७. द्रोणपर्व
७.७८.१संजय उवाच

७.७८.२एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः
प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान्

७.७८.३वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे
प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत्

७.७८.४तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः
अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः

७.७८.५तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च
प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः

७.७८.६अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान्
अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः

७.७८.७अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम्
त्वया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः

७.७८.८कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ
मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव

७.७८.९न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः
तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः

७.७८.१०विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान्
व्यर्थान्निपततः संख्ये दुर्योधनरथं प्रति

७.७८.११वज्राशनिसमा घोराः परकायावभेदिनः
शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना

७.७८.१२अर्जुन उवाच

७.७८.१३द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता
अन्ते विहितमस्त्राणामेतत्कवचधारणम्

७.७८.१४अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि
एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात्

७.७८.१५न शक्यमेतत्कवचं बाणैर्भेत्तुं कथंचन
अपि वज्रेण गोविन्द स्वयं मघवता युधि

७.७८.१६जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम्
यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते

७.७८.१७तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव
न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन

७.७८.१८एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम्
तिष्ठत्यभीतवत्संख्ये बिभ्रत्कवचधारणाम्

७.७८.१९यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव
स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम्

७.७८.२०पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन
पराजयिष्ये कौरव्यं कवचेनापि रक्षितम्

७.७८.२१इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम्
पुनर्ददौ सुरपतिर्मह्यं वर्म ससंग्रहम्

७.७८.२२दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम्
नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया

७.७८.२३संजय उवाच

७.७८.२४एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत्
विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान्
तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना

७.७८.२५तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना
न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः

७.७८.२६नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन
अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम

७.७८.२७ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः
अविध्यत रणे राजञ्शरैराशीविषोपमैः
भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ

७.७८.२८शरवर्षेण महता ततोऽहृष्यन्त तावकाः
चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा

७.७८.२९ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन्
नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम्

७.७८.३०ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः
हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी

७.७८.३१धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान्
रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे

७.७८.३२दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम्
अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा

७.७८.३३तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः
समापेतुः परीप्सन्तो धनंजयशरार्दितम्

७.७८.३४ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः
पदात्योघैश्च संरब्धैः परिवव्रुर्धनंजयम्

७.७८.३५अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत
अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ

७.७८.३६ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम्
तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः

७.७८.३७ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम्
स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः

७.७८.३८ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत्
धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम्

७.७८.३९ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून्
महता शरवर्षेण तलशब्देन चार्जुनः

७.७८.४०पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः
रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम्

७.७८.४१तस्य शङ्खस्य नादेन धनुषो निस्वनेन च
निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः

७.७८.४२तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः
जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः

७.७८.४३ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु
चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुंधराम्

७.७८.४४बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः
प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि

७.७८.४५तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम्
प्रदध्मतुस्तदा शङ्खौ वासुदेवधनंजयौ

७.७८.४६तेन शब्देन महता पूरितेयं वसुंधरा
सशैला सार्णवद्वीपा सपाताला विशां पते

७.७८.४७स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश
प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले

७.७८.४८तावका रथिनस्तत्र दृष्ट्वा कृष्णधनंजयौ
संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः

७.७८.४९अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ
अभ्यद्रवन्त संक्रुद्धास्तदद्भुतमिवाभवत्