७.७०.१संजय उवाच
७.७०.२प्रविष्टयोर्महाराज पार्थवार्ष्णेययोस्तदा
दुर्योधने प्रयाते च पृष्ठतः पुरुषर्षभे
७.७०.३जवेनाभ्यद्रवन्द्रोणं महता निस्वनेन च
पाण्डवाः सोमकैः सार्धं ततो युद्धमवर्तत
७.७०.४तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम्
पाञ्चालानां कुरूणां च व्यूहस्य पुरतोऽद्भुतम्
७.७०.५राजन्कदाचिन्नास्माभिर्दृष्टं तादृङ्न च श्रुतम्
यादृङ्मध्यगते सूर्ये युद्धमासीद्विशां पते
७.७०.६धृष्टद्युम्नमुखाः पार्था व्यूढानीकाः प्रहारिणः
द्रोणस्य सैन्यं ते सर्वे शरवर्षैरवाकिरन्
७.७०.७वयं द्रोणं पुरस्कृत्य सर्वशस्त्रभृतां वरम्
पार्षतप्रमुखान्पार्थानभ्यवर्षाम सायकैः
७.७०.८महामेघाविवोदीर्णौ मिश्रवातौ हिमात्यये
सेनाग्रे विप्रकाशेते रुचिरे रथभूषिते
७.७०.९समेत्य तु महासेने चक्रतुर्वेगमुत्तमम्
जाह्नवीयमुने नद्यौ प्रावृषीवोल्बणोदके
७.७०.१०नानाशस्त्रपुरोवातो द्विपाश्वरथसंवृतः
गदाविद्युन्महारौद्रः संग्रामजलदो महान्
७.७०.११भारद्वाजानिलोद्धूतः शरधारासहस्रवान्
अभ्यवर्षन्महारौद्रः पाण्डुसेनाग्निमुद्धतम्
७.७०.१२समुद्रमिव घर्मान्ते विवान्घोरो महानिलः
व्यक्षोभयदनीकानि पाण्डवानां द्विजोत्तमः
७.७०.१३तेऽपि सर्वप्रयत्नेन द्रोणमेव समाद्रवन्
बिभित्सन्तो महासेतुं वार्योघाः प्रबला इव
७.७०.१४वारयामास तान्द्रोणो जलौघानचलो यथा
पाण्डवान्समरे क्रुद्धान्पाञ्चालांश्च सकेकयान्
७.७०.१५अथापरेऽपि राजानः परावृत्य समन्ततः
महाबला रणे शूराः पाञ्चालानन्ववारयन्
७.७०.१६ततो रणे नरव्याघ्रः पार्षतः पाण्डवैः सह
संजघानासकृद्द्रोणं बिभित्सुररिवाहिनीम्
७.७०.१७यथैव शरवर्षाणि द्रोणो वर्षति पार्षते
तथैव शरवर्षाणि धृष्टद्युम्नोऽभ्यवर्षत
७.७०.१८सनिस्त्रिंशपुरोवातः शक्तिप्रासर्ष्टिसंवृतः
ज्याविद्युच्चापसंह्रादो धृष्टद्युम्नबलाहकः
७.७०.१९शरधाराश्मवर्षाणि व्यसृजत्सर्वतोदिशम्
निघ्नन्रथवराश्वौघांश्छादयामास वाहिनीम्
७.७०.२०यं यमार्छच्छरैर्द्रोणः पाण्डवानां रथव्रजम्
ततस्ततः शरैर्द्रोणमपाकर्षत पार्षतः
७.७०.२१तथा तु यतमानस्य द्रोणस्य युधि भारत
धृष्टद्युम्नं समासाद्य त्रिधा सैन्यमभिद्यत
७.७०.२२भोजमेके न्यवर्तन्त जलसंधमथापरे
पाण्डवैर्हन्यमानाश्च द्रोणमेवापरेऽव्रजन्
७.७०.२३सैन्यान्यघटयद्यानि द्रोणस्तु रथिनां वरः
व्यधमच्चापि तान्यस्य धृष्टद्युम्नो महारथः
७.७०.२४धार्तराष्ट्रास्त्रिधाभूता वध्यन्ते पाण्डुसृञ्जयैः
अगोपाः पशवोऽरण्ये बहुभिः श्वापदैरिव
७.७०.२५कालः संग्रसते योधान्धृष्टद्युम्नेन मोहितान्
संग्रामे तुमुले तस्मिन्निति संमेनिरे जनाः
७.७०.२६कुनृपस्य यथा राष्ट्रं दुर्भिक्षव्याधितस्करैः
द्राव्यते तद्वदापन्ना पाण्डवैस्तव वाहिनी
७.७०.२७अर्करश्मिप्रभिन्नेषु शस्त्रेषु कवचेषु च
चक्षूंषि प्रतिहन्यन्ते सैन्येन रजसा तथा
७.७०.२८त्रिधाभूतेषु सैन्येषु वध्यमानेषु पाण्डवैः
अमर्षितस्ततो द्रोणः पाञ्चालान्व्यधमच्छरैः
७.७०.२९मृद्नतस्तान्यनीकानि निघ्नतश्चापि सायकैः
बभूव रूपं द्रोणस्य कालाग्नेरिव दीप्यतः
७.७०.३०रथं नागं हयं चापि पत्तिनश्च विशां पते
एकैकेनेषुणा संख्ये निर्बिभेद महारथः
७.७०.३१पाण्डवानां तु सैन्येषु नास्ति कश्चित्स भारत
दधार यो रणे बाणान्द्रोणचापच्युताञ्शितान्
७.७०.३२तत्पच्यमानमर्केण द्रोणसायकतापितम्
बभ्राम पार्षतं सैन्यं तत्र तत्रैव भारत
७.७०.३३तथैव पार्षतेनापि काल्यमानं बलं तव
अभवत्सर्वतो दीप्तं शुष्कं वनमिवाग्निना
७.७०.३४वध्यमानेषु सैन्येषु द्रोणपार्षतसायकैः
त्यक्त्वा प्राणान्परं शक्त्या प्रायुध्यन्त स्म सैनिकाः
७.७०.३५तावकानां परेषां च युध्यतां भरतर्षभ
नासीत्कश्चिन्महाराज योऽत्याक्षीत्संयुगं भयात्
७.७०.३६भीमसेनं तु कौन्तेयं सोदर्याः पर्यवारयन्
विविंशतिश्चित्रसेनो विकर्णश्च महारथः
७.७०.३७विन्दानुविन्दावावन्त्यौ क्षेमधूर्तिश्च वीर्यवान्
त्रयाणां तव पुत्राणां त्रय एवानुयायिनः
७.७०.३८बाह्लीकराजस्तेजस्वी कुलपुत्रो महारथः
सहसेनः सहामात्यो द्रौपदेयानवारयत्
७.७०.३९शैब्यो गोवासनो राजा योधैर्दशशतावरैः
काश्यस्याभिभुवः पुत्रं पराक्रान्तमवारयत्
७.७०.४०अजातशत्रुं कौन्तेयं ज्वलन्तमिव पावकम्
मद्राणामीश्वरः शल्यो राजा राजानमावृणोत्
७.७०.४१दुःशासनस्त्ववस्थाप्य स्वमनीकममर्षणः
सात्यकिं प्रययौ क्रुद्धः शूरो रथवरं युधि
७.७०.४२स्वकेनाहमनीकेन संनद्धकवचावृतः
चतुःशतैर्महेष्वासैश्चेकितानमवारयम्
७.७०.४३शकुनिस्तु सहानीको माद्रीपुत्रमवारयत्
गान्धारकैः सप्तशतैश्चापशक्तिशरासिभिः
७.७०.४४विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्छताम्
प्राणांस्त्यक्त्वा महेष्वासौ मित्रार्थेऽभ्युद्यतौ युधि
७.७०.४५शिखण्डिनं याज्ञसेनिं रुन्धानमपराजितम्
बाह्लिकः प्रतिसंयत्तः पराक्रान्तमवारयत्
७.७०.४६धृष्टद्युम्नं च पाञ्चाल्यं क्रूरैः सार्धं प्रभद्रकैः
आवन्त्यः सह सौवीरैः क्रुद्धरूपमवारयत्
७.७०.४७घटोत्कचं तथा शूरं राक्षसं क्रूरयोधिनम्
अलायुधोऽद्रवत्तूर्णं क्रुद्धमायान्तमाहवे
७.७०.४८अलम्बुसं राक्षसेन्द्रं कुन्तिभोजो महारथः
सैन्येन महता युक्तः क्रुद्धरूपमवारयत्
७.७०.४९सैन्धवः पृष्ठतस्त्वासीत्सर्वसैन्यस्य भारत
रक्षितः परमेष्वासैः कृपप्रभृतिभी रथैः
७.७०.५०तस्यास्तां चक्ररक्षौ द्वौ सैन्धवस्य बृहत्तमौ
द्रौणिर्दक्षिणतो राजन्सूतपुत्रश्च वामतः
७.७०.५१पृष्ठगोपास्तु तस्यासन्सौमदत्तिपुरोगमाः
कृपश्च वृषसेनश्च शलः शल्यश्च दुर्जयः
७.७०.५२नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः
सैन्धवस्य विधायैवं रक्षां युयुधिरे तदा