७.८.१धृतराष्ट्र उवाच
७.८.२किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः
तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि
७.८.३रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः
प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान्
७.८.४कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम्
किरन्तमिषुसंघातान्रुक्मपुङ्खाननेकशः
७.८.५क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम्
दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम्
७.८.६पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम्
कुर्वाणं दारुणं कर्म रणे यत्तं महारथम्
७.८.७व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः
यद्द्रोणो निहतः शूरः पार्षतेन महात्मना
७.८.८अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम्
तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम्
७.८.९श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम्
जातरूपपरिष्कारं नाद्य शोकमपानुदे
७.८.१०न नूनं परदुःखेन कश्चिन्म्रियति संजय
यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये
७.८.११अश्मसारमयं नूनं हृदयं सुदृढं मम
यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते
७.८.१२ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः
ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः
७.८.१३शोषणं सागरस्येव मेरोरिव विसर्पणम्
पतनं भास्करस्येव न मृष्ये द्रोणपातनम्
७.८.१४दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता
योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परंतपः
७.८.१५मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे
बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम्
७.८.१६ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः
रथे वातजवा युक्ताः सर्वशब्दातिगा रणे
७.८.१७बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः
दृढाः संग्राममध्येषु कच्चिदासन्न विह्वलाः
७.८.१८करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम्
ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः
७.८.१९आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः
हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः
७.८.२०ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः
कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम्
७.८.२१जातरूपपरिष्कारमास्थाय रथमुत्तमम्
भारद्वाजः किमकरोच्छूरः संक्रन्दनो युधि
७.८.२२विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः
स सत्यसंधो बलवान्द्रोणः किमकरोद्युधि
७.८.२३दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम्
के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः
७.८.२४ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः
दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम्
७.८.२५उताहो सर्वसैन्येन धर्मराजः सहानुजः
पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत्
७.८.२६नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः
ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत्
७.८.२७न ह्यन्यं परिपश्यामि वधे कंचन शुष्मिणः
धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना
७.८.२८तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः
केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः
७.८.२९व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा
कर्मण्यसुकरे सक्तं जघानेति मतिर्मम
७.८.३०योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान्
ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः
स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान्
७.८.३१अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया
अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम्
७.८.३२यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः
स सत्यसंधः सुकृती श्रीकामैर्निहतः कथम्
७.८.३३दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः
स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः
७.८.३४क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः
न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति
७.८.३५यं द्वौ न जहतः शब्दौ जीवमानं कदाचन
ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम्
७.८.३६नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम्
कथं संजय दुर्धर्षमनाधृष्ययशोबलम्
७.८.३७केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः
पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे
७.८.३८के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन्
द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम्
७.८.३९एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय
पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम्
७.८.४०मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम्
भूयस्तु लब्धसंज्ञस्त्वा परिप्रक्ष्यामि संजय