७.७१.१संजय उवाच
७.७१.२राजन्संग्राममाश्चर्यं शृणु कीर्तयतो मम
कुरूणां पाण्डवानां च यथा युद्धमवर्तत
७.७१.३भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम्
अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः
७.७१.४रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः
अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः
७.७१.५विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः
आजघ्नतुः सुसंक्रुद्धौ तव पुत्रहितैषिणौ
७.७१.६विराटश्च महाराज तावुभौ समरे स्थितौ
पराक्रान्तौ पराक्रम्य योधयामास सानुगौ
७.७१.७तेषां युद्धं समभवद्दारुणं शोणितोदकम्
सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने
७.७१.८बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः
आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः
७.७१.९बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः
आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः
७.७१.१०तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम्
भीरूणां त्रासजननं शूराणां हर्षवर्धनम्
७.७१.११ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा
अभवत्संवृतं सर्वं न प्राज्ञायत किंचन
७.७१.१२शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम्
ससैन्यो योधयामास गजः प्रतिगजं यथा
७.७१.१३बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान्
मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे
७.७१.१४अयोधयंस्ते च भृशं तं शरौघैः समन्ततः
इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर
७.७१.१५वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव
आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः
७.७१.१६सोऽतिविद्धो बलवता महेष्वासेन धन्विना
ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः
७.७१.१७समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम्
विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः
७.७१.१८तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ
रेजतुः समरे राजन्पुष्पिताविव किंशुकौ
७.७१.१९अलम्बुसस्तु संक्रुद्धः कुन्तिभोजशरार्दितः
अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः
७.७१.२०कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः
अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव
७.७१.२१ततस्तौ समरे शूरौ योधयन्तौ परस्परम्
ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा
७.७१.२२शकुनिं रभसं युद्धे कृतवैरं च भारत
माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे
७.७१.२३तन्मूलः स महाराज प्रावर्तत जनक्षयः
त्वया संजनितोऽत्यर्थं कर्णेन च विवर्धितः
७.७१.२४उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः
य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः
७.७१.२५शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः
नाभ्यजानत कर्तव्यं युधि किंचित्पराक्रमम्
७.७१.२६विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ
ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम्
७.७१.२७स वध्यमानो बहुभिः शरैः संनतपर्वभिः
संप्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः
७.७१.२८घटोत्कचस्तथा शूरं राक्षसं तमलायुधम्
अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम्
७.७१.२९तयोर्युद्धं महाराज चित्ररूपमिवाभवत्
यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे
७.७१.३०ततो युधिष्ठिरो राजा मद्रराजानमाहवे
विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः
७.७१.३१ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप
यथा पूर्वं महद्युद्धं शम्बरामरराजयोः
७.७१.३२विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः
अयोधयन्भीमसेनं महत्या सेनया वृताः