७. द्रोणपर्व
७.५०.१संजय उवाच

७.५०.२तस्मिन्नहनि निर्वृत्ते घोरे प्राणभृतां क्षये
आदित्येऽस्तंगते श्रीमान्संध्याकाल उपस्थिते

७.५०.३व्यपयातेषु सैन्येषु वासाय भरतर्षभ
हत्वा संशप्तकव्रातान्दिव्यैरस्त्रैः कपिध्वजः

७.५०.४प्रायात्स्वशिबिरं जिष्णुर्जैत्रमास्थाय तं रथम्
गच्छन्नेव च गोविन्दं सन्नकण्ठोऽभ्यभाषत

७.५०.५किं नु मे हृदयं त्रस्तं वाक्यं सज्जति केशव
स्पन्दन्ति चाप्यनिष्टानि गात्रं सीदति चाच्युत

७.५०.६अनिष्टं चैव मे श्लिष्टं हृदयान्नापसर्पति
भुवि यद्दिक्षु चाप्युग्रा उत्पातास्त्रासयन्ति माम्

७.५०.७बहुप्रकारा दृश्यन्ते सर्व एवाघशंसिनः
अपि स्वस्ति भवेद्राज्ञः सामात्यस्य गुरोर्मम

७.५०.८वासुदेव उवाच

७.५०.९व्यक्तं शिवं तव भ्रातुः सामात्यस्य भविष्यति
मा शुचः किंचिदेवान्यत्तत्रानिष्टं भविष्यति

७.५०.१०संजय उवाच

७.५०.११ततः संध्यामुपास्यैव वीरौ वीरावसादने
कथयन्तौ रणे वृत्तं प्रयातौ रथमास्थितौ

७.५०.१२ततः स्वशिबिरं प्राप्तौ हतानन्दं हतत्विषम्
वासुदेवोऽर्जुनश्चैव कृत्वा कर्म सुदुष्करम्

७.५०.१३ध्वस्ताकारं समालक्ष्य शिबिरं परवीरहा
बीभत्सुरब्रवीत्कृष्णमस्वस्थहृदयस्ततः

७.५०.१४नाद्य नन्दन्ति तूर्याणि मङ्गल्यानि जनार्दन
मिश्रा दुन्दुभिनिर्घोषैः शङ्खाश्चाडम्बरैः सह
वीणा वा नाद्य वाद्यन्ते शम्यातालस्वनैः सह

७.५०.१५मङ्गल्यानि च गीतानि न गायन्ति पठन्ति च
स्तुतियुक्तानि रम्याणि ममानीकेषु बन्दिनः

७.५०.१६योधाश्चापि हि मां दृष्ट्वा निवर्तन्ते ह्यधोमुखाः
कर्माणि च यथापूर्वं कृत्वा नाभिवदन्ति माम्

७.५०.१७अपि स्वस्ति भवेदद्य भ्रातृभ्यो मम माधव
न हि शुध्यति मे भावो दृष्ट्वा स्वजनमाकुलम्

७.५०.१८अपि पाञ्चालराजस्य विराटस्य च मानद
सर्वेषां चैव योधानां सामग्र्यं स्यान्ममाच्युत

७.५०.१९न च मामद्य सौभद्रः प्रहृष्टो भ्रातृभिः सह
रणादायान्तमुचितं प्रत्युद्याति हसन्निव

७.५०.२०एवं संकथयन्तौ तौ प्रविष्टौ शिबिरं स्वकम्
ददृशाते भृशास्वस्थान्पाण्डवान्नष्टचेतसः

७.५०.२१दृष्ट्वा भ्रातॄंश्च पुत्रांश्च विमना वानरध्वजः
अपश्यंश्चैव सौभद्रमिदं वचनमब्रवीत्

७.५०.२२मुखवर्णोऽप्रसन्नो वः सर्वेषामेव लक्ष्यते
न चाभिमन्युं पश्यामि न च मां प्रतिनन्दथ

