७.८५.१धृतराष्ट्र उवाच
७.८५.२भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत्
संजयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे
७.८५.३संजय उवाच
७.८५.४शृणु राजन्महाप्राज्ञ संग्रामं लोमहर्षणम्
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः
७.८५.५वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम्
७.८५.६तमापतन्तं सहसा भारद्वाजं महारथम्
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत्
७.८५.७द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः
७.८५.८ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः
अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः
७.८५.९दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः
द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः
७.८५.१०भारद्वाजो रणे विद्धो युयुधानेन सत्वरम्
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत
७.८५.११ततः क्रुद्धो महेष्वासो भूय एव महाबलः
सात्वतं पीडयामास शतेन नतपर्वणा
७.८५.१२स वध्यमानः समरे भारद्वाजेन सात्यकिः
नाभ्यपद्यत कर्तव्यं किंचिदेव विशां पते
७.८५.१३विषण्णवदनश्चापि युयुधानोऽभवन्नृप
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान्
७.८५.१४तं तु संप्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः
७.८५.१५तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम्
युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत
७.८५.१६एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत्
ग्रस्यते युधि वीरेण भानुमानिव राहुणा
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते
७.८५.१७धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप
अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत
न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम्
७.८५.१८असौ द्रोणो महेष्वासो युयुधानेन संयुगे
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा
७.८५.१९तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः
त्वयैव सहिता यत्ता युयुधानरथं प्रति
७.८५.२०पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम्
७.८५.२१एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात्
७.८५.२२तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम्
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः
७.८५.२३ते समेत्य नरव्याघ्रा भारद्वाजं महारथम्
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः
७.८५.२४स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम्
अतिथीनागतान्यद्वत्सलिलेनासनेन च
७.८५.२५तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः
आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा
७.८५.२६भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम्
मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो
७.८५.२७तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान्
७.८५.२८वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः
७.८५.२९द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः
७.८५.३०तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः
महारथसमाख्याता धृष्टद्युम्नस्य संमताः
७.८५.३१पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान्
७.८५.३२केकयानां शतं हत्वा विद्राव्य च समन्ततः
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः
७.८५.३३पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः
७.८५.३४तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः
वनौकसामिवारण्ये दह्यतां धूमकेतुना
७.८५.३५तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः
७.८५.३६तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे
न चाप्यभिययुः केचिदपरे नैव विव्यधुः
७.८५.३७वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम्
७.८५.३८पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम्
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति
७.८५.३९गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः
७.८५.४०न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट्
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः
७.८५.४१एवं संचिन्तयित्वा तु व्याकुलेनान्तरात्मना
अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत
७.८५.४२बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुंगवम्
७.८५.४३यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः
सांपराये सुहृत्कृत्ये तस्य कालोऽयमागतः
७.८५.४४सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुंगव
त्वत्तः सुहृत्तमं कंचिन्नाभिजानामि सात्यके
७.८५.४५यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः
स कार्ये सांपराये तु नियोज्य इति मे मतिः
७.८५.४६यथा च केशवो नित्यं पाण्डवानां परायणम्
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः
७.८५.४७सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि
७.८५.४८स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ
७.८५.४९त्वं हि सत्यव्रतः शूरो मित्राणामभयंकरः
लोके विख्यायसे वीर कर्मभिः सत्यवागिति
७.८५.५०यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम्
पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत्
७.८५.५१श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि
७.८५.५२एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो
७.८५.५३एक एव सदा कृष्णो मित्राणामभयंकरः
रणे संत्यजति प्राणान्द्वितीयस्त्वं च सात्यके
७.८५.५४विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः
७.८५.५५ईदृशे तु परामर्दे वर्तमानस्य माधव
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते
७.८५.५६श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः
मम संजनयन्हर्षं पुनः पुनरकीर्तयत्
७.८५.५७लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे
७.८५.५८महास्कन्धो महोरस्को महाबाहुर्महाधनुः
महाबलो महावीर्यः स महात्मा महारथः
७.८५.५९शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे
युयुधानः सहायो मे प्रमथिष्यति कौरवान्
७.८५.६०अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः
७.८५.६१गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः
सहायार्थं महाराज संग्रामोत्तममूर्धनि
७.८५.६२तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम्
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः
७.८५.६३इति द्वैतवने तात मामुवाच धनंजयः
परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि
७.८५.६४तस्य त्वमेवं संकल्पं न वृथा कर्तुमर्हसि
धनंजयस्य वार्ष्णेय मम भीमस्य चोभयोः
७.८५.६५यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान्
७.८५.६६न तत्सौहृदमन्येषु मया शैनेय लक्षितम्
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे
७.८५.६७सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव
७.८५.६८सत्यस्य च महाबाहो अनुकम्पार्थमेव च
अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि
७.८५.६९सुयोधनो हि सहसा गतो द्रोणेन दंशितः
पूर्वमेव तु यातास्ते कौरवाणां महारथाः
७.८५.७०सुमहान्निनदश्चैव श्रूयते विजयं प्रति
स शैनेय जवेनात्र गन्तुमर्हसि माधव
७.८५.७१भीमसेनो वयं चैव संयत्ताः सहसैनिकाः
द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति
७.८५.७२पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे
महान्तं च रणे शब्दं दीर्यमाणां च भारतीम्
७.८५.७३महामारुतवेगेन समुद्रमिव पर्वसु
धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना
७.८५.७४रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह
सैन्यं रजःसमुद्धूतमेतत्संपरिवर्तते
७.८५.७५संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः
अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा
७.८५.७६नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः
एते हि सैन्धवस्यार्थे सर्वे संत्यक्तजीविताः
७.८५.७७शरशक्तिध्वजवनं हयनागसमाकुलम्
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम्
७.८५.७८शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान्
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा
७.८५.७९नागानां शृणु शब्दं च पत्तीनां च सहस्रशः
सादिनां द्रवतां चैव शृणु कम्पयतां महीम्
७.८५.८०पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत्
७.८५.८१अपर्यन्ते बले मग्नो जह्यादपि च जीवितम्
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः
सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम्
७.८५.८२श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम्
७.८५.८३सूर्योदये महाबाहुर्दिवसश्चातिवर्तते
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत्
७.८५.८४एक एव च बीभत्सुः प्रविष्टस्तात भारतीम्
अविषह्यां महाबाहुः सुरैरपि महामृधे
७.८५.८५न च मे वर्तते बुद्धिरद्य युद्धे कथंचन
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम्
प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः
७.८५.८६युगपच्च समेतानां कार्याणां त्वं विचक्षणः
महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव
७.८५.८७तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा
अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे
७.८५.८८नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम्
स हि शक्तो रणे तात त्रीँल्लोकानपि संगतान्
७.८५.८९विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते
किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम्
७.८५.९०अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम्
७.८५.९१तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा
तादृशस्येदृशे काले मादृशेनाभिचोदितः
७.८५.९२रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः
७.८५.९३अस्त्रे नारायणसमः संकर्षणसमो बले
वीरतायां नरव्याघ्र धनंजयसमो ह्यसि
७.८५.९४भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम्
त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते
७.८५.९५नासाध्यं विद्यते लोके सात्यकेरिति माधव
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल
७.८५.९६संभावना हि लोकस्य तव पार्थस्य चोभयोः
नान्यथा तां महाबाहो संप्रकर्तुमिहार्हसि
७.८५.९७परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत्
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम्
७.८५.९८अयुद्धमनवस्थानं संग्रामे च पलायनम्
भीरूणामसतां मार्गो नैष दाशार्हसेवितः
७.८५.९९तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुंगव
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः
७.८५.१००कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम्
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम्
७.८५.१०१वासुदेवमतं चैतन्मम चैवार्जुनस्य च
सत्यमेतन्मयोक्तं ते याहि यत्र धनंजयः
७.८५.१०२एतद्वचनमाज्ञाय मम सत्यपराक्रम
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः
७.८५.१०३प्रविश्य च यथान्यायं संगम्य च महारथैः
यथार्हमात्मनः कर्म रणे सात्वत दर्शय