७. द्रोणपर्व
७.८६.१संजय उवाच

७.८६.२प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च
कालयुक्तं च चित्रं च स्वतया चाभिभाषितम्

७.८६.३धर्मराजस्य तद्वाक्यं निशम्य शिनिपुंगवः
सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम्

७.८६.४श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत
न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम्

७.८६.५एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम्
वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम्

७.८६.६न मे धनंजयस्यार्थे प्राणा रक्ष्याः कथंचन
त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे

७.८६.७लोकत्रयं योधयेयं सदेवासुरमानुषम्
त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम्

७.८६.८सुयोधनबलं त्वद्य योधयिष्ये समन्ततः
विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते

७.८६.९कुशल्यहं कुशलिनं समासाद्य धनंजयम्
हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम्

७.८६.१०अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप
वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः

७.८६.११दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः
मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः

७.८६.१२अद्य माधव राजानमप्रमत्तोऽनुपालय
आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम्

७.८६.१३त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे
नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम्

७.८६.१४जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम्
प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव

७.८६.१५ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति
शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम्

७.८६.१६एवं त्वयि समाधाय धर्मराजं नरोत्तमम्
अहमद्य गमिष्यामि सैन्धवस्य वधाय हि

७.८६.१७जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव
धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात्

७.८६.१८निगृहीते नरश्रेष्ठे भारद्वाजेन माधव
सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत्

७.८६.१९एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि
अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः

७.८६.२०सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति
यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम्

७.८६.२१स त्वमद्य महाबाहो प्रियार्थं मम माधव
जयार्थं च यशोर्थं च रक्ष राजानमाहवे

७.८६.२२स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना
भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो

७.८६.२३तस्यापि च महाबाहो नित्यं पश्यति संयुगे
नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो
मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः

७.८६.२४सोऽहं संभावनां चैतामाचार्यवचनं च तत्
पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते

७.८६.२५आचार्यो लघुहस्तत्वादभेद्यकवचावृतः
उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः

७.८६.२६यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः
तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः

७.८६.२७कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि
यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम्

७.८६.२८मा च ते भयमद्यास्तु राजन्नर्जुनसंभवम्
न स जातु महाबाहुर्भारमुद्यम्य सीदति

७.८६.२९ये च सौवीरका योधास्तथा सैन्धवपौरवाः
उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः

७.८६.३०ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः
एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम्

७.८६.३१उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा
सराक्षसगणा राजन्सकिंनरमहोरगा

७.८६.३२जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे
एवं ज्ञात्वा महाराज व्येतु ते भीर्धनंजये

७.८६.३३यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ
न तत्र कर्मणो व्यापत्कथंचिदपि विद्यते

७.८६.३४दैवं कृतास्त्रतां योगममर्षमपि चाहवे
कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय

७.८६.३५मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति
द्रोणे चित्रास्त्रतां संख्ये राजंस्त्वमनुचिन्तय

७.८६.३६आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति
प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत

७.८६.३७कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि
यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति

७.८६.३८न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे
क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते

७.८६.३९एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर
दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम्

७.८६.४०युधिष्ठिर उवाच

७.८६.४१एवमेतन्महाबाहो यथा वदसि माधव
न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष

७.८६.४२करिष्ये परमं यत्नमात्मनो रक्षणं प्रति
गच्छ त्वं समनुज्ञातो यत्र यातो धनंजयः

७.८६.४३आत्मसंरक्षणं संख्ये गमनं चार्जुनं प्रति
विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये

७.८६.४४स त्वमातिष्ठ यानाय यत्र यातो धनंजयः
ममापि रक्षणं भीमः करिष्यति महाबलः

७.८६.४५पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः
द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः

७.८६.४६केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः
विराटो द्रुपदश्चैव शिखण्डी च महारथः

७.८६.४७धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष
नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा
एते समाहितास्तात रक्षिष्यन्ति न संशयः

७.८६.४८न द्रोणः सह सैन्येन कृतवर्मा च संयुगे
समासादयितुं शक्तो न च मां धर्षयिष्यति

७.८६.४९धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परंतपः
वारयिष्यति विक्रम्य वेलेव मकरालयम्

७.८६.५०यत्र स्थास्यति संग्रामे पार्षतः परवीरहा
न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथंचन

७.८६.५१एष द्रोणविनाशाय समुत्पन्नो हुताशनात्
कवची स शरी खड्गी धन्वी च वरभूषणः

७.८६.५२विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि संभ्रमम्
धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति