७. द्रोणपर्व
७.८९.१धृतराष्ट्र उवाच

७.८९.२एवं बहुविधं सैन्यमेवं प्रविचितं वरम्
व्यूढमेवं यथान्यायमेवं बहु च संजय

७.८९.३नित्यं पूजितमस्माभिरभिकामं च नः सदा
प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम्

७.८९.४नातिवृद्धमबालं च न कृशं नातिपीवरम्
लघुवृत्तायतप्राणं सारगात्रमनामयम्

७.८९.५आत्तसंनाहसंपन्नं बहुशस्त्रपरिच्छदम्
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम्

७.८९.६आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते
सम्यक्प्रहरणे याने व्यपयाने च कोविदम्

७.८९.७नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम्
परीक्ष्य च यथान्यायं वेतनेनोपपादितम्

७.८९.८न गोष्ठ्या नोपचारेण न संबन्धनिमित्ततः
नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह

७.८९.९कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम्
कृतमानोपकारं च यशस्वि च मनस्वि च

७.८९.१०सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः
लोकपालोपमैस्तात पालितं नरसत्तमैः

७.८९.११बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः

७.८९.१२महोदधिमिवापूर्णमापगाभिः समन्ततः
अपक्षैः पक्षिसंकाशै रथैरश्वैश्च संवृतम्

७.८९.१३योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम्
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम्

७.८९.१४ध्वजभूषणसंबाधं रत्नपट्टेन संचितम्
वाहनैरपि धावद्भिर्वायुवेगविकम्पितम्

७.८९.१५द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम्
जलसंधमहाग्राहं कर्णचन्द्रोदयोद्धतम्

७.८९.१६गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे
संजयैकरथेनैव युयुधाने च मामकम्

७.८९.१७तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि
सात्वते च रथोदारे मम सैन्यस्य संजय

७.८९.१८तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ
सिन्धुराजं च संप्रेक्ष्य गाण्डीवस्येषुगोचरे

७.८९.१९किं तदा कुरवः कृत्यं विदधुः कालचोदिताः
दारुणैकायने काले कथं वा प्रतिपेदिरे

७.८९.२०ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात संगतान्
विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै

७.८९.२१अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ
न च वारयिता कश्चित्तयोरस्तीह संजय

७.८९.२२भृताश्च बहवो योधाः परीक्ष्यैव महारथाः
वेतनेन यथायोग्यं प्रियवादेन चापरे

७.८९.२३अकारणभृतस्तात मम सैन्ये न विद्यते
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम्

७.८९.२४न च योधोऽभवत्कश्चिन्मम सैन्ये तु संजय
अल्पदानभृतस्तात न कुप्यभृतको नरः

७.८९.२५पूजिता हि यथाशक्त्या दानमानासनैर्मया
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः

७.८९.२६ते च प्राप्यैव संग्रामे निर्जिताः सव्यसाचिना
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः

७.८९.२७रक्ष्यते यश्च संग्रामे ये च संजय रक्षिणः
एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः

७.८९.२८अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम्
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत

७.८९.२९सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत्
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत

७.८९.३०सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः

७.८९.३१दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम्
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः

७.८९.३२दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः

७.८९.३३विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये
पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः

७.८९.३४शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः

७.८९.३५व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः
धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः

७.८९.३६विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान्
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः

७.८९.३७पत्तिसंघान्रणे दृष्ट्वा धावमानांश्च सर्वशः
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः

७.८९.३८द्रोणस्य समतिक्रान्तावनीकमपराजितौ
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः

७.८९.३९संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनंजयौ
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ

७.८९.४०तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे
भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः

७.८९.४१तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व संजय

७.८९.४२द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे

७.८९.४३बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः
भारद्वाजस्तथा तेषु कृतवैरो महारथः

७.८९.४४अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि संजय