७. द्रोणपर्व
७.८८.१संजय उवाच

७.८८.२प्रयाते तव सैन्यं तु युयुधाने युयुत्सया
धर्मराजो महाराज स्वेनानीकेन संवृतः
प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः

७.८८.३ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः
प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः

७.८८.४आगच्छत प्रहरत द्रुतं विपरिधावत
यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः

७.८८.५महारथा हि बहवो यतिष्यन्त्यस्य निर्जये
इति ब्रुवन्तो वेगेन समापेतुर्बलं तव

७.८८.६वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः
ततः शब्दो महानासीद्युयुधानरथं प्रति

७.८८.७प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी
सात्वतेन महाराज शतधाभिव्यदीर्यत

७.८८.८तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः
सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत्

७.८८.९ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना
आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम्

७.८८.१०रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष
चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः

७.८८.११अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः
बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते

७.८८.१२हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः
ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम

७.८८.१३शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः
पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी

७.८८.१४गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः
रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः

७.८८.१५तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः
उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरंगमाः
गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना

७.८८.१६नानाविधानि सैन्यानि तव हत्वा तु सात्वतः
प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम्

७.८८.१७ततस्तेनैव मार्गेण येन यातो धनंजयः
इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः

७.८८.१८भरद्वाजं समासाद्य युयुधानस्तु मारिष
नाभ्यवर्तत संक्रुद्धो वेलामिव जलाशयः

७.८८.१९निवार्य तु रणे द्रोणो युयुधानं महारथम्
विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः

७.८८.२०सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः
हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः

७.८८.२१तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत्
स तं न ममृषे द्रोणं युयुधानो महारथः

७.८८.२२सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः
दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च

७.८८.२३युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः
एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान्
ध्वजमेकेन बाणेन विव्याध युधि मारिष

७.८८.२४तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः
त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः

७.८८.२५तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः
प्राच्छादयदसंभ्रान्तस्ततो द्रोण उवाच ह

७.८८.२६तवाचार्यो रणं हित्वा गतः कापुरुषो यथा
युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत

७.८८.२७त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव
यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम्

७.८८.२८सात्यकिरुवाच

७.८८.२९धनंजयस्य पदवीं धर्मराजस्य शासनात्
गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत्

७.८८.३०संजय उवाच

७.८८.३१एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन्
प्रयातः सहसा राजन्सारथिं चेदमब्रवीत्

७.८८.३२द्रोणः करिष्यते यत्नं सर्वथा मम वारणे
यत्तो याहि रणे सूत शृणु चेदं वचः परम्

७.८८.३३एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम्
अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम्

७.८८.३४तदनन्तरमेतच्च बाह्लिकानां बलं महत्
बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम्

७.८८.३५अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे
अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम्

७.८८.३६एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत्
मध्यमं जवमास्थाय वह मामत्र सारथे

७.८८.३७बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः
दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः

७.८८.३८हस्त्यश्वरथसंबाधं यच्चानीकं विलोक्यते
नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम्

७.८८.३९एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन्
स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम्

७.८८.४०तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून्
युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम्

७.८८.४१कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः
प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः

७.८८.४२प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च
अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत्

७.८८.४३तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः
चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान्

७.८८.४४ततः पुनः षोडशभिर्नतपर्वभिराशुगैः
सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे

७.८८.४५स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः
सात्वतेन महाराज कृतवर्मा न चक्षमे

७.८८.४६स वत्सदन्तं संधाय जिह्मगानलसंनिभम्
आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम्

७.८८.४७स तस्य देहावरणं भित्त्वा देहं च सायकः
सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः

७.८८.४८अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित्
समार्गणगुणं राजन्कृतवर्मा शरासनम्

७.८८.४९विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम्
दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे

७.८८.५०ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः
अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः

७.८८.५१ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः
व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः

७.८८.५२सरथं कृतवर्माणं समन्तात्पर्यवाकिरत्
छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः

७.८८.५३अथास्य भल्लेन शिरः सारथेः समकृन्तत
स पपात हतः सूतो हार्दिक्यस्य महारथात्
ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम्

७.८८.५४अथ भोजस्त्वसंभ्रान्तो निगृह्य तुरगान्स्वयम्
तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन्

७.८८.५५स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत्
व्यपेतभीरमित्राणामावहत्सुमहद्भयम्
सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत्

७.८८.५६युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः
प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम्

७.८८.५७स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः
न चचाल तदा राजन्सात्यकिः सत्यविक्रमः

७.८८.५८संधाय च चमूं द्रोणो भोजे भारं निवेश्य च
अन्वधावद्रणे यत्तो युयुधानं युयुत्सया

७.८८.५९तथा तमनुधावन्तं युयुधानस्य पृष्ठतः
न्यवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः

७.८८.६०समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम्
पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः
विक्रम्य वारिता राजन्वीरेण कृतवर्मणा

७.८८.६१यतमानांस्तु तान्सर्वानीषद्विगतचेतसः
अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत्

७.८८.६२निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे
अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः