७.७७.१वासुदेव उवाच
७.७७.२सुयोधनमतिक्रान्तमेनं पश्य धनंजय
आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः
७.७७.३दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः
दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः
७.७७.४अत्यन्तसुखसंवृद्धो मानितश्च महारथैः
कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान्
७.७७.५तेन युद्धमहं मन्ये प्राप्तकालं तवानघ
अत्र वो द्यूतमायातं विजयायेतराय वा
७.७७.६अत्र क्रोधविषं पार्थ विमुञ्च चिरसंभृतम्
एष मूलमनर्थानां पाण्डवानां महारथः
७.७७.७सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः
कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम्
७.७७.८दिष्ट्या त्विदानीं संप्राप्त एष ते बाणगोचरम्
स यथा जीवितं जह्यात्तथा कुरु धनंजय
७.७७.९ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान्
न च ते संयुगे वीर्यं जानाति पुरुषर्षभ
७.७७.१०त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः
नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः
७.७७.११स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम्
जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः
७.७७.१२एष ह्यनर्थे सततं पराक्रान्तस्तवानघ
निकृत्या धर्मराजं च द्यूते वञ्चितवानयम्
७.७७.१३बहूनि सुनृशंसानि कृतान्येतेन मानद
युष्मासु पापमतिना अपापेष्वेव नित्यदा
७.७७.१४तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम्
आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन्
७.७७.१५निकृत्या राज्यहरणं वनवासं च पाण्डव
परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम
७.७७.१६दिष्ट्यैष तव बाणानां गोचरे परिवर्तते
प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः
७.७७.१७दिष्ट्या जानाति संग्रामे योद्धव्यं हि त्वया सह
दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः
७.७७.१८तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम्
यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे
७.७७.१९अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम्
वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम्
७.७७.२०संजय उवाच
७.७७.२१तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम
सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः
७.७७.२२येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम्
अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे
७.७७.२३अपि तस्या अनर्हायाः परिक्लेशस्य माधव
कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे
७.७७.२४इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान्
प्रेषयामासतुः संख्ये प्रेप्सन्तौ तं नराधिपम्
७.७७.२५तयोः समीपं संप्राप्य पुत्रस्ते भरतर्षभ
न चकार भयं प्राप्ते भये महति मारिष
७.७७.२६तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन्
यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन्
७.७७.२७ततः सर्वस्य सैन्यस्य तावकस्य विशां पते
महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे
७.७७.२८तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति
कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत्
७.७७.२९आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना
संरम्भमगमद्भूयः स च तस्मिन्परंतपः
७.७७.३०तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनंजयौ
अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः
७.७७.३१दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष
प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत्
७.७७.३२ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनंजयः
व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ
७.७७.३३तौ हृष्टरूपौ संप्रेक्ष्य कौरवेयाश्च सर्वशः
निराशाः समपद्यन्त पुत्रस्य तव जीविते
७.७७.३४शोकमीयुः परं चैव कुरवः सर्व एव ते
अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम्
७.७७.३५तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ
हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः
७.७७.३६जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत्
व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे
७.७७.३७इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः
पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत्
७.७७.३८पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च
तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना
७.७७.३९यद्बलं तव वीर्यं च केशवस्य तथैव च
तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम्
७.७७.४०अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते
स्वामिसत्कारयुक्तानि यानि तानीह दर्शय