७. द्रोणपर्व
७.९०.१संजय उवाच

७.९०.२आत्मापराधात्संभूतं व्यसनं भरतर्षभ
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि

७.९०.३तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम्
आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम

७.९०.४सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत्

७.९०.५आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः
न हि ते सुकृतं किंचिदादौ मध्ये च भारत
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः

७.९०.६तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम्
शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम्

७.९०.७प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव

७.९०.८आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान्
दधारैको रणे पाण्डून्कृतवर्मा महारथः

७.९०.९यथोद्वृत्तं धारयते वेला वै सलिलार्णवम्
पाण्डुसैन्यं तथा संख्ये हार्दिक्यः समवारयत्

७.९०.१०तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम्
यदेनं सहिताः पार्था नातिचक्रमुराहवे

७.९०.११ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः
शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान्

७.९०.१२सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः
शतेन नकुलश्चापि हार्दिक्यं समविध्यत

७.९०.१३द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत्
विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः

७.९०.१४शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः
पुनर्विव्याध विंशत्या सायकानां हसन्निव

७.९०.१५कृतवर्मा ततो राजन्सर्वतस्तान्महारथान्
एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः
धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत्

७.९०.१६अथैनं छिन्नधन्वानं त्वरमाणो महारथः
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः

७.९०.१७स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः
चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः

७.९०.१८भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः
विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन्

७.९०.१९तं तथा कोष्ठकीकृत्य रथवंशेन मारिष
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे

७.९०.२०प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः
शक्तिं जग्राह समरे हेमदण्डामयस्मयीम्
चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति

७.९०.२१सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा
कृतवर्माणमभितः प्रजज्वाल सुदारुणा

७.९०.२२तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम्
द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा

७.९०.२३सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा
द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम्

७.९०.२४ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम्
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत्

७.९०.२५अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह

७.९०.२६भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे

७.९०.२७ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत

७.९०.२८त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान्
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः

७.९०.२९शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः
धनुश्चिच्छेद समरे प्रहसन्निव भारत

७.९०.३०शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम्
असिं जग्राह समरे शतचन्द्रं च भास्वरम्

७.९०.३१भ्रामयित्वा महाचर्म चामीकरविभूषितम्
तमसिं प्रेषयामास कृतवर्मरथं प्रति

७.९०.३२स तस्य सशरं चापं छित्त्वा संख्ये महानसिः
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात्

७.९०.३३एतस्मिन्नेव काले तु त्वरमाणा महारथाः
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे

७.९०.३४अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा

७.९०.३५विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च

७.९०.३६धनुरन्यत्समादाय शिखण्डी तु महायशाः
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम्

७.९०.३७ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसंभवः
अभिदुद्राव वेगेन याज्ञसेनिं महारथम्

७.९०.३८भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम्

७.९०.३९तौ दिशागजसंकाशौ ज्वलिताविव पावकौ
समासेदतुरन्योन्यं शरसंघैररिंदमौ

७.९०.४०विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान्
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ

७.९०.४१तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव

७.९०.४२कृतवर्मा तु रभसं याज्ञसेनिं महारथम्
विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः

७.९०.४३स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः

७.९०.४४तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह

७.९०.४५शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम्
अपोवाह रणाद्यन्ता त्वरमाणो महारथम्

७.९०.४६सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम्
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे

७.९०.४७तत्राद्भुतं परं चक्रे कृतवर्मा महारथः
यदेकः समरे पार्थान्वारयामास सानुगान्

७.९०.४८पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि
केकयांश्च महावीर्यान्कृतवर्मा महारथः

७.९०.४९ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे

७.९०.५०जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान्
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः

७.९०.५१ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः
विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः