७. द्रोणपर्व
७.९१.१संजय उवाच

७.९१.२शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना

७.९१.३लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम्

७.९१.४श्रुत्वा तु निनदं भीमं तावकानां महाहवे
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात्

७.९१.५कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः
अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुध्यत सात्यकिः

७.९१.६ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे
प्रेषयामास समरे शरांश्च चतुरोऽपरान्

७.९१.७ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः

७.९१.८ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः
सेनामस्यार्दयामास शरैः संनतपर्वभिः

७.९१.९साभज्यताथ पृतना शैनेयशरपीडिता
ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः

७.९१.१०शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान्
अतीत्य स महाराज द्रोणानीकमहार्णवम्

७.९१.११पराजित्य च संहृष्टः कृतवर्माणमाहवे
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसंभ्रमम्

७.९१.१२दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसंकुलम्
पदातिजनसंपूर्णमब्रवीत्सारथिं पुनः

७.९१.१३यदेतन्मेघसंकाशं द्रोणानीकस्य सव्यतः
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम्

७.९१.१४एते हि बहवः सूत दुर्निवार्याश्च संयुगे
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः
राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः

७.९१.१५त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः

७.९१.१६अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः

७.९१.१७ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः
रथेनादित्यवर्णेन भास्वरेण पताकिना

७.९१.१८तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः
वायुवेगसमाः संख्ये कुन्देन्दुरजतप्रभाः

७.९१.१९आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः
परिवव्रुस्ततः शूरा गजानीकेन सर्वतः
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः

७.९१.२०सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत्
पर्वतानिव वर्षेण तपान्ते जलदो महान्

७.९१.२१वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः
प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः

७.९१.२२शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः

७.९१.२३संभिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः

७.९१.२४रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः
नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः

७.९१.२५तस्मिन्द्रुते गजानीके जलसंधो महारथः
यत्तः संप्रापयन्नागं रजताश्वरथं प्रति

७.९१.२६रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः
कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः

७.९१.२७शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम्
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम्

७.९१.२८चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि
अशोभत महाराज सविद्युदिव तोयदः

७.९१.२९तमापतन्तं सहसा मागधस्य गजोत्तमम्
सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम्

७.९१.३०नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः
अक्रुध्यत रणे राजञ्जलसंधो महाबलः

७.९१.३१ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः
अविध्यत शिनेः पौत्रं जलसंधो महोरसि

७.९१.३२ततोऽपरेण भल्लेन पीतेन निशितेन च
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम्

७.९१.३३सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः

७.९१.३४स विद्धो बहुभिर्बाणैर्जलसंधेन वीर्यवान्
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत्

७.९१.३५अचिन्तयन्वै स शरान्नात्यर्थं संभ्रमाद्बली
धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह

७.९१.३६एतावदुक्त्वा शैनेयो जलसंधं महोरसि
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव

७.९१.३७क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः
जलसंधस्य चिच्छेद विव्याध च त्रिभिः शरैः

७.९१.३८जलसंधस्तु तत्त्यक्त्वा सशरं वै शरासनम्
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष

७.९१.३९स निर्भिद्य भुजं सव्यं माधवस्य महारणे
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः

७.९१.४०निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसंधमताडयत्

७.९१.४१प्रगृह्य तु ततः खड्गं जलसंधो महाबलः
आर्षभं चर्म च महच्छतचन्द्रमलंकृतम्
तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह

७.९१.४२शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम्
अलातचक्रवच्चैव व्यरोचत महीं गतः

७.९१.४३अथान्यद्धनुरादाय सर्वकायावदारणम्
शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम्
विस्फार्य विव्यधे क्रुद्धो जलसंधं शरेण ह

७.९१.४४ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः
साङ्गदौ जलसंधस्य चिच्छेद प्रहसन्निव

७.९१.४५तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात्
वसुंधराधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ

७.९१.४६ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम्
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः

७.९१.४७तत्पातितशिरोबाहुकबन्धं भीमदर्शनम्
द्विरदं जलसंधस्य रुधिरेणाभ्यषिञ्चत

७.९१.४८जलसंधं निहत्याजौ त्वरमाणस्तु सात्वतः
नैषादिं पातयामास गजस्कन्धाद्विशां पते

७.९१.४९रुधिरेणावसिक्ताङ्गो जलसंधस्य कुञ्जरः
विलम्बमानमवहत्संश्लिष्टं परमासनम्

७.९१.५०शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम्
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः

७.९१.५१हाहाकारो महानासीत्तव सैन्यस्य मारिष
जलसंधं हतं दृष्ट्वा वृष्णीनामृषभेण ह

७.९१.५२विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः
पलायने कृतोत्साहा निरुत्साहा द्विषज्जये

७.९१.५३एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः
अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम्

७.९१.५४तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुंगवाः
द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन्

७.९१.५५ततः प्रववृते युद्धं कुरूणां सात्वतस्य च
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम्