शनम्

७.६.२१चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः
परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम्

७.६.२२एवमेतौ महात्मानौ बलसेनाग्रगावुभौ
तावकानां मुखं कर्णः परेषां च धनंजयः

७.६.२३ततो जाताभिसंरम्भौ परस्परवधैषिणौ
अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ

७.६.२४ततः प्रयाते सहसा भारद्वाजे महारथे
अन्तर्नादेन घोरेण वसुधा समकम्पत

७.६.२५ततस्तुमुलमाकाशमावृणोत्सदिवाकरम्
वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम्

७.६.२६अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत
गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः
उपर्युपरि सेनां ते तदा पर्यपतन्नृप

७.६.२७गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान्
अकार्षुरपसव्यं च बहुशः पृतनां तव
चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम्

७.६.२८अपतद्दीप्यमाना च सनिर्घाता सकम्पना
उल्का ज्वलन्ती संग्रामे पुच्छेनावृत्य सर्वशः

७.६.२९परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान्
भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ

७.६.३०एते चान्ये च बहवः प्रादुरासन्सुदारुणाः
उत्पाता युधि वीराणां जीवितक्षयकारकाः

७.६.३१ततः प्रववृते युद्धं परस्परवधैषिणाम्
कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत्

७.६.३२ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह
प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः

७.६.३३स पाण्डवानां महतीं महेष्वासो महाद्युतिः
वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः

७.६.३४द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः
प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक्

७.६.३५संक्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः
व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः

७.६.३६बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे
अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान्

७.६.३७ते वध्यमाना द्रोणेन वासवेनेव दानवाः
पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः

७.६.३८ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः
अभिनच्छरवर्षेण द्रोणानीकमनेकधा

७.६.३९द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः
संनिवार्य ततः सेनां कुरूनप्यवधीद्बली

७.६.४०संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे
स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत्

७.६.४१स बाणवर्षं सुमहदसृजत्पार्षतं प्रति
मघवान्समभिक्रुद्धः सहसा दानवेष्विव

७.६.४२ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः
पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः

७.६.४३अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली
अलातचक्रवद्राजंस्तदद्भुतमिवाभवत्

७.६.४४खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या; चलदनिलपताकं ह्रादिनं वल्गिताश्वम्
स्फटिकविमलकेतुं तापनं शात्रवाणां; रथवरमधिरूढः संजहारारिसेनाम्