७. द्रोणपर्व
७.९४.१संजय उवाच

७.९४.२द्रोणं स जित्वा पुरुषप्रवीर;स्तथैव हार्दिक्यमुखांस्त्वदीयान्
प्रहस्य सूतं वचनं बभाषे; शिनिप्रवीरः कुरुपुंगवाग्र्य

७.९४.३निमित्तमात्रं वयमत्र सूत; दग्धारयः केशवफल्गुनाभ्याम्
हतान्निहन्मेह नरर्षभेण; वयं सुरेशात्मसमुद्भवेन

७.९४.४तमेवमुक्त्वा शिनिपुंगवस्तदा; महामृधे सोऽग्र्यधनुर्धरोऽरिहा
किरन्समन्तात्सहसा शरान्बली; समापतच्छ्येन इवामिषं यथा

७.९४.५तं यान्तमश्वैः शशिशङ्खवर्णै;र्विगाह्य सैन्यं पुरुषप्रवीरम्
नाशक्नुवन्वारयितुं समन्ता;दादित्यरश्मिप्रतिमं नराग्र्यम्

७.९४.६असह्यविक्रान्तमदीनसत्त्वं; सर्वे गणा भारत दुर्विषह्यम्
सहस्रनेत्रप्रतिमप्रभावं; दिवीव सूर्यं जलदव्यपाये

७.९४.७अमर्षपूर्णस्त्वतिचित्रयोधी; शरासनी काञ्चनवर्मधारी
सुदर्शनः सात्यकिमापतन्तं; न्यवारयद्राजवरः प्रसह्य

७.९४.८तयोरभूद्भरत संप्रहारः; सुदारुणस्तं समभिप्रशंसन्
योधास्त्वदीयाश्च हि सोमकाश्च; वृत्रेन्द्रयोर्युद्धमिवामरौघाः

७.९४.९शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य;त्सुदर्शनः सात्वतमुख्यमाजौ
अनागतानेव तु तान्पृषत्कां;श्चिच्छेद बाणैः शिनिपुंगवोऽपि

७.९४.१०तथैव शक्रप्रतिमोऽपि सात्यकिः; सुदर्शने यान्क्षिपति स्म सायकान्
द्विधा त्रिधा तानकरोत्सुदर्शनः; शरोत्तमैः स्यन्दनवर्यमास्थितः

७.९४.११संप्रेक्ष्य बाणान्निहतांस्तदानीं; सुदर्शनः सात्यकिबाणवेगैः
क्रोधाद्दिधक्षन्निव तिग्मतेजाः; शरानमुञ्चत्तपनीयचित्रान्

७.९४.१२पुनः स बाणैस्त्रिभिरग्निकल्पै;राकर्णपूर्णैर्निशितैः सुपुङ्खैः
विव्याध देहावरणं विभिद्य; ते सात्यकेराविविशुः शरीरम्

७.९४.१३तथैव तस्यावनिपालपुत्रः; संधाय बाणैरपरैर्ज्वलद्भिः
आजघ्निवांस्तान्रजतप्रकाशां;श्चतुर्भिरश्वांश्चतुरः प्रसह्य

७.९४.१४तथा तु तेनाभिहतस्तरस्वी; नप्ता शिनेरिन्द्रसमानवीर्यः
सुदर्शनस्येषुगणैः सुतीक्ष्णै;र्हयान्निहत्याशु ननाद नादम्

७.९४.१५अथास्य सूतस्य शिरो निकृत्य; भल्लेन वज्राशनिसंनिभेन
सुदर्शनस्यापि शिनिप्रवीरः; क्षुरेण चिच्छेद शिरः प्रसह्य

७.९४.१६सकुण्डलं पूर्णशशिप्रकाशं; भ्राजिष्णु वक्त्रं निचकर्त देहात्
यथा पुरा वज्रधरः प्रसह्य; बलस्य संख्येऽतिबलस्य राजन्

७.९४.१७निहत्य तं पार्थिवपुत्रपौत्रं; रणे यदूनामृषभस्तरस्वी
मुदा समेतः परया महात्मा; रराज राजन्सुरराजकल्पः

७.९४.१८ततो ययावर्जुनमेव येन; निवार्य सैन्यं तव मार्गणौघैः
सदश्वयुक्तेन रथेन निर्या;ल्लोकान्विसिस्मापयिषुर्नृवीरः

७.९४.१९तत्तस्य विस्मापयनीयमग्र्य;मपूजयन्योधवराः समेताः
यद्वर्तमानानिषुगोचरेऽरी;न्ददाह बाणैर्हुतभुग्यथैव