७.७६.१संजय उवाच
७.७६.२स्रंसन्त इव मज्जानस्तावकानां भयान्नृप
तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनंजयौ
७.७६.३सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः
स्थिरीबूता महात्मानः प्रत्यगच्छन्धनंजयम्
७.७६.४ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः
तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव
७.७६.५असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः
नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम्
७.७६.६तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ
ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ
७.७६.७मत्स्याविव महाजालं विदार्य विगतज्वरौ
तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत्
७.७६.८विमुक्तौ शस्त्रसंबाधाद्द्रोणानीकात्सुदुर्भिदात्
अदृश्येतां महात्मानौ कालसूर्याविवोदितौ
७.७६.९अस्त्रसंबाधनिर्मुक्तौ विमुक्तौ शस्त्रसंकटात्
अदृश्येतां महात्मानौ शत्रुसंबाधकारिणौ
७.७६.१०विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव
व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव
७.७६.११तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः
नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम्
७.७६.१२तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती
नाशशंसुर्महाराज सिन्धुराजस्य जीवितम्
७.७६.१३आशा बलवती राजन्पुत्राणामभवत्तव
द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो
७.७६.१४तामाशां विफलां कृत्वा निस्तीर्णौ तौ परंतपौ
द्रोणानीकं महाराज भोजानीकं च दुस्तरम्
७.७६.१५अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ
निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे
७.७६.१६मिथश्च समभाषेतामभीतौ भयवर्धनौ
जयद्रथवधे वाचस्तास्ताः कृष्णधनंजयौ
७.७६.१७असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः
चक्षुर्विषयसंप्राप्तो न नौ मोक्ष्यति सैन्धवः
७.७६.१८यद्यस्य समरे गोप्ता शक्रो देवगणैः सह
तथाप्येनं हनिष्याव इति कृष्णावभाषताम्
७.७६.१९इति कृष्णौ महाबाहू मिथः कथयतां तदा
सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः
७.७६.२०अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ
पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ
७.७६.२१व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान्
अदृश्येतां महाबाहू यथा मृत्युजरातिगौ
७.७६.२२तथा हि मुखवर्णोऽयमनयोरिति मेनिरे
तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः
७.७६.२३द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात्
अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ
७.७६.२४तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ
अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा
७.७६.२५शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान्
रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे
७.७६.२६उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः
शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ
७.७६.२७द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसंकटात्
अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः
७.७६.२८ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः
द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव
७.७६.२९बाहुभ्यामिव संतीर्णौ सिन्धुषष्ठाः समुद्रगाः
तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः
७.७६.३०इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ
सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात्
७.७६.३१जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया
रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम्
७.७६.३२यथा हि मुखवर्णोऽयमनयोरिति मेनिरे
तव योधा महाराज हतमेव जयद्रथम्
७.७६.३३लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ
सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः
७.७६.३४शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः
तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव
७.७६.३५हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः
समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा
७.७६.३६तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके
सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे
७.७६.३७तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनंजयौ
सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव
७.७६.३८द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा
ययावेकरथेनाजौ हयसंस्कारवित्प्रभो
७.७६.३९कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः
अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप
७.७६.४०ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत्
प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनंजयम्
७.७६.४१सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः
दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम्
७.७६.४२ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः
ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो
७.७६.४३दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम्
अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः