७.५५.१संजय उवाच
७.५५.२एतच्छ्रुत्वा वचस्तस्य केशवस्य महात्मनः
सुभद्रा पुत्रशोकार्ता विललाप सुदुःखिता
७.५५.३हा पुत्र मम मन्दायाः कथं संयुगमेत्य ह
निधनं प्राप्तवांस्तात पितृतुल्यपराक्रमः
७.५५.४कथमिन्दीवरश्यामं सुदंष्ट्रं चारुलोचनम्
मुखं ते दृश्यते वत्स गुण्ठितं रणरेणुना
७.५५.५नूनं शूरं निपतितं त्वां पश्यन्त्यनिवर्तिनम्
सुशिरोग्रीवबाह्वंसं व्यूढोरस्कं निरूदरम्
७.५५.६चारूपचितसर्वाङ्गं स्वक्षं शस्त्रक्षताचितम्
भूतानि त्वा निरीक्षन्ते नूनं चन्द्रमिवोदितम्
७.५५.७शयनीयं पुरा यस्य स्पर्ध्यास्तरणसंवृतम्
भूमावद्य कथं शेषे विप्रविद्धः सुखोचितः
७.५५.८योऽन्वास्यत पुरा वीरो वरस्त्रीभिर्महाभुजः
कथमन्वास्यते सोऽद्य शिवाभिः पतितो मृधे
७.५५.९योऽस्तूयत पुरा हृष्टैः सूतमागधबन्दिभिः
सोऽद्य क्रव्याद्गणैर्घोरैर्विनदद्भिरुपास्यते
७.५५.१०पाण्डवेषु च नाथेषु वृष्णिवीरेषु चाभिभो
पाञ्चालेषु च वीरेषु हतः केनास्यनाथवत्
७.५५.११अतृप्तदर्शना पुत्र दर्शनस्य तवानघ
मन्दभाग्या गमिष्यामि व्यक्तमद्य यमक्षयम्
७.५५.१२विशालाक्षं सुकेशान्तं चारुवाक्यं सुगन्धि च
तव पुत्र कदा भूयो मुखं द्रक्ष्यामि निर्व्रणम्
७.५५.१३धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम्
धिग्वीर्यं वृष्णिवीराणां पाञ्चालानां च धिग्बलम्
७.५५.१४धिक्केकयांस्तथा चेदीन्मत्स्यांश्चैवाथ सृञ्जयान्
ये त्वा रणे गतं वीरं न जानन्ति निपातितम्
७.५५.१५अद्य पश्यामि पृथिवीं शून्यामिव हतत्विषम्
अभिमन्युमपश्यन्ती शोकव्याकुललोचना
७.५५.१६स्वस्रीयं वासुदेवस्य पुत्रं गाण्डीवधन्वनः
कथं त्वा विरथं वीरं द्रक्ष्याम्यन्यैर्निपातितम्
७.५५.१७हा वीर दृष्टो नष्टश्च धनं स्वप्न इवासि मे
अहो ह्यनित्यं मानुष्यं जलबुद्बुदचञ्चलम्
७.५५.१८इमां ते तरुणीं भार्यां त्वदाधिभिरभिप्लुताम्
कथं संधारयिष्यामि विवत्सामिव धेनुकाम्
७.५५.१९अहो ह्यकाले प्रस्थानं कृतवानसि पुत्रक
विहाय फलकाले मां सुगृद्धां तव दर्शने
७.५५.२०नूनं गतिः कृतान्तस्य प्राज्ञैरपि सुदुर्विदा
यत्र त्वं केशवे नाथे संग्रामेऽनाथवद्धतः
७.५५.२१यज्वनां दानशीलानां ब्राह्मणानां कृतात्मनाम्
चरितब्रह्मचर्याणां पुण्यतीर्थावगाहिनाम्
७.५५.२२कृतज्ञानां वदान्यानां गुरुशुश्रूषिणामपि
सहस्रदक्षिणानां च या गतिस्तामवाप्नुहि
७.५५.२३या गतिर्युध्यमानानां शूराणामनिवर्तिनाम्
हत्वारीन्निहतानां च संग्रामे तां गतिं व्रज
७.५५.२४गोसहस्रप्रदातॄणां क्रतुदानां च या गतिः
नैवेशिकं चाभिमतं ददतां या गतिः शुभा
७.५५.२५ब्रह्मचर्येण यां यान्ति मुनयः संशितव्रताः
एकपत्न्यश्च यां यान्ति तां गतिं व्रज पुत्रक
७.५५.२६राज्ञां सुचरितैर्या च गतिर्भवति शाश्वती
चतुराश्रमिणां पुण्यैः पावितानां सुरक्षितैः
७.५५.२७दीनानुकम्पिनां या च सततं संविभागिनाम्
पैशुन्याच्च निवृत्तानां तां गतिं व्रज पुत्रक
७.५५.२८व्रतिनां धर्मशीलानां गुरुशुश्रूषिणामपि
अमोघातिथिनां या च तां गतिं व्रज पुत्रक
७.५५.२९ऋतुकाले स्वकां पत्नीं गच्छतां या मनस्विनाम्
न चान्यदारसेवीनां तां गतिं व्रज पुत्रक
७.५५.३०साम्ना ये सर्वभूतानि गच्छन्ति गतमत्सराः
नारुंतुदानां क्षमिणां या गतिस्तामवाप्नुहि
७.५५.३१मधुमांसनिवृत्तानां मदाद्दम्भात्तथानृतात्
परोपतापत्यक्तानां तां गतिं व्रज पुत्रक
७.५५.३२ह्रीमन्तः सर्वशास्त्रज्ञा ज्ञानतृप्ता जितेन्द्रियाः
यां गतिं साधवो यान्ति तां गतिं व्रज पुत्रक
७.५५.३३एवं विलपतीं दीनां सुभद्रां शोककर्शिताम्
अभ्यपद्यत पाञ्चाली वैराटीसहिता तदा
७.५५.३४ताः प्रकामं रुदित्वा च विलप्य च सुदुःखिताः
उन्मत्तवत्तदा राजन्विसंज्ञा न्यपतन्क्षितौ
७.५५.३५सोपचारस्तु कृष्णस्तां दुःखितां भृशदुःखितः
सिक्त्वाम्भसा समाश्वास्य तत्तदुक्त्वा हितं वचः
७.५५.३६विसंज्ञकल्पां रुदतीमपविद्धां प्रवेपतीम्
भगिनीं पुण्डरीकाक्ष इदं वचनमब्रवीत्
७.५५.३७सुभद्रे मा शुचः पुत्रं पाञ्चाल्याश्वासयोत्तराम्
गतोऽभिमन्युः प्रथितां गतिं क्षत्रियपुंगवः
७.५५.३८ये चान्येऽपि कुले सन्ति पुरुषा नो वरानने
सर्वे ते वै गतिं यान्तु अभिमन्योर्यशस्विनः
७.५५.३९कुर्याम तद्वयं कर्म क्रियासुः सुहृदश्च नः
कृतवान्यादृगद्यैकस्तव पुत्रो महारथः
७.५५.४०एवमाश्वास्य भगिनीं द्रौपदीमपि चोत्तराम्
पार्थस्यैव महाबाहुः पार्श्वमागादरिंदमः
७.५५.४१ततोऽभ्यनुज्ञाय नृपान्कृष्णो बन्धूंस्तथाभिभूः
विवेशान्तःपुरं राजंस्तेऽन्ये जग्मुर्यथालयम्