७.५०.२३मया श्रुतश्च द्रोणेन चक्रव्यूहो विनिर्मितः
न च वस्तस्य भेत्तास्ति ऋते सौभद्रमाहवे

७.५०.२४न चोपदिष्टस्तस्यासीन्मयानीकविनिर्गमः
कच्चिन्न बालो युष्माभिः परानीकं प्रवेशितः

७.५०.२५भित्त्वानीकं महेष्वासः परेषां बहुशो युधि
कच्चिन्न निहतः शेते सौभद्रः परवीरहा

७.५०.२६लोहिताक्षं महाबाहुं जातं सिंहमिवाद्रिषु
उपेन्द्रसदृशं ब्रूत कथमायोधने हतः

७.५०.२७सुकुमारं महेष्वासं वासवस्यात्मजात्मजम्
सदा मम प्रियं ब्रूत कथमायोधने हतः

७.५०.२८वार्ष्णेयीदयितं शूरं मया सततलालितम्
अम्बायाश्च प्रियं नित्यं कोऽवधीत्कालचोदितः

७.५०.२९सदृशो वृष्णिसिंहस्य केशवस्य महात्मनः
विक्रमश्रुतमाहात्म्यैः कथमायोधने हतः

७.५०.३०सुभद्रायाः प्रियं नित्यं द्रौपद्याः केशवस्य च
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्

७.५०.३१मृदुकुञ्चितकेशान्तं बालं बालमृगेक्षणम्
मत्तद्विरदविक्रान्तं शालपोतमिवोद्गतम्

७.५०.३२स्मिताभिभाषिणं दान्तं गुरुवाक्यकरं सदा
बाल्येऽप्यबालकर्माणं प्रियवाक्यममत्सरम्

७.५०.३३महोत्साहं महाबाहुं दीर्घराजीवलोचनम्
भक्तानुकम्पिनं दान्तं न च नीचानुसारिणम्

७.५०.३४कृतज्ञं ज्ञानसंपन्नं कृतास्त्रमनिवर्तिनम्
युद्धाभिनन्दिनं नित्यं द्विषतामघवर्धनम्

७.५०.३५स्वेषां प्रियहिते युक्तं पितॄणां जयगृद्धिनम्
न च पूर्वप्रहर्तारं संग्रामे नष्टसंभ्रमम्
यदि पुत्रं न पश्यामि यास्यामि यमसादनम्

७.५०.३६सुललाटं सुकेशान्तं सुभ्र्वक्षिदशनच्छदम्
अपश्यतस्तद्वदनं का शान्तिर्हृदयस्य मे

७.५०.३७तन्त्रीस्वनसुखं रम्यं पुंस्कोकिलसमध्वनिम्
अशृण्वतः स्वनं तस्य का शान्तिर्हृदयस्य मे

७.५०.३८रूपं चाप्रतिरूपं तत्त्रिदशेष्वपि दुर्लभम्
अपश्यतोऽद्य वीरस्य का शान्तिर्हृदयस्य मे

७.५०.३९अभिवादनदक्षं तं पितॄणां वचने रतम्
नाद्याहं यदि पश्यामि का शान्तिर्हृदयस्य मे

७.५०.४०सुकुमारः सदा वीरो महार्हशयनोचितः
भूमावनाथवच्छेते नूनं नाथवतां वरः

७.५०.४१शयानं समुपासन्ति यं पुरा परमस्त्रियः
तमद्य विप्रविद्धाङ्गमुपासन्त्यशिवाः शिवाः

७.५०.४२यः पुरा बोध्यते सुप्तः सूतमागधबन्दिभिः
बोधयन्त्यद्य तं नूनं श्वापदा विकृतैः स्वरैः

७.५०.४३छत्रच्छायासमुचितं तस्य तद्वदनं शुभम्
नूनमद्य रजोध्वस्तं रणे रेणुः करिष्यति

७.५०.४४हा पुत्रकावितृप्तस्य सततं पुत्रदर्शने
भाग्यहीनस्य कालेन यथा मे नीयसे बलात्

७.५०.४५साद्य संयमनी नूनं सदा सुकृतिनां गतिः
स्वभाभिर्भासिता रम्या त्वयात्यर्थं विराजते

७.५०.४६नूनं वैवस्वतश्च त्वा वरुणश्च प्रियातिथिः
शतक्रतुर्धनेशश्च प्राप्तमर्चन्त्यभीरुकम्

७.५०.४७एवं विलप्य बहुधा भिन्नपोतो वणिग्यथा
दुःखेन महताविष्टो युधिष्ठिरमपृच्छत

७.५०.४८कच्चित्स कदनं कृत्वा परेषां पाण्डुनन्दन
स्वर्गतोऽभिमुखः संख्ये युध्यमानो नरर्षभः

७.५०.४९स नूनं बहुभिर्यत्तैर्युध्यमानो नरर्षभैः
असहायः सहायार्थी मामनुध्यातवान्ध्रुवम्

७.५०.५०पीड्यमानः शरैर्बालस्तात साध्वभिधाव माम्
इति विप्रलपन्मन्ये नृशंसैर्बहुभिर्हतः

७.५०.५१अथ वा मत्प्रसूतश्च स्वस्रीयो माधवस्य च
सुभद्रायां च संभूतो नैवं वक्तुमिहार्हति

७.५०.५२वज्रसारमयं नूनं हृदयं सुदृढं मम
अपश्यतो दीर्घबाहुं रक्ताक्षं यन्न दीर्यते

७.५०.५३कथं बाले महेष्वासे नृशंसा मर्मभेदिनः
स्वस्रीये वासुदेवस्य मम पुत्रेऽक्षिपञ्शरान्

७.५०.५४यो मां नित्यमदीनात्मा प्रत्युद्गम्याभिनन्दति
उपयान्तं रिपून्हत्वा सोऽद्य मां किं न पश्यति

७.५०.५५नूनं स पतितः शेते धरण्यां रुधिरोक्षितः
शोभयन्मेदिनीं गात्रैरादित्य इव पातितः

७.५०.५६रणे विनिहतं श्रुत्वा शोकार्ता वै विनंक्ष्यति
सुभद्रा वक्ष्यते किं मामभिमन्युमपश्यती
द्रौपदी चैव दुःखार्ते ते च वक्ष्यामि किं न्वहम्

७.५०.५७वज्रसारमयं नूनं हृदयं यन्न यास्यति
सहस्रधा वधूं दृष्ट्वा रुदतीं शोककर्शिताम्

७.५०.५८हृष्टानां धार्तराष्ट्राणां सिंहनादो मया श्रुतः
युयुत्सुश्चापि कृष्णेन श्रुतो वीरानुपालभन्

७.५०.५९अशक्नुवन्तो बीभत्सुं बालं हत्वा महारथाः
किं नदध्वमधर्मज्ञाः पार्थे वै दृश्यतां बलम्

७.५०.६०किं तयोर्विप्रियं कृत्वा केशवार्जुनयोर्मृधे
सिंहवन्नदत प्रीताः शोककाल उपस्थिते

७.५०.६१आगमिष्यति वः क्षिप्रं फलं पापस्य कर्मणः
अधर्मो हि कृतस्तीव्रः कथं स्यादफलश्चिरम्

७.५०.६२इति तान्प्रति भाषन्वै वैश्यापुत्रो महामतिः
अपायाच्छस्त्रमुत्सृज्य कोपदुःखसमन्वितः

७.५०.६३किमर्थमेतन्नाख्यातं त्वया कृष्ण रणे मम
अधक्ष्यं तानहं सर्वांस्तदा क्रूरान्महारथान्

७.५०.६४निगृह्य वासुदेवस्तं पुत्राधिभिरभिप्लुतम्
मैवमित्यब्रवीत्कृष्णस्तीव्रशोकसमन्वितम्

७.५०.६५सर्वेषामेष वै पन्थाः शूराणामनिवर्तिनाम्
क्षत्रियाणां विशेषेण येषां युद्धेन जीविका

