७. द्रोणपर्व
७.६१.१धृतराष्ट्र उवाच

७.६१.२श्वोभूते किमकार्षुस्ते दुःखशोकसमन्विताः
अभिमन्यौ हते तत्र के वायुध्यन्त मामकाः

७.६१.३जानन्तस्तस्य कर्माणि कुरवः सव्यसाचिनः
कथं तत्किल्बिषं कृत्वा निर्भया ब्रूहि मामकाः

७.६१.४पुत्रशोकाभिसंतप्तं क्रुद्धं मृत्युमिवान्तकम्
आयान्तं पुरुषव्याघ्रं कथं ददृशुराहवे

७.६१.५कपिराजध्वजं संख्ये विधुन्वानं महद्धनुः
दृष्ट्वा पुत्रपरिद्यूनं किमकुर्वन्त मामकाः

७.६१.६किं नु संजय संग्रामे वृत्तं दुर्योधनं प्रति
परिदेवो महानत्र श्रुतो मे नाभिनन्दनम्

७.६१.७बभूवुर्ये मनोग्राह्याः शब्दाः श्रुतिसुखावहाः
न श्रूयन्तेऽद्य ते सर्वे सैन्धवस्य निवेशने

७.६१.८स्तुवतां नाद्य श्रूयन्ते पुत्राणां शिबिरे मम
सूतमागधसंघानां नर्तकानां च सर्वशः

७.६१.९शब्देन नादिताभीक्ष्णमभवद्यत्र मे श्रुतिः
दीनानामद्य तं शब्दं न शृणोमि समीरितम्

७.६१.१०निवेशने सत्यधृतेः सोमदत्तस्य संजय
आसीनोऽहं पुरा तात शब्दमश्रौषमुत्तमम्

७.६१.११तदद्य हीनपुण्योऽहमार्तस्वरनिनादितम्
निवेशनं हतोत्साहं पुत्राणां मम लक्षये

७.६१.१२विविंशतेर्दुर्मुखस्य चित्रसेनविकर्णयोः
अन्येषां च सुतानां मे न तथा श्रूयते ध्वनिः

७.६१.१३ब्राह्मणाः क्षत्रिया वैश्या यं शिष्याः पर्युपासते
द्रोणपुत्रं महेष्वासं पुत्राणां मे परायणम्

७.६१.१४वितण्डालापसंलापैर्हुतयाचितवन्दितैः
गीतैश्च विविधैरिष्टै रमते यो दिवानिशम्

७.६१.१५उपास्यमानो बहुभिः कुरुपाण्डवसात्वतैः
सूत तस्य गृहे शब्धो नाद्य द्रौणेर्यथा पुरा

७.६१.१६द्रोणपुत्रं महेष्वासं गायना नर्तकाश्च ये
अत्यर्थमुपतिष्ठन्ति तेषां न श्रूयते ध्वनिः

७.६१.१७विन्दानुविन्दयोः सायं शिबिरे यो महाध्वनिः
श्रूयते सोऽद्य न तथा केकयानां च वेश्मसु

७.६१.१८नित्यप्रमुदितानां च तालगीतस्वनो महान्
नृत्यतां श्रूयते तात गणानां सोऽद्य न ध्वनिः

७.६१.१९सप्ततन्तून्वितन्वाना यमुपासन्ति याजकाः
सौमदत्तिं श्रुतनिधिं तेषां न श्रूयते ध्वनिः

७.६१.२०ज्याघोषो ब्रह्मघोषश्च तोमरासिरथध्वनिः
द्रोणस्यासीदविरतो गृहे तन्न शृणोम्यहम्

७.६१.२१नानादेशसमुत्थानां गीतानां योऽभवत्स्वनः
वादित्रनादितानां च सोऽद्य न श्रूयते महान्

७.६१.२२यदा प्रभृत्युपप्लव्याच्छान्तिमिच्छञ्जनार्दनः
आगतः सर्वभूतानामनुकम्पार्थमच्युतः

७.६१.२३ततोऽहमब्रुवं सूत मन्दं दुर्योधनं तदा
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः

७.६१.२४कालप्राप्तमहं मन्ये मा त्वं दुर्योधनातिगाः
शमे चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम्
हितार्थमभिजल्पन्तं न तथास्त्यपराजयः

७.६१.२५प्रत्याचष्ट स दाशार्हमृषभं सर्वधन्विनाम्
अनुनेयानि जल्पन्तमनयान्नान्वपद्यत

७.६१.२६ततो दुःशासनस्यैव कर्णस्य च मतं द्वयोः
अन्ववर्तत हित्वा मां कृष्टः कालेन दुर्मतिः

७.६१.२७न ह्यहं द्यूतमिच्छामि विदुरो न प्रशंसति
सैन्धवो नेच्छते द्यूतं भीष्मो न द्यूतमिच्छति

७.६१.२८शल्यो भूरिश्रवाश्चैव पुरुमित्रो जयस्तथा
अश्वत्थामा कृपो द्रोणो द्यूतं नेच्छन्ति संजय

७.६१.२९एतेषां मतमाज्ञाय यदि वर्तेत पुत्रकः
सज्ञातिमित्रः ससुहृच्चिरं जीवेदनामयः

७.६१.३०श्लक्ष्णा मधुरसंभाषा ज्ञातिमध्ये प्रियंवदाः
कुलीनाः संमताः प्राज्ञाः सुखं प्राप्स्यन्ति पाण्डवाः

७.६१.३१धर्मापेक्षो नरो नित्यं सर्वत्र लभते सुखम्
प्रेत्यभावे च कल्याणं प्रसादं प्रतिपद्यते

७.६१.३२अर्हन्त्यर्धं पृथिव्यास्ते भोक्तुं सामर्थ्यसाधनाः
तेषामपि समुद्रान्ता पितृपैतामही मही

७.६१.३३नियुज्यमानाः स्थास्यन्ति पाण्डवा धर्मवर्त्मनि
सन्ति नो ज्ञातयस्तात येषां श्रोष्यन्ति पाण्डवाः

७.६१.३४शल्यस्य सोमदत्तस्य भीष्मस्य च महात्मनः
द्रोणस्याथ विकर्णस्य बाह्लिकस्य कृपस्य च

७.६१.३५अन्येषां चैव वृद्धानां भरतानां महात्मनाम्
त्वदर्थं ब्रुवतां तात करिष्यन्ति वचो हितम्

७.६१.३६कं वा त्वं मन्यसे तेषां यस्त्वा ब्रूयादतोऽन्यथा
कृष्णो न धर्मं संजह्यात्सर्वे ते च त्वदन्वयाः

७.६१.३७मयापि चोक्तास्ते वीरा वचनं धर्मसंहितम्
नान्यथा प्रकरिष्यन्ति धर्मात्मानो हि पाण्डवाः

७.६१.३८इत्यहं विलपन्सूत बहुशः पुत्रमुक्तवान्
न च मे श्रुतवान्मूढो मन्ये कालस्य पर्ययम्

७.६१.३९वृकोदरार्जुनौ यत्र वृष्णिवीरश्च सात्यकिः
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः

७.६१.४०धृष्टद्युम्नश्च दुर्धर्षः शिखण्डी चापराजितः
अश्मकाः केकयाश्चैव क्षत्रधर्मा च सौमकिः

७.६१.४१चैद्यश्च चेकितानश्च पुत्रः काश्यस्य चाभिभुः
द्रौपदेया विराटश्च द्रुपदश्च महारथः
यमौ च पुरुषव्याघ्रौ मन्त्री च मधुसूदनः

७.६१.४२क एताञ्जातु युध्येत लोकेऽस्मिन्वै जिजीविषुः
दिव्यमस्त्रं विकुर्वाणान्संहरेयुररिंदमाः

७.६१.४३अन्यो दुर्योधनात्कर्णाच्छकुनेश्चापि सौबलात्
दुःशासनचतुर्थानां नान्यं पश्यामि पञ्चमम्

७.६१.४४येषामभीशुहस्तः स्याद्विष्वक्सेनो रथे स्थितः
संनद्धश्चार्जुनो योद्धा तेषां नास्ति पराजयः

७.६१.४५तेषां मम विलापानां न हि दुर्योधनः स्मरेत्
हतौ हि पुरुषव्याघ्रौ भीष्मद्रोणौ त्वमात्थ मे

७.६१.४६तेषां विदुरवाक्यानामुक्तानां दीर्घदर्शिनाम्
दृष्ट्वेमां फलनिर्वृत्तिं मन्ये शोचन्ति पुत्रकाः

७.६१.४७हिमात्यये यथा कक्षं शुष्कं वातेरितो महान्
अग्निर्दहेत्तथा सेनां मामिकां स धनंजयः

७.६१.४८आचक्ष्व तद्धि नः सर्वं कुशलो ह्यसि संजय
यदुपायात्तु सायाह्ने कृत्वा पार्थस्य किल्बिषम्
अभिमन्यौ हते तात कथमासीन्मनो हि वः

७.६१.४९न जातु तस्य कर्माणि युधि गाण्डीवधन्वनः
अपकृत्वा महत्तात सोढुं शक्ष्यन्ति मामकाः

७.६१.५०किं नु दुर्योधनः कृत्यं कर्णः कृत्यं किमब्रवीत्
दुःशासनः सौबलश्च तेषामेवं गते अपि
सर्वेषां समवेतानां पुत्राणां मम संजय

७.६१.५१यद्वृत्तं तात संग्रामे मन्दस्यापनयैर्भृशम्
लोभानुगतदुर्बुद्धेः क्रोधेन विकृतात्मनः

७.६१.५२राज्यकामस्य मूढस्य रागोपहतचेतसः
दुर्नीतं वा सुनीतं वा तन्ममाचक्ष्व संजय