७. द्रोणपर्व
७.६०.१संजय उवाच

७.६०.२तथा संभाषतां तेषां प्रादुरासीद्धनंजयः
दिदृक्षुर्भरतश्रेष्ठं राजानं ससुहृद्गणम्

७.६०.३तं प्रविष्टं शुभां कक्ष्यामभिवाद्याग्रतः स्थितम्
समुत्थायार्जुनं प्रेम्णा सस्वजे पाण्डवर्षभः

७.६०.४मूर्ध्नि चैनमुपाघ्राय परिष्वज्य च बाहुना
आशिषः परमाः प्रोच्य स्मयमानोऽभ्यभाषत

७.६०.५व्यक्तमर्जुन संग्रामे ध्रुवस्ते विजयो महान्
यादृग्रूपा हि ते छाया प्रसन्नश्च जनार्दनः

७.६०.६तमब्रवीत्ततो जिष्णुर्महदाश्चर्यमुत्तमम्
दृष्टवानस्मि भद्रं ते केशवस्य प्रसादजम्

७.६०.७ततस्तत्कथयामास यथादृष्टं धनंजयः
आश्वासनार्थं सुहृदां त्र्यम्बकेन समागमम्

७.६०.८ततः शिरोभिरवनिं स्पृष्ट्वा सर्वे च विस्मिताः
नमस्कृत्य वृषाङ्काय साधु साध्वित्यथाब्रुवन्

७.६०.९अनुज्ञातास्ततः सर्वे सुहृदो धर्मसूनुना
त्वरमाणाः सुसंनद्धा हृष्टा युद्धाय निर्ययुः

७.६०.१०अभिवाद्य तु राजानं युयुधानाच्युतार्जुनाः
हृष्टा विनिर्ययुस्ते वै युधिष्ठिरनिवेशनात्

७.६०.११रथेनैकेन दुर्धर्षौ युयुधानजनार्दनौ
जग्मतुः सहितौ वीरावर्जुनस्य निवेशनम्

७.६०.१२तत्र गत्वा हृषीकेशः कल्पयामास सूतवत्
रथं रथवरस्याजौ वानरर्षभलक्षणम्

७.६०.१३स मेघसमनिर्घोषस्तप्तकाञ्चनसप्रभः
बभौ रथवरः कॢप्तः शिशुर्दिवसकृद्यथा

७.६०.१४ततः पुरुषशार्दूलः सज्जः सज्जं पुरःसरः
कृताह्निकाय पार्थाय न्यवेदयत तं रथम्

७.६०.१५तं तु लोके वरः पुंसां किरीटी हेमवर्मभृत्
बाणबाणासनी वाहं प्रदक्षिणमवर्तत

७.६०.१६ततो विद्यावयोवृद्धैः क्रियावद्भिर्जितेन्द्रियैः
स्तूयमानो जयाशीभिरारुरोह महारथम्

७.६०.१७जैत्रैः सांग्रामिकैर्मन्त्रैः पूर्वमेव रथोत्तमम्
अभिमन्त्रितमर्चिष्मानुदयं भास्करो यथा

७.६०.१८स रथे रथिनां श्रेष्ठः काञ्चने काञ्चनावृतः
विबभौ विमलोऽर्चिष्मान्मेराविव दिवाकरः

७.६०.१९अन्वारुरोहतुः पार्थं युयुधानजनार्दनौ
शर्यातेर्यज्ञमायान्तं यथेन्द्रं देवमश्विनौ

७.६०.२०अथ जग्राह गोविन्दो रश्मीन्रश्मिवतां वरः
मातलिर्वासवस्येव वृत्रं हन्तुं प्रयास्यतः

७.६०.२१स ताभ्यां सहितः पार्थो रथप्रवरमास्थितः
सहितो बुधशुक्राभ्यां तमो निघ्नन्यथा शशी

७.६०.२२सैन्धवस्य वधप्रेप्सुः प्रयातः शत्रुपूगहा
सहाम्बुपतिमित्राभ्यां यथेन्द्रस्तारकामये

७.६०.२३ततो वादित्रनिर्घोषैर्मङ्गल्यैश्च स्तवैः शुभैः
प्रयान्तमर्जुनं सूता मागधाश्चैव तुष्टुवुः

७.६०.२४सजयाशीः सपुण्याहः सूतमागधनिस्वनः
युक्तो वादित्रघोषेण तेषां रतिकरोऽभवत्

७.६०.२५तमनुप्रयतो वायुः पुण्यगन्धवहः शुचिः
ववौ संहर्षयन्पार्थं द्विषतश्चापि शोषयन्

७.६०.२६प्रादुरासन्निमित्तानि विजयाय बहूनि च
पाण्डवानां त्वदीयानां विपरीतानि मारिष

७.६०.२७दृष्ट्वार्जुनो निमित्तानि विजयाय प्रदक्षिणम्
युयुधानं महेष्वासमिदं वचनमब्रवीत्

७.६०.२८युयुधानाद्य युद्धे मे दृश्यते विजयो ध्रुवः
यथा हीमानि लिङ्गानि दृश्यन्ते शिनिपुंगव

७.६०.२९सोऽहं तत्र गमिष्यामि यत्र सैन्धवको नृपः
यियासुर्यमलोकाय मम वीर्यं प्रतीक्षते

७.६०.३०यथा परमकं कृत्यं सैन्धवस्य वधे मम
तथैव सुमहत्कृत्यं धर्मराजस्य रक्षणे

७.६०.३१स त्वमद्य महाबाहो राजानं परिपालय
यथैव हि मया गुप्तस्त्वया गुप्तो भवेत्तथा

७.६०.३२त्वयि चाहं पराश्वस्य प्रद्युम्ने वा महारथे
शक्नुयां सैन्धवं हन्तुमनपेक्षो नरर्षभ

७.६०.३३मय्यपेक्षा न कर्तव्या कथंचिदपि सात्वत
राजन्येव परा गुप्तिः कार्या सर्वात्मना त्वया

७.६०.३४न हि यत्र महाबाहुर्वासुदेवो व्यवस्थितः
किंचिद्व्यापद्यते तत्र यत्राहमपि च ध्रुवम्

७.६०.३५एवमुक्तस्तु पार्थेन सात्यकिः परवीरहा
तथेत्युक्त्वागमत्तत्र यत्र राजा युधिष्ठिरः