७.५०.६६एषा वै युध्यमानानां शूराणामनिवर्तिनाम्
विहिता धर्मशास्त्रज्ञैर्गतिर्गतिमतां वर

७.५०.६७ध्रुवं युद्धे हि मरणं शूराणामनिवर्तिनाम्
गतः पुण्यकृतां लोकानभिमन्युर्न संशयः

७.५०.६८एतच्च सर्ववीराणां काङ्क्षितं भरतर्षभ
संग्रामेऽभिमुखा मृत्युं प्रप्नुयामेति मानद

७.५०.६९स च वीरान्रणे हत्वा राजपुत्रान्महाबलान्
वीरैराकाङ्क्षितं मृत्युं संप्राप्तोऽभिमुखो रणे

७.५०.७०मा शुचः पुरुषव्याघ्र पूर्वैरेष सनातनः
धर्मकृद्भिः कृतो धर्मः क्षत्रियाणां रणे क्षयः

७.५०.७१इमे ते भ्रातरः सर्वे दीना भरतसत्तम
त्वयि शोकसमाविष्टे नृपाश्च सुहृदस्तव

७.५०.७२एतांस्त्वं वचसा साम्ना समाश्वासय मानद
विदितं वेदितव्यं ते न शोकं कर्तुमर्हसि

७.५०.७३एवमाश्वासितः पार्थः कृष्णेनाद्भुतकर्मणा
ततोऽब्रवीत्तदा भ्रातॄन्सर्वान्पार्थः सगद्गदान्

७.५०.७४स दीर्घबाहुः पृथ्वंसो दीर्घराजीवलोचनः
अभिमन्युर्यथा वृत्तः श्रोतुमिच्छाम्यहं तथा

७.५०.७५सनागस्यन्दनहयान्द्रक्ष्यध्वं निहतान्मया
संग्रामे सानुबन्धांस्तान्मम पुत्रस्य वैरिणः

७.५०.७६कथं च वः कृतास्त्राणां सर्वेषां शस्त्रपाणिनाम्
सौभद्रो निधनं गच्छेद्वज्रिणापि समागतः

७.५०.७७यद्येवमहमज्ञास्यमशक्तान्रक्षणे मम
पुत्रस्य पाण्डुपाञ्चालान्मया गुप्तो भवेत्ततः

७.५०.७८कथं च वो रथस्थानां शरवर्षाणि मुञ्चताम्
नीतोऽभिमन्युर्निधनं कदर्थीकृत्य वः परैः

७.५०.७९अहो वः पौरुषं नास्ति न च वोऽस्ति पराक्रमः
यत्राभिमन्युः समरे पश्यतां वो निपातितः

७.५०.८०आत्मानमेव गर्हेयं यदहं वः सुदुर्बलान्
युष्मानाज्ञाय निर्यातो भीरूनकृतनिश्रमान्

७.५०.८१आहोस्विद्भूषणार्थाय वर्मशस्त्रायुधानि वः
वाचश्च वक्तुं संसत्सु मम पुत्रमरक्षताम्

७.५०.८२एवमुक्त्वा ततो वाक्यं तिष्ठंश्चापवरासिमान्
न स्माशक्यत बीभत्सुः केनचित्प्रसमीक्षितुम्

७.५०.८३तमन्तकमिव क्रुद्धं निःश्वसन्तं मुहुर्मुहुः
पुत्रशोकाभिसंतप्तमश्रुपूर्णमुखं तदा

७.५०.८४नाभिभाष्टुं शक्नुवन्ति द्रष्टुं वा सुहृदोऽर्जुनम्
अन्यत्र वासुदेवाद्वा ज्येष्टाद्वा पाण्डुनन्दनात्

७.५०.८५सर्वास्ववस्थासु हितावर्जुनस्य मनोनुगौ
बहुमानात्प्रियत्वाच्च तावेनं वक्तुमर्हतः

७.५०.८६ततस्तं पुत्रशोकेन भृशं पीडितमानसम्
राजीवलोचनं क्रुद्धं राजा वचनमब्रवीत्