७.५१.१युधिष्ठिर उवाच
७.५१.२त्वयि याते महाबाहो संशप्तकबलं प्रति
प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम
७.५१.३व्यूढानीकं वयं द्रोणं वरयामः स्म सर्वशः
प्रतिव्यूह्य रथानीकं यतमानं तथा रणे
७.५१.४स वार्यमाणो रथिभी रक्षितेन मया तथा
अस्मानपि जघानाशु पीडयन्निशितैः शरैः
७.५१.५ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः
प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु
७.५१.६वयं त्वप्रतिमं वीर्ये सर्वे सौभद्रमात्मजम्
उक्तवन्तः स्म ते तात भिन्ध्यनीकमिति प्रभो
७.५१.७स तथा चोदितोऽस्माभिः सदश्व इव वीर्यवान्
असह्यमपि तं भारं वोढुमेवोपचक्रमे
७.५१.८स तवास्त्रोपदेशेन वीर्येण च समन्वितः
प्राविशत्तद्बलं बालः सुपर्ण इव सागरम्
७.५१.९तेऽनुयाता वयं वीरं सात्वतीपुत्रमाहवे
प्रवेष्टुकामास्तेनैव येन स प्राविशच्चमूम्
७.५१.१०ततः सैन्धवको राजा क्षुद्रस्तात जयद्रथः
वरदानेन रुद्रस्य सर्वान्नः समवारयत्
७.५१.११ततो द्रोणः कृपः कर्णो द्रौणिश्च स बृहद्बलः
कृतवर्मा च सौभद्रं षड्रथाः पर्यवारयन्
७.५१.१२परिवार्य तु तैः सर्वैर्युधि बालो महारथैः
यतमानः परं शक्त्या बहुभिर्विरथीकृतः
७.५१.१३ततो दौःशासनिः क्षिप्रं तथा तैर्विरथीकृतम्
संशयं परमं प्राप्य दिष्टान्तेनाभ्ययोजयत्
७.५१.१४स तु हत्वा सहस्राणि द्विपाश्वरथसादिनाम्
राजपुत्रशतं चाग्र्यं वीरांश्चालक्षितान्बहून्
७.५१.१५बृहद्बलं च राजानं स्वर्गेणाजौ प्रयोज्य ह
ततः परमधर्मात्मा दिष्टान्तमुपजग्मिवान्
७.५१.१६एतावदेव निर्वृत्तमस्माकं शोकवर्धनम्
स चैवं पुरुषव्याघ्रः स्वर्गलोकमवाप्तवान्
७.५१.१७संजय उवाच
७.५१.१८ततोऽर्जुनो वचः श्रुत्वा धर्मराजेन भाषितम्
हा पुत्र इति निःश्वस्य व्यथितो न्यपतद्भुवि
७.५१.१९विषण्णवदनाः सर्वे परिगृह्य धनंजयम्
नेत्रैरनिमिषैर्दीनाः प्रत्यवेक्षन्परस्परम्
७.५१.२०प्रतिलभ्य ततः संज्ञां वासविः क्रोधमूर्छितः
कम्पमानो ज्वरेणेव निःश्वसंश्च मुहुर्मुहुः
७.५१.२१पाणिं पाणौ विनिष्पिष्य श्वसमानोऽश्रुनेत्रवान्
उन्मत्त इव विप्रेक्षन्निदं वचनमब्रवीत्
७.५१.२२सत्यं वः प्रतिजानामि श्वोऽस्मि हन्ता जयद्रथम्
न चेद्वधभयाद्भीतो धार्तराष्ट्रान्प्रहास्यति
७.५१.२३न चास्माञ्शरणं गच्छेत्कृष्णं वा पुरुषोत्तमम्
भवन्तं वा महाराज श्वोऽस्मि हन्ता जयद्रथम्
७.५१.२४धार्तराष्ट्रप्रियकरं मयि विस्मृतसौहृदम्
पापं बालवधे हेतुं श्वोऽस्मि हन्ता जयद्रथम्
७.५१.२५रक्षमाणाश्च तं संख्ये ये मां योत्स्यन्ति केचन
अपि द्रोणकृपौ वीरौ छादयिष्यामि ताञ्शरैः
७.५१.२६यद्येतदेवं संग्रामे न कुर्यां पुरुषर्षभाः
मा स्म पुण्यकृतां लोकान्प्राप्नुयां शूरसंमतान्
७.५१.२७ये लोका मातृहन्तॄणां ये चापि पितृघातिनाम्
गुरुदारगामिनां ये च पिशुनानां च ये तथा
७.५१.२८साधूनसूयतां ये च ये चापि परिवादिनाम्
ये च निक्षेपहर्तॄणां ये च विश्वासघातिनाम्
७.५१.२९भुक्तपूर्वां स्त्रियं ये च निन्दतामघशंसिनाम्
ब्रह्मघ्नानां च ये लोका ये च गोघातिनामपि
७.५१.३०पायसं वा यवान्नं वा शाकं कृसरमेव वा
संयावापूपमांसानि ये च लोका वृथाश्नताम्
तानह्नैवाधिगच्छेयं न चेद्धन्यां जयद्रथम्
७.५१.३१वेदाध्यायिनमत्यर्थं संशितं वा द्विजोत्तमम्
अवमन्यमानो यान्याति वृद्धान्साधूंस्तथा गुरून्
७.५१.३२स्पृशतां ब्राह्मणं गां च पादेनाग्निं च यां लभेत्
याप्सु श्लेष्म पुरीषं वा मूत्रं वा मुञ्चतां गतिः
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्
७.५१.३३नग्नस्य स्नायमानस्य या च वन्ध्यातिथेर्गतिः
उत्कोचिनां मृषोक्तीनां वञ्चकानां च या गतिः
आत्मापहारिणां या च या च मिथ्याभिशंसिनाम्
७.५१.३४भृत्यैः संदृश्यमानानां पुत्रदाराश्रितैस्तथा
असंविभज्य क्षुद्राणां या गतिर्मृष्टमश्नताम्
तां गच्छेयं गतिं घोरां न चेद्धन्यां जयद्रथम्
७.५१.३५संश्रितं वापि यस्त्यक्त्वा साधुं तद्वचने रतम्
न बिभर्ति नृशंसात्मा निन्दते चोपकारिणम्
७.५१.३६अर्हते प्रातिवेश्याय श्राद्धं यो न ददाति च
अनर्हते च यो दद्याद्वृषलीपत्युरेव च
७.५१.३७मद्यपो भिन्नमर्यादः कृतघ्नो भ्रातृनिन्दकः
तेषां गतिमियां क्षिप्रं न चेद्धन्यां जयद्रथम्
७.५१.३८धर्मादपेता ये चान्ये मया नात्रानुकीर्तिताः
ये चानुकीर्तिताः क्षिप्रं तेषां गतिमवाप्नुयाम्
यदि व्युष्टामिमां रात्रिं श्वो न हन्यां जयद्रथम्
७.५१.३९इमां चाप्यपरां भूयः प्रतिज्ञां मे निबोधत
यद्यस्मिन्नहते पापे सूर्योऽस्तमुपयास्यति
इहैव संप्रवेष्टाहं ज्वलितं जातवेदसम्
७.५१.४०असुरसुरमनुष्याः पक्षिणो वोरगा वा; पितृरजनिचरा वा ब्रह्मदेवर्षयो वा
चरमचरमपीदं यत्परं चापि तस्मा;त्तदपि मम रिपुं तं रक्षितुं नैव शक्ताः
७.५१.४१यदि विशति रसातलं तदग्र्यं; वियदपि देवपुरं दितेः पुरं वा
तदपि शरशतैरहं प्रभाते; भृशमभिपत्य रिपोः शिरोऽभिहर्ता
७.५१.४२एवमुक्त्वा विचिक्षेप गाण्डीवं सव्यदक्षिणम्
तस्य शब्दमतिक्रम्य धनुःशब्दोऽस्पृशद्दिवम्
७.५१.४३अर्जुनेन प्रतिज्ञाते पाञ्चजन्यं जनार्दनः
प्रदध्मौ तत्र संक्रुद्धो देवदत्तं धनंजयः
७.५१.४४स पाञ्चजन्योऽच्युतवक्त्रवायुना; भृशं सुपूर्णोदरनिःसृतध्वनिः
जगत्सपातालवियद्दिगीश्वरं; प्रकम्पयामास युगात्यये यथा
७.५१.४५ततो वादित्रघोषाश्च प्रादुरासन्समन्ततः
सिंहनादाश्च पाण्डूनां प्रतिज्ञाते महात्